पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० यमाय यमसूं युग्मप्रसवित्रीम् ९ अथर्वभ्योऽवतोकां निरपत्याम् १० संवत्सराय पर्यायिणीम् पर्यायोऽनुक्रमस्तद्वतीमनुक्रमप्रज्ञाम् ११ । अथ सप्तमे यूपे । परिवत्सराय अविजाताम् अप्रसूताम् १ इदावत्सराय अतीत्वरीमत्यन्तं कुलटाम् 'पुंश्चली कुलटेत्वरी' २ इद्वत्सराय अतिष्कद्वरीम् अतिस्कन्दति स्रवति इत्यतिस्कद्वरी । स्कन्देर्वन्नन्तात् ङीव्रेफौ ३ वत्सराय विजर्जरां शिथिलशरीराम् ४ संवत्सराय पलिक्नीं श्वेतकेशाम् ५ ऋभुभ्यः अजिनसन्धं चर्मसन्धातारम् ६ साध्येभ्यः चर्मम्नं चर्माभ्यासकरम् ७ ॥ १५ ॥

षोडशी।
सरो॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः शौष्क॑लं पा॒राय॑ मार्गा॒रम॑वा॒राय॑ कै॒वर्तं॑ ती॒र्थेभ्य॑ आ॒न्दं विष॑मेभ्यो मैना॒लᳪ स्वने॑भ्य॒: पर्ण॑कं॒ गुहा॑भ्य॒: किरा॑त॒ᳪ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किम्पूरु॒षम् ।। १६ ।।
म० सरोभ्यो धैवरं कैवर्तापत्यम् ८ उपस्थावराभ्यः दाशम् 'दाशृ दाने' दातारम् । दाशो धीवरो वा ९ वैशन्ताभ्यो वैन्दं विन्दो निषादापत्यम् १० नड्वलाभ्यः शौष्कलं मत्स्यजीविनम् शुष्कला मत्स्यास्तैर्जीवति तम् ११ । अथाष्टमे यूपे । पाराय मार्गारम् मृगारेरपत्यं मार्गारस्तम् १ अवाराय कैवर्तम् २ तीर्थेभ्यः आन्दम् 'अदि बन्धने' अदति आन्दस्तं बन्धनकर्तारम् ३ विषमेभ्यो मैनालम् 'अल् वारणे' मीनानलति वारयति जालैरसौ मीनालस्तदपत्यम् ४ स्वनेभ्यः पर्णकं भिल्लम् ५ गुहाभ्यः किरातम् ६ सानुभ्यः जम्भकं 'जभि नाशने' जम्भयतीति तत् हिंसकम् ७ पर्वतेभ्यः किंपूरुषं कुत्सितनरम् ८ ॥ १६ ॥

सप्तदशी।
बी॒भ॒त्सायै॑ पौल्क॒सं वर्णा॑य हिरण्यका॒रं तु॒लायै॑ वाणि॒जं प॑श्चादो॒षाय॑ ग्ला॒विनं॒ विश्वे॑भ्यो भू॒तेभ्य॑: सिध्म॒लं भूत्यै॑ जागर॒णमभू॑त्यै स्वप॒नमार्त्यै॑ जनवा॒दिनं॒ व्यृ॒द्ध्या अपग॒ल्भᳪ स॑ᳪश॒राय॑ प्र॒च्छिद॑म् ।। १७ ।।
म० बीभत्सायै पौल्कसं पुल्कसापत्यम् ९ वर्णाय हिरण्यकारं स्वर्णनिष्पादकम् १० तुलायै वाणिजं वणिगपत्यम् ११ । अथ नवमे यूपे । पश्चादोषाय ग्लाविनं 'ग्लै हर्षक्षये' अहृष्टम् १ विश्वेभ्यो भूतेभ्यः सिध्मलं सिध्माख्यरोगवन्तम् २ भूत्यै जागरणं जागरूकम् ३ अभूत्यै स्वपनं शयालुम् ४ आर्त्यै जनवादिनं जनान् वदति तम् ५ वृद्ध्यै अपगल्भम् । संशराय प्रच्छिदं प्रच्छेदनकर्तारम् ७ ॥ १७ ॥

