पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० ब्राह्मणोऽस्य । ब्राह्मणः अस्य मुखम् आसीत् बाहू राजन्यः कृतः । उरू तत् अस्य यत् वैश्यः पद्भ्याम् शूद्रः अजायत । अस्य यज्ञोत्पन्नस्य पुरुषस्य ये केचिद्ब्राह्मणाः ते मुखम् आसीत् । ये क्षत्रियाः ते बाहूकृताः । ये वैश्याः ते अस्य ऊरू कृताः । ये शूद्रा ते पद्भ्याम् अजायन्त इति कल्प्यन्ते तदस्योत्पन्नत्वादिति । एवमेतेऽवयवाः शिरःप्रभृतयः पुरुषस्य विद्यन्ते नान्ये इति ॥ ११ ॥
म० पूर्वोक्तप्रश्नोत्तराण्याह । ब्राह्मणः ब्रह्मत्वजातिविशिष्टः पुरुषोऽस्य प्रजापतेर्मुखमासीत् । मुखादुत्पन्न इत्यर्थः । राजन्यः क्षत्रियत्वजातिविशिष्टो बाहू कृतः बाहुत्वेन निष्पादितः । तत् तदानीमस्य प्रजापतेः यत् यावूरू तद्रूपो वैश्यः संपन्नः । ऊरुभ्यामुत्पादित इत्यर्थः । तथास्य पद्भ्यां शूद्रत्वजातिमान्पुरुषोऽजायत उत्पन्नः॥११॥

द्वादशी।
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।
श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ।। १२ ।।
उ० चन्द्रमा मनसः । चन्द्रमाः मनसः जातः चक्षोः सूर्यः अजायत । श्रोत्रात् वायुः च प्राणः च मुखात् अग्निः अजायत । तस्यैवंविधस्य यज्ञोत्पन्नस्य पुरुषस्य । चन्द्रमाः मनसः चेतसः जातः अजायतेति कल्पना । मन एव चन्द्रमाः । चक्षोः नेत्राभ्यां सूर्यः। नेत्रे एव सूर्यः । यः प्राणो जीवः स एव वायुः श्रोत्रात् अजायतेति कल्प्यते श्रोत्रमेव वायुः । योऽयमग्निः स मुखात् अजायतेति कल्प्यते मुखमेवाग्निः अंशोत्पन्नत्वादिति ॥ १२ ॥
म० यथा दध्यादिद्रव्याणि गवादयः पशवः ऋगादिवेदाः ब्राह्मणादयो मनुष्याश्च तस्मादुत्पन्नाः एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह । मनसः सकाशाच्चन्द्रमाः जातः । चक्षोः चक्षुषः सकाशात्सूर्यः अजायत । वायुः प्राणश्च श्रोत्रात्कर्णादजायत । मुखादग्निरजायत ॥ १२ ॥

त्रयोदशी।
नाभ्या॑ आसीद॒न्तरि॑क्षᳪ शी॒र्ष्णो द्यौ॒: सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा॒त्तथा॑ लो॒काँ२ अ॑कल्पयन् ।। १३ ।।
उ० नाभ्या आसीत् । नाभ्याः आसीत् अन्तरिक्षम् शीर्ष्णः द्यौः सम् अवर्तत । पद्भ्याम् भूमिः दिशः श्रोत्रात् तथा लोकान् अकल्पयन् । तस्यैवंविधस्य पुरुषस्य या नाभिः तदेवान्तरिक्षं नभः । या द्यौः तत् शीर्षं शिरः । समवर्ततेति कल्पितम् । पादौ भूमिरेव । श्रोत्रे श्रवणौ दिशः । श्रोत्रावयवाः यस्माद्दिशः ब्रह्मणो जाताः तथैव सर्वान् लोकान् पुरुषस्यावयवभूतान् अकल्पयदिति ॥ ३॥
म० यथा प्रजापतेर्मनःप्रभृतयश्चन्द्रादीनकल्पयन् तथान्तरिक्षादिलोकानित्याह नाभ्येति । प्रजापतेः नाभेः सकाशात् अन्तरिक्षमासीत् । शीर्ष्णः शिरसः द्यौः स्वर्गः समवर्ततोत्पन्ना। अस्य पद्भ्यां पादाभ्यां भूमिरुत्पन्ना । श्रोत्राद्दिशः उत्पन्नाः । तथा तेनोक्तेन विधिना लोकान्भूरादीन् प्रजापतेः सकाशादकल्पयन् कल्पितवन्तः । फलादानोत्सुकाः काला इति शेषः ॥ १३ ॥

चतुर्दशी।
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो॒ऽस्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।। १४ ।।
उ० यत्पुरुषेण । यत् पुरुषेण हविषा देवाः यज्ञम् अतन्वत । वसन्तः अस्य आसीत् आज्यम् ग्रीष्मः इध्मः शरत् हविः कथमन्नेनाधिरोहति । यत् यस्मात्कारणात् पुरुषेण हविषा हविर्भूतेन देवा इन्द्रादयः यथा यज्ञम् अतन्वत विस्तारितवन्तः । तथा योगिनोऽपि पुरुषेणैवामृतभूतेन दीपितेनात्मना आत्मयज्ञं समधिकृतवन्तः । अत्र यज्ञे वसन्तः आज्यमासीत् ग्रीष्मः इध्मः शरद्धविरिति । | इतरयागे वसन्तशब्देन सात्विको गुण उच्यते । ग्रीष्मशब्देन राजसः । शरच्छब्देन तामसः । त्रयो हि गुणास्तत्रात्मयज्ञे योगिनो जुह्वतीति ॥ १४ ॥
म० यत् यदा पूर्वोक्तक्रमेण देवशरीरेषु सत्सु देवाः उत्तरसृष्टिसिद्ध्यर्थं बाह्यद्रव्यस्यानुत्पन्नत्वेन पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य पुरुषेण पुरुषाख्येन हविषा मानसं यज्ञमतन्वतातनिषत तदानीमस्य यज्ञस्य वसन्तः ऋतुरेवाज्यमासीत् । आज्यत्वेन संकल्पितवन्त इत्यर्थः । एवं ग्रीष्मः इध्मः आसीत् । ग्रीष्ममेवेध्मत्वेन संकल्पितवन्तः । तथा शरत् हविः आसीत् । शरदमेव पुरोडाशादिहविष्ट्वेन संकल्पितवन्तः । पूर्वं पुरुषस्य हविःसामान्यरूपत्वेन संकल्पः अनन्तरं वसन्तादीनामाज्यादिविशेषरूपत्वेन संकल्प इति द्रष्टव्यम् । अत्र कण्डिकाव्युत्क्रमोऽस्ति अस्यानन्तरं तं यज्ञम् (९) ततः तस्माद्यज्ञादिति (६) तिस्रः क्रमेणैव । ततः सप्तास्यासन्निति (१५) क्रमोऽपेक्षितः ॥ १४ ॥

पञ्चदशी ।
स॒प्तास्या॑सन् परि॒धय॒स्त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न् पुरु॑षं प॒शुम् ।। १५ ।।
उ० सप्तास्यासन् सप्त अस्य आसन् परिधयः त्रिःसप्त समिधः कृताः । देवाः यत् यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् । देवा इन्द्रादयः यथा यजं पुरुषमेधाख्यं विस्तारयन्तः पुरुषं पशुम् अबध्नन् हतवन्तः अस्य पुरुषमेधयज्ञस्य सप्त समुद्राः परिधयः आसन् । भारते हि वर्षे यागः प्रवर्तते । त्रिःसप्त छन्दांसि गायत्र्यादीनि समिधः