पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'भृशादिभ्यो भुव्यच्वेः-' (पा० ३ । १ । १२) इति क्यङ् ततः शानच् । अनुकूलचित्ता इत्यर्थः । तत्रेत्यस्य संहितायां 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति दीर्घः ॥ ४५ ॥

षट्चत्वारिंशी।
स्वा॒दु॒ष॒ᳪसद॑: पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒: शक्ती॑वन्तो गभी॒राः ।
चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ।। ४६ ।।
उ० स्वादुषंसदः । रथगोपान् स्तौति त्रिष्टुप् । स्वादु सुखकरं संसदः संसदनं येषां ते स्वादुसंसदः रथगोप्तारः पितरः पातारः । वयोधाः अन्नस्यायुषो वा धारयितारः । कृच्छ्रेश्रितः क्लेशाश्रयिणः । शक्तीवन्तः बलवन्त आयुधवन्तो वा । गभीराः गम्भीरप्रज्ञाना वा गम्भीरबला वा । चित्रसेनाः विचित्रसेनाः । इषुबलाः इषुषु विशेषतो बलं येषां ते तथोक्ताः। अमृध्राः अमृदवः उग्रशासनाः । सतोवीराः सतः विद्यमानस्य बलस्य विविधमीरयितारो वा पृथुजघनोरस्का वा उरुमनसो वा । व्रातसाहाः वाताः गणास्तेषामभिभवितारः । य इत्थंभूताः पुरुषास्तेऽस्माकं रथगोप्तारो भवन्त्विति शेषः ॥ ४६॥
म. रथगोपान् स्तौति । ईदृशा नरा अस्माकं रथगोप्तारो भवन्त्विति शेषः । कीदृशाः । स्वादुसंसदः स्वादु सुखं यथा तथा संसीदन्ति ते स्वादुसंसदः । पितरः पान्ति ते पितरः रक्षितारः । वयोधाः वयोऽन्नमायुर्वा दधति धारयन्ति वयोधाः । कृच्छ्रेश्रितः इत्येकं पदम् । कृच्छ्रे कष्टे श्रीयन्ते सेव्यन्ते कृच्छ्रेश्रितः । कर्मणि क्विप् अलुक् सप्तम्याः । दुःखे सति आश्रयणयोग्याः दुःखनाशकत्वात् । यद्वा सप्तमी द्वितीयार्थे । कृच्छ्रं श्रयन्ति कृच्छ्रेश्रिताः दुःखं प्राप्यापि स्वामिसेवनपराः । शक्तीवन्तः शक्तिः सामर्थ्यमायुधं वा अस्ति येषां ते । अश्वरश्मिमतीत्येत्यादिप्रातिशाख्यसूत्रेण शक्तिशब्दस्य दीर्घः । गभीराः गम्भीरबला गम्भीरप्रज्ञाश्च । चित्रसेनाः चित्रा नानाविधा सेना येषां ते । इषुबलाः इषुभिर्बाणैर्बलं येषां ते अमृध्राः मृध्रा मृदवो न भवन्त्यमृध्राः कठिनाङ्गा उग्रशासना वा । सतोवीराः इत्येकं पदम् । सतोऽश्वमेधयाजिनो वीराः शूराः । यद्वा सतो विद्यमानस्य बलस्य वीराः प्रेरकाः विविधमीरयन्तीति वीराः षष्ठ्या अलुक् । उरवः विशालाः । पृथुजघनोरस्का इत्यर्थः । व्रातसाहाः व्रातान् शूरसमूहान् सहन्तेऽभिभवन्ति ते | व्रातसहाः पचाद्यच् 'अभिमातिपृतना' ( प्राति. ३ । ६। २७ ) इत्यादिना सूत्रेण सहतेरुपधादीर्घः ॥ ४६ ॥

