पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्वात् । किंच अस्या इषोः दन्तः फलं । मृगः मृगयतेऽन्विष्यति रिपून् हन्तुमिति मृगः 'मृग मार्गणे' चुरादिरदन्तः पचाद्यच् 'मृगो मृगयतेः' (निरु. ९। १९ ) इति यास्कः । शल्यं हि वेध्यं मृगयते । किंच या इषुः गोभिः गोविकारैः स्नायुभिः संनद्धा बद्धा प्रसूता धनुष्मता प्रेरिता सती पतति शत्रुबलं प्रति गच्छति । किंच यत्र नरो योद्धारः संद्रवन्ति च सम्यक् गच्छन्ति विद्रवन्ति च विविधं प्रसरन्ति । चौ समुच्चये । तत्र रणे इषवः बाणाः अस्मभ्यं शर्म सुखं यंसन् यच्छन्तु । 'यमु उपरमे लेटि तिप इलोपेऽडागमे 'सिब्बहुलं लेटि' (पा. ३। १ । ३४ ) इति सिबागमे यंसन्निति रूपम् । सुखं ददतु ॥४८॥

एकोनपञ्चाशी।
ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः ।
सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑ति॒: शर्म॑ यच्छतु ।। ४९ ।।
उ० ऋजीते परि । हे ऋजीते ऋजुगामिनि, परिवृङ्ग्धि नः परिवर्जयास्मान् । अश्मा भवतु नस्तनूः अश्ममयी च भवतु नः अस्माकं तनूः शरीरम् । सोमश्च अधिब्रवीतु आधिक्येन वदतु नोऽस्माञ्जीवनाय । अदितिश्च शर्म शरणम् यच्छतु ददातु ॥ ४९॥
म० ऋजुः सरला ईतिर्यस्याः सा ऋजीतिः टिलोप आर्षः ।। हे ऋजीते ऋजुगामिनि । हे इषो, नोऽस्मान् परिवृङ्ग्धि परिवर्जय । अस्मासु मा पतेत्यर्थः । किंच नोऽस्माकं तनूः शरीरम् अश्मा पाषाणतुल्यदृढा भवतु । सोमः नोऽस्मानधिब्रवीतु अधिकान् वदतु । अदितिः देवमाता शर्म सुखं यच्छतु ददातु ॥ ४९ ॥

पञ्चाशी।
आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒२ उप॑ जिघ्नते ।
अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ।। ५० ।।
उ०. आजङ्घन्ति । कशास्तुतिः अनुष्टुप् । येषामश्वानाम् आजङ्घन्ति अश्वारोहाः सानु सानूनि मांसोपचितान्यङ्गानि । येषामेषां च जघनान् जघनानि । उपजिघ्नते उपनिघ्नन्ति । अश्वाजनि अश्वाञ्जनयतीत्यश्वाजनी तस्याः संबोधनं हे अश्वाजनि । प्रचेतसः परिदृष्टकारिणः प्रकृष्टज्ञानान्वा अश्वान् । समत्सु संग्रामेषु । चोदय प्रेरय ॥ ५० ॥
म० अनुष्टुप् । कशा स्तूयते । 'अज गतौ क्षेपणे च'। अश्वाः अज्यन्ते क्षिप्यन्ते यया सा अश्वाजनी । हे अश्वाजनि कशे, समत्सु संग्रामेषु त्वमश्वान् चोदय प्रेरय जयाय । कीदृशानश्वान् । प्रचेतसः प्रकृष्टं शूरं चेतो मनो येषां ते । हे कशे, यया त्वयाश्ववारा एषामश्वानां सानु सानूनि सानुतुल्यानि मांसोपचिताङ्गानि आजङ्घन्ति वचनव्यत्ययः आघ्नन्ति ताडयन्ति । जघनान् कटिभागान् उपजिघ्नते निघ्नन्ति । तुरङ्गारोहा ययाश्वान् वशयन्ति सा त्वमश्वान्प्रेरयेत्यर्थः ॥ ५० ॥

