पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिपञ्चाशी।
दि॒वः पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्य॒: पर्याभृ॑त॒ᳪ सह॑: ।
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्र॑ᳪ ह॒विषा॒ रथं॑ यज ।। ५३ ।।
उ० दिवः पृथिव्याः दिवः द्युलोकात् यत् ओजः परि सर्वतः उद्भृतं उद्धृतम् । यच्च पृथिव्याः पृथिवीलोकात् परि उद्भृतम् । यच्च वनस्पतिभ्यः वनस्पतिसकाशात् परि सर्वतः आभृतम् आहृतम् सहः बलम् । यच्च अपां संबन्धि ओज्मानम् ओजःपरिमाणम् । तदेतच्चतुष्टयं रथभावमुपनीतम् । परिगोभिरावृतम् परि समन्तात् गोभिः गोविकारः स्नायुश्लेष्मचर्मभिः आवृतमुपनिबद्धम् इन्द्रस्य वज्रम् । 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार' इत्युपक्रम्य रथस्तृतीयं चेत्यभिधाय 'रथेन च शरेण च राजन्यबन्धव' इति श्रुतिः । तदभिप्रायमेतत् । हविषा तमीदृशं रथं यज हे अध्वर्यो ॥५३॥
म० हे अध्वर्यो, त्वं हविषा कृत्वा रथं यज । कीदृशं रथम् । दिवः द्युलोकात् पृथिव्याः भूमेः सकाशात् पर्युद्भृतं समन्तादुद्धृतम् ओजः तेजः तथा वनस्पतिभ्यो वृक्षेभ्यः पर्याभृतं समन्तादाहृतमानीतं सहः बलम् । तथा अपां जलानामोज्मानं तेजःसारभूतम् । 'ओज बलतेजसोः' इति धातोः 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५ ) इति मनिन् । ओजयति बलिनं करोतीति ओज्मा तम् । द्यावाभूमीवृक्षजलानां तेजश्चतुष्टयेन निर्मितमित्यर्थः । तथा गोभिः किरणैः पर्यावृतं वेष्टितम् तेजोनिर्मितत्वात् । यद्वा गोभिः चर्मभिर्वेष्टितम् । तथा इन्द्रस्य वज्रमिन्द्रवज्राज्जातमित्यर्थः । इन्द्रो यदा वृत्राय वज्रं प्रजहार तदा वृत्रशरीरकाठिन्येन प्रतिहतं चतुर्धा जातम् । यूपः स्फ्यः रथः शरश्चेति चतुःखण्डाः तत्र यूपस्फ्यौ विप्रैर्गृहीतौ रथशरौ नृपैरिति श्रुतिकथानुसंधेया। 'इन्द्रो ह यत्र वृत्राय वज्रं प्रजहारे' त्युपक्रम्य रथस्तृतीयमित्यभिधाय 'रथेन च शरेण चेति राजन्यबन्धवः' (१।२ । ४ । १-२) इति श्रुतेः । ईदृशं यजेत्यर्थः ॥ ५३ ॥

चतुःपञ्चाशी।
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभि॑: ।
सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ।। ५४ ।।
उ० इन्द्रस्य वज्रः । यस्त्वम् इन्द्रस्य वज्रः असि मरुतां च अनीकं मुखमसि मित्रस्य च गर्भोऽसि वरुणस्य च नाभिरसि । सः त्वम् इमाम् नः अस्माकम् । हव्यदातिं हविषो दानम् जुषाणः सेवमानः । हे देवरथ, प्रतिहव्या गृभाय प्रतिगृभाय प्रतिगृहाण हव्या हवींषि ॥ ५४ ॥
म० हे रथ हे देव, स त्वं हव्या हवींषि प्रतिगृभाय प्रतिगृहाण । कीदृशः त्वम् । इन्द्रस्य वज्रः वज्रोत्पन्नत्वात् । मरुतामनीकं मुखं मुख्यः देवानां जयप्रापकत्वात् । मित्रस्य देवस्य गर्भः गीर्यते स्तूयते गर्भः । गृणातेर्भप्रत्ययः। सूर्येण स्तूयमानः । वरुणस्य नाभिः नभ्यतेऽरिर्हन्यतेऽनेनेति नाभिः 'नभ हिंसायाम्' इण्प्रत्ययः । वरुणस्य हननसाधनम् । नोऽस्माकमिमां हव्यदातिं हविषो दानं जुषाणः सेवमानः । सेमामित्यत्र 'सोऽचि लोपे चेत्पादपूरणम्' (पा० ६। १ । १३४) इति सन्धिः । गृभाय गृह्णातेः 'हलः श्नः शानज्झौ' (पा० ३। १ । ८३ ) इत्यनुवृत्तौ 'छन्दसि शायजपि' (पा० ३ । १ । ८४ ) इति हौ परे श्नाप्रत्ययस्य शायजादेशः हस्य भश्च ॥ ५४ ॥

पञ्चपञ्चाशी।
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ।। ५५ ।।
उ० उपश्वासय उपशब्दस्य पृथिवीम् । उत द्याम् अपिच उपशब्दय द्याम् । पुरुत्रा ते बहुधा च ते तव एकस्य सतः घोषं मनुतां मन्यताम् । विष्ठितं विविधं स्थितं स्थावरम् । जगत् जङ्गमं च । यस्त्वमेवास्माभिः प्रार्थितः स त्वम् हे दुन्दुभे, सजूः समानप्रीतिः सन् इन्द्रेण सह देवैश्च । दूराद्दूरतरम् अपसेध अपगमय शत्रून् ॥ ५५ ॥ ।
म० तिस्र ऋचो दुन्दुभिदेवत्याः । हे दुन्दुभे, स त्वं पृथिवीमुत द्यामन्तरिक्षमपि उपश्वासय उपशब्दय । श्वसिः शब्दार्थः। विष्ठितं विविधं स्थितं जगत् स्थावरजङ्गमात्मकं विश्वम् । पुरुत्रा बहुधा ते त्वां मनुतां जानातु दुन्दुभिर्नदतीति । स त्वं दूराद्दवीयः अतिदूरं शत्रूनपसेध अपगमय । अत्यन्तं दूरं दवीयः 'स्थूलदूर-' (पा० ६ । ४ । १५६ ) इति रेफलोपपूर्वगुणौ। कीदृशः त्वम् । इन्द्रेण देवैश्च सजूः प्रीतियुक्तः ॥ ५५ ॥

षट्पञ्चाशी।
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आधा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः ।
अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ।। ५६ ।।
उ० आक्रन्दय । हे दुन्दुभे, आक्रन्दय दीनान् शब्दान्कारय अहो पलायध्वं पिता मे हतो भ्राता मे हत इति बलं शत्रुसेनाम् ओजो न आधाः ओजस्तेजः न अस्माकम् आधाः आधेहि । किंच निष्टनिहि निश्चितं शब्दं जयाय कुरु । दुरिताबाधमानः दुरितानि अपगमयन् । किंच । अपप्रोथ । प्रोथतिर्नाशनार्थः । अपकृत्यापकृत्य प्रोथ नाशय । दुच्छुनाः दुष्टशुन इव याः सेनाः । सुखवचनो वा शुनाशब्दः । दुःसुखाः विसर्जनीयस्य दत्वम् । इतः सेनायाः। यतश्च त्वम् इन्द्रस्य मुष्टिरसि अतो ब्रवीमि । वीडयस्व दृढीकुरु आत्मानम् ॥ ५६ ॥