सप्तचत्वारिंशी।
ब्राह्म॑णास॒: पित॑र॒: सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
पू॒षा न॑: पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घश॑ᳪस ईशत ।। ४७ ।।
उ० ब्राह्मणासः जगती लिङ्गोक्तदेवता । ऋतावृध ' इत्यादिः प्रत्यक्षभूतो मन्त्रः ब्राह्मणास इत्यादिः परोक्षकृतः अतएवं व्याख्यायते । हे ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । देवा इत्यध्याहारः सामर्थ्यात् । रक्ष रक्षत इति वचनव्यत्ययः । माकिः मा च कश्चन नः अस्माकम् । अघशंसः अघानि पापानि यः शंसति प्रकाशयति सोऽघशंसः। ईशत ईष्टे इति वचनव्यत्ययः । भवत्प्रसादाच्च। ब्राह्मणासः ब्राह्मणाः पितरः सोम्यासः सोमसंपादिनः । पान्त्वित्यत्रान्वयः । शिवे कल्याणकारिण्यौ द्यावापृथिवी च अनेहसा अनुपहिंसिन्यौ अनपराधिन्यौ वा पाताम् । पूषा च नः अस्मान् पातु दुरितात् अशुभात् ॥ ४७ ॥
म० जगती लिङ्गोक्तदेवता । ब्राह्मणासः ब्राह्मणाः नोऽस्मान् पान्तु रक्षन्तु । पात्वित्यस्यार्थवशाद्वचनव्यत्ययः कार्यः । पितरः च पान्तु । कीदृशाः । सोम्यासः सोम्याः सोमसंपादिनः सोमपानयोग्या वेत्युभयोर्विशेषणम् । द्यावापृथिवी द्यावाभूमी नः पाताम् । कीदृश्यौ । शिवे कल्याणकारिण्यौ । अनेहसा अनेहसौ | नास्ति एहोऽपराधो ययोस्ते अपराधनिवर्तिके । किंच पूषा सूर्यो नोऽस्मान्दुरितात्पातु । एवं परोक्षेणोक्त्वा प्रत्यक्षमाह । हे ऋतावृधः, ऋतं सत्यं यज्ञं वा वर्धयन्ति ऋतवृधः देवाः । | संहितायामृतस्य दीर्घः । रक्ष रक्षतास्मान् वचनव्यत्ययः । माकिः मा कश्चन अघशंसः पापी नोऽस्माकमीशत ऐश्वर्यं मा करोतु । वयं दुष्टवशा मा भूमेत्यर्थः । अघं पापं शंसति वक्ति प्रकाशयति वाघशंसः दुष्टः । ईशतेति वचनव्यत्ययः॥४७॥

अष्टचत्वारिंशी।
सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒: सन्न॑द्धा पतति॒ प्रसू॑ता ।
यत्रा॒ नर॒: सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒: शर्म॑ यᳪसन् ।। ४८ ।।
उ० सुपर्णं वस्ते । द्वाभ्यां त्रिष्टुबनुष्टुब्भ्यामिषुं स्तौति । या सुपर्णं वस्ते सुपर्णः पक्षौ तद्विकारः सौपर्णमिति भवति। तत्र कृत्स्नवन्निगमः । राजानमभिप्रेत्य । मृगो अस्यादन्तः यस्याश्चास्या इषोः मृगो दन्तः फलं मृगयतेर्मृगः । स हि वेध्यं मृगयते । या च गोभिः संनद्धा गोविकारैः श्लेष्मस्नायुभिः संनद्धा । पतति शत्रुबलंप्रति । प्रसूता प्रेरिता धनुष्मता सा इषुः । यत्र नरः संच विच द्रवन्ति संगच्छन्ति विगच्छन्ति च तत्र अस्मभ्यम् इषवः इषुरिति सन्नतिः । शर्म शरणम् यंसत् यच्छत्विति सन्नतिः ॥ ४८ ॥
म० द्वाभ्यामिषुं स्तौति । आद्या त्रिष्टुप् अन्त्यानुष्टुप् । या इषुः सुपर्ण पक्षिपिच्छं वस्ते परिधत्ते । 'वस परिधाने' शोभनं पर्णं पिच्छं यस्य स सुपर्णः पक्षी तस्य विकारः सौपर्णम् तत्र 'कृत्स्नवन्निगमा भवन्ति' (निरु० २ । ५) इति यास्कोक्तेः सुपर्णशब्देन तत्पिच्छं गृह्यते । बाणपुच्छे पिच्छस्यारोप्यमाण