एकपञ्चाशी।
अहि॑रिव भोगै॒: पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः ।
ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॒न् पुमा॑ᳪसं॒ परि॑ पातु वि॒श्वत॑: ।। ५१ ।।
उ० अहिरिव । हस्तघ्नः स्तूयते त्रिष्टुप् । हस्ते एव स्थितो हन्ति यः स हस्तघ्नः खेटकः प्रकोष्ठादित्राणं वा । यः हस्तघ्नः अहिरिव सर्प इव भोगैः शरीरावयवैः । पर्येति परिवेष्टयति बाहुम् । ज्याया हेतिं परिबाधमानः ज्यायाआयुधात्परित्रायमाणः । स हस्तघ्नः विश्वा विश्वानि सर्वाणि वयुनानि विद्वान् प्रजानन् परिदृष्टकारी वा । पुमान् शूरो क्लीबो वा । पुमांसमक्लीबं परिपातु विश्वतः सर्वतः ॥५१॥
म० हस्तघ्नः स्तूयते । सप्त त्रिष्टुभः । हस्ते स्थितो हन्ति हस्तघ्नः खेटकः । यद्वा हस्तं हन्ति प्राप्नोति हस्तघ्नः प्रकोष्ठत्राणम् । पुमांसं मां विश्वतः सर्वतः परिपातु रक्षतु । किंभूतो हस्तघ्नः । विश्वा विश्वानि सर्वाणि वयुनानि ज्ञानानि विद्वान् जानन् । तथा पुमान् पुंस्त्वयुक्तः । शूर इत्यर्थः । यो हस्तघ्नः भागैः स्वशरीरावयवैः कृत्वा बाहुं पर्येति हस्तं वेष्टयति । क इव । अहिरिव । यथाहिः सर्पो भोगैः स्वदेहैः हस्तादिकं वेष्टयति । कीदृशः । ज्यायाः हेतिं बाणं शत्रुप्रेरितं परिबाधमानः निवर्तयन् । खेटकपक्षे, प्रकोष्ठत्राणपक्षे तु ज्याया हेतिं प्रहारे निवारयन् ज्याघातस्य निवारकत्वात् ॥ ५१ ॥

द्विपञ्चाशी।
वन॑स्पते वी॒ड्व॒ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीर॑: ।
गोभि॒: सन्न॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ।। ५२ ।।
उ० वनस्पते वीड्वङ्गः। रथदुन्दुभिदेवत्यावृचौ त्रिष्टुभौ । ऐन्द्रो वान्त्योऽर्धर्चः । हे वनस्पते वानस्पत्य रथ । कृत्स्नवन्निगमः । वीड्वङ्गो हि भूयाः वीडुशब्दो दृढवचनः । दृढाङ्गो भव । अस्मत्सखा सन् । प्रतरण प्रतरन्त्यनेन संग्रामानिति प्रतरणः । सुवीरः साधुवीरः । यतश्च त्वम् गोभिः श्लेष्मचर्मभिः संनद्धोऽसि अतस्त्वां ब्रवीमि । वीडयस्व संस्तम्भय स्वात्मानम् आस्थाता ते संस्थाता च ते तव जयतु जेत्वानि जेतव्यानि ॥ ५२ ॥
म० तिस्र ऋचो रथदेवताः । हे वनस्पते वनस्पतिविकार काष्ठमय रथ, 'कृत्स्नवन्निगमः' ( निरु० २ । ५) । त्वं वीड्वङ्गः दृढाङ्गो भूयाः भव । वीडूनि अङ्गानि यस्य । कीदृशः । अस्मत्सखा अस्माकं मित्रभूतः । प्रतरणः प्रतरति संग्रामपारं गच्छति - ' प्रतरणः । सुवीरः शोभनो वीरो रथी यत्र । किंच हे रथ, यतः त्वं गोभिः गोविकारैश्चर्मभिः सन्नद्धः बद्धोऽसि अतो वीडयस्व आत्मानं स्तम्भय । किंच ते तवास्थाता आरोढा रथी जेत्वानि जेतव्यानि रिपुधनानि जयतु । हि पादपूरणः ॥ ५२ ॥