पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० हे दुन्दुभे, त्वं बलं शत्रुसैन्यमाक्रन्दय रोदय । पलायध्वं मदीयाः सर्वे हता इत्यादिदीनरवं कारयेत्यर्थः । नोऽस्माकमोजः तेजः आधाः आधेहि देहि । दुरिता दुरितानि पापानि बाधमानो निराकुर्वन् सन् । निष्टनिहि शब्दं कुरु । 'स्तन शब्दे' चुरादिरदन्तः। किंच इतोऽस्मत्सेनायाः सकाशात् दुच्छनाः दुष्टाश्च ते श्वानश्च दुच्छ्वानः तान्दुष्टान् शुनः श्वसदृशान् शत्रूनपप्रोथ नाशय । प्रोतथिर्नाशनार्थः । यतः त्वमिन्द्रस्य मुष्टिः असि मुष्टिवदङ्गभूतोऽसि । अतो वीडयस्व आत्मानमस्मान्दृढय ॥ ५६ ॥

सप्तपञ्चाशी।
आमूर॑ज प्र॒त्याव॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति ।
समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ।। ५७ ।।
उ० आमूः । ऐन्द्री । आअज आक्षिप । 'अज गतिक्षेपणयोः' । अमूः शत्रुसेनाः । प्रत्यावर्तय इमाः प्रत्यावर्तय जितंजितमिति इमाः अस्मदीयसेनाः । किंच केतुमत् प्रज्ञातवान् दुन्दुभिः वावदीति । लोडर्थे लट् अत्यर्थं वदतु। जयप्रकाशकम् । किंच समश्वपर्णाश्चरन्ति नो नरः । अत्रापि लोडर्थे लट् । संचरन्तु अश्वपर्णाः अश्वपतनाः । नो नरः अस्मदीया मनुष्याः संग्रामे । हे इन्द्र, नः अस्माकं रथिनः जयन्तु त्वत्प्रसादादिति शेषः ॥ ७ ॥
म० हे इन्द्र, अमूः शत्रुसेनाः त्वमा अज समन्तात्परिक्षिप 'अज गतिक्षेपणयोः' । यतो दुन्दुभिः केतुमत् प्रज्ञावत् यथा वावदीति अत्यन्तं वदति अतः इमाः अस्मत्सेनाः प्रत्यावर्तय जयं प्रापय्य प्रत्यानय । किंच नोऽस्माकं नरः योधाः संचरन्ति । कीदृशा नरः । अश्वपर्णाः अश्वस्येव पर्णं पतनं येषां ते । किंच अस्माकं रथिनः रथस्थाः जयन्तु युद्धे जयं प्राप्नुवन्तु ॥ ५७ ॥

अष्टपञ्चाशी।
आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्हस्प॒त्यः शि॒ल्पो वै॑श्वदे॒व ऐ॒न्द्रो॒ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः स॑ᳪहि॒तोऽधोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्व॑: ।। ५८ ।।
उ० आग्नेयः कृष्णग्रीव इति श्रुतिः आ अध्यायपरिसमाप्तेः । द्वयोरेकादशिन्योः पशुदेवतासंबन्धविधात्री परतो द्वादश हविषो वेष्टेर्देवताः ॥ ५८ ॥
म० अश्वमेधे श्रुतिरस्ति 'द्वे त्वेवैते एकादशिन्यावालभेतेति' ( पा० १३ । ५। १ । ३ ) तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनोच्यन्ते। तेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रतिपादकानि नतु मन्त्राः । कृष्णा ग्रीवा यस्य स कृष्णग्रीवः पशुराग्नेयः अग्निदेवत्यः १, मेषी सारस्वती सरस्वतीदेवताका २, बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः ३, श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः ४, शिति श्यामं पृष्ठं यस्य स शितिपृष्ठः बार्हस्पत्यः बृहस्पतिदेवत्यः ५, शिल्पो विचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः ६, अरुणः रक्तः ऐन्द्रः इन्द्रदेवत्यः ७, कल्माषः कर्बुरो मारुतः मरुद्देवत्यः ८, संहितः दृढाङ्गः ऐन्द्राग्नः इन्द्राग्निदेवत्यः ९, अधोरामः अधोदेशे श्वेतः सावित्रः सवितृदेवत्यः १०, एकः शिति श्वेतः पादो यस्य स एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वः पतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः ११, एवमेकादश जाताः ॥ ५८ ॥

एकोनषष्टी।
अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ आग्ने॒यः कृ॒ष्णोऽजः सा॑रस्व॒ती मे॒षी वा॑रु॒णः पेत्व॑: ।। ५९ ।।
उ० अग्नये इति स्पष्टार्थः ॥ ५९ ॥
म० द्वितीयैकादशिनीपशुदेवानाह । रोहितो रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीकवतेऽग्नये आलभ्यः । अनीकं मुखं सैन्यं वा यस्य सोऽनीकवान् तस्मै १, अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौ सवितृदेवत्यौ २, ३, रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौ पोष्णौ पूषदेवत्यौ ४, ५, पिशङ्गौ पीतौ तूपरौ निःशृङ्गौ वैश्वदेवौ विश्वदेवदेवत्यौ ६, ७, कल्माषः कर्बुरो मारुतः ८, कृष्णः । श्यामोऽजो मेषः आग्नेयः अग्निदेवत्यः ९, मेषी सारस्वती १०, पेत्वः वेगवान् वरुणदेवत्यः ११, एवमेकादश ॥ ५९ ॥

षष्टी।
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराया॒ष्टाक॑पाल॒ इन्द्रा॑य त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ता॒यैका॑दशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकवि॒ᳪशाभ्यां॑ वैरा॒जाभ्यां॑ पय॒स्या बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॑ च॒रुः स॑वि॒त्र औष्णि॑हाय त्रयस्त्रि॒ᳪशाय॑ रैव॒ताय॒ द्वाद॑शकपालः प्राजाप॒त्यश्च॒रुरदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्या अ॒ष्टाक॑पालः ।। ६० ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायामूनत्रिंशोऽध्यायः ॥ २९ ॥