अष्टादशी।
अ॒क्ष॒रा॒जाय॑ कित॒वं कृ॒ताया॑दिनवद॒र्शं त्रेता॑यै क॒ल्पिनं॑ द्वा॒परा॑याधिक॒ल्पिन॑मास्क॒न्दाय॑ सभास्था॒णुं मृ॒त्यवे॑ गोव्य॒च्छमन्त॑काय गोघा॒तं क्षु॒धे यो गां वि॑कृ॒न्तन्तं॒ भिक्ष॑माण उप॒तिष्ठ॑ति दुष्कृ॒ताय॒ चर॑काचार्यं पा॒प्मने॑ सैल॒गम् ।। १८ ।।
म० अक्षराजाय कितवं धूर्तम् ८ कृताय आदिनवदर्शम् आदीनवो दोषस्तं पश्यति तथाभूतम् ९ त्रेतायै कल्पिनं कल्पकम् १० द्वापराय अधिकल्पिनम् अधिकल्पनाकर्तारम् ११ । अथ दशमे यूपे । आस्कन्दाय सभास्थाणुं सभायां स्थिरम् १ मृत्यवे गोव्यच्छं गाः प्रति गमनशीलम् २ अन्तकाय गोघातं गवां हन्तारम् ३ क्षुधे यो गां विकृन्तन्तं भिक्षमाण उपतिष्ठति यः पुमान् गां विकृन्तन्तं छिन्दन्तम् । भिक्षमाणो याचमानः उपतिष्ठते तं याचितारं क्षुधे देव्यै आलमेत ४ | दुष्कृताय चरकाचार्यं चरकाणां गुरुम् ५ पाप्मने सैलगं | सीलगो दुष्टस्तदपत्यम् ६ ॥ १८ ॥

एकोनविंशी।
प्र॒ति॒श्रुत्का॑या अर्त॒नं घोषा॑य भ॒षमन्ता॑य बहुवा॒दिन॑मन॒न्ताय॒ मूक॒ᳪ शब्दा॑याडम्बराघा॒तं मह॑से वीणावा॒दं क्रोशा॑य तूणव॒ध्मम॑वरस्प॒राय॑ शङ्ख॒ध्मं वना॑य वन॒पम॒न्यतो॑रण्याय दाव॒पम् ।। १९ ।।
म० प्रतिश्रुत्कायै अर्तनं दुःखिनम् ७ घोषाय भषं जल्पकम् ८ अन्ताय बहुवादिनम् ९ अनन्ताय मूकं वाग्विकलम् १० शब्दाय आडम्बराघातम् आडम्बरमाहन्ति तं कोलाहलकर्तारम् ११ । अथैकादशे यूपे । महसे वीणावादं वीणावादनकर्तारम् १ क्रोशाय तूणवध्मं वाद्यविशेषं धमति तथाभूतम् २ अवरस्पराय शङ्खध्मं शङ्खवादकम् ३ वनाय वनपं वनपालकम् ४ अन्यतोऽरण्याय दावपं वनवह्निपम् ५ ॥१९॥

विंशी।
न॒र्माय॑ पुँश्च॒लूᳪ हसा॑य॒ कारिं॒ याद॑से शाब॒ल्यां ग्रा॑म॒ण्यं गण॑कमभि॒क्रोश॑कं॒ तान्मह॑से वीणावा॒दं पा॑णि॒घ्नं तू॑णव॒ध्मं तान्नृ॒त्ताया॑न॒न्दाय॑ तल॒वम् ।। २० ।।

म०. नर्माय पुंश्चलूं दुष्टां नारीम् ६ हसाय कारिं करणशीलम् ७ यादसे शाबल्याम् शबलः कर्बुरवर्णः तदपत्यभूतां स्त्रियम् ८ ग्रामण्यं ग्रामनेतारम् ९ गणकं ज्योतिर्विदम् १०