पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रेवत्यः, अस्मिन्योनौ दृश्यमानेऽग्निहोत्रहविर्दोहनस्थाने यूयं रमध्वं क्रीडत दोहनादूर्ध्वमस्मिन् गोष्ठे यजमानसंबन्धिगोवाटे रमध्वम् । गोष्ठशब्देन गृहाद्बहिर्विश्रम्भेण संचारप्रदेशः । सर्वदास्मिन् लोके 'लोकृ दर्शने' यजमानदृष्टिविषये रमध्वम् । रात्रौ अस्मिन् क्षये यजमानगृहे रमध्वम् । 'क्षयो निवासे' (पा. ६ । १ । २०१) इत्याद्युदात्तः । क्षयशब्दो निवासवाची । किंच । इहैव स्त यजमानगृहे एव भवत । मा अपगात अन्यत्र मा गच्छत । 'इणो गा लुङि' (पा० २ । ४ । ४५) इति एतेर्लुङि गादेशे रूपम् ॥ २१ ॥

द्वाविंशी।
स॒ᳪहि॒तासि॑ विश्वरू॒प्यू॒र्जामावि॑श गौप॒त्येन॑ । उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्द्धि॒या व॒यम् ।
नमो॒ भर॑न्त॒ एम॑सि ।। २२ ।।
उ० गामभिमृशति । संहितासि संलग्नासि यज्ञहोमसंबन्धेन । अथवा संदधाति क्षीणान् प्राणिनः स्वपयोभिरिति संहिता । विश्वरूपी । शुक्लकृष्णादिभेदैः पशूनां वैश्वरूप्यम् । या त्वं संहितासि विश्वरूपी च सा ऊर्जा अन्नेन माम् आविश । गौपत्येन च । गवां पतित्वं गौपत्यम् । गार्हपत्यमुपतिष्ठते तिसृभिर्गायत्रीभिः । उप त्वाग्ने । उपेत्ययमुपसर्ग एमसीत्यनेनाख्यातपदेन सह संबध्यते । इमसीति सिद्धे छन्दसि वर्तमानार्थे मस् । लिटि 'इदन्तो मसि' इति रूपम् । उपेम उपेयाम उपगच्छामः त्वाम् । हे अग्ने, दिवेदिवे अहन्यहनि । हे दोषावस्तः । दोषेति रात्रिनाम । 'वस निवासे' रात्र्यां वसनशीलो दोषावस्ता तस्य संबोधनं हे दोषावस्तः । 'अग्नौ ह वै देवा' इत्युपक्रम्य 'तौ संगृह्य रात्रिं प्रविवेश' इति यदनेनेतिहासेनोच्यते तदयं मन्त्रो दृष्ट्वाह दोषावस्तरिति । धिया बुद्ध्या प्रोक्तं । यतमनस्काः श्रद्दधानाः वयं नमोभरन्तः । नम इत्यन्ननाम । अन्नं बिभ्रतः उप आ इमसीत्याख्यातपदं व्याख्यातमेव ॥ २२॥
म० सᳪहितेत्यालभते' ( का० ४ । १२ । ६ ) इति । गामित्यनुवर्तते । हे गौः, त्वं संहितासि क्षीराज्यरूपहविर्दानाय यज्ञकर्मभिः संयुक्तासि । किंभूता । विश्वरूपी विश्वं रूपं यस्याः सा । शुक्लकृष्णादिबहुरूपैर्युक्ता । सा त्वमूर्जा क्षीरादिरसेन गौपत्येन गोस्वामित्वेन मामाविश सर्वतः प्रविश । त्वत्प्रसादान्मम बहुविधो रसो बहुविधं गोस्वामित्वं च संपद्यतामित्यर्थः । 'गार्हपत्यं गत्वोपतिष्ठत उप त्वेतीति' (का० ४ । १२ । ७)। उप त्वा । तिस्रो गायत्र्य आग्नेय्यो मधुच्छन्दोदृष्टाः । हे दोषावस्तः हे अग्ने, दोषा रात्रिस्तस्यामपि वसति अजस्रं धार्यमाणत्वान्नोपशाम्यतीति दोषावस्ता । यद्वा अग्नौ हे देवाः, इत्युपक्रम्य तैः संगृह्य रात्रिं प्रविवेशेतीतिहासेन अग्ने रात्रौ प्रवेश उक्तस्तमयं मन्त्र आह । हे दोषावस्तः रात्रौ वसनशील गार्हपत्य, दिवेदिवे प्रतिदिनं वयं यजमानाः त्वा त्वामुप एमसि त्वां प्रत्यागच्छामः । 'इदन्तो मसि' । किंभूता वयम् । धिया श्रद्धायुक्तया वुद्ध्या नमोभरन्तः नमस्कारं संपादयन्तः । यद्वा नम इत्यन्ननाम ( निघ० २। ७ । २१)। अन्नं हविर्बिभ्रतः ॥ २२ ॥

त्रयोविंशी।
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ᳪ स्वे दमे॑ ।। २३ ।।
उ० राजन्तमध्वराणाम् । अस्मिन्मन्त्रे आख्यातं नाम्नातमतोऽधस्तनमन्त्रे यदाख्यातं तदनुवर्तते । राजन्तं दीप्यमानम् । अध्वराणां गोपां यज्ञानां गोप्तारम् । ऋतस्य दीदिविम् सत्यस्य दीपयितारम् । अग्निसमीपे व्रतं गृहीत्वा सत्यं वदति तदभिप्रायमेतत् । वर्धमानम् चातुर्मास्यपशुसोमैः । स्वेदमे स्वकीये यज्ञगृहे । दम इति गृहनाम । । दास्यन्ति हि गृहस्थाः । उप आ इमसीत्यनुवर्तते ॥ २३ ॥ ।
म० क्रियापदमनुवर्तते । वयमीदृशमग्निमुपैमः । कीदृशम् । | राजन्तं दीप्यमानमध्वराणां गोपां गोपायतीति गोपास्तं यज्ञानां गोप्तारम् । ऋतस्य सत्यवचनलक्षणस्य व्रतस्य दीदिविं दीपयितारम् । अग्निसमीपे व्रतं गृहीत्वा सत्यं वदतीत्याशयः । स्वे दमे अस्मदीये गृहे वर्धमानं चातुर्मास्यसोमपश्वादिभिरभिवृद्धिं गच्छन्तम् । दाम्यन्ति गृहस्था यत्रेति दमो गृहम् । : दिवेः किप्रत्ययो बाहुलकात् । लिड्वद्भावात् द्वित्वम् । 'तुजादीनां दीर्घोऽभ्यासस्य' (पा०६।१।७) इत्यभ्यासदीर्घः । देवयतीति दीदिविः ॥ २३ ॥

चतुर्विंशी।
स न॑: पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ।। २४ ।।
उ० स नः पितेव । यस्त्वमुक्तगुणः सोऽस्माकं पिता इव सूनवे पुत्राय हे भगवन्नग्ने, सूपायनः सुखोपगमनो भव । किंच सचस्वा नः स्वस्तये । सचस्व सेवस्व नः अस्मान् | स्वस्तये अविनाशाय ॥ २४ ॥
म० हे अग्ने गार्हपत्य, स पूर्वोक्तगुणयुक्तस्त्वं नोऽस्माकं | सूपायनो भव । सुखेनोपैतुं शक्यः सूपायनः । सुष्ठूपप्राप्तुं | शक्यो भव । तत्र दृष्टान्तः । सूनवे पितेव यथा पुत्राय पिता भयं विना सुखेन प्राप्तुं शक्यः । किंच नोऽस्माकं स्वस्तये क्षेमाय सचस्व अनेन कर्मणा समवेतो भव । 'षच समवाये' इति धातुः । यद्वा सचस्व सेवस्व । 'षच सेवने' ॥ २४ ॥