पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लोपः । विद्वान् स्वाधिकारज्ञः । तं कम् । यः त्वष्टा इमे द्यावापृथिवी द्यावाभूमी रूपैः अपिंशदवयवैर्विचित्रे अकरोत् 'पिश अवयवे' तुदादिः । लङि 'शे मुचादीनाम्' (पा० ७ । १।५९) इति नुम् । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि रूपैः अपिंशत् विविधरूपाण्यकरोत् । कीदृश्यौ द्यावापृथिव्यौ । जनित्री जनयतस्ते जनित्यौ प्राण्युत्पादिके ॥ ३४ ॥

पञ्चत्रिंशी।
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन् दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वीᳪषि॑ ।
वन॒स्पति॑: शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ।। ३५ ।।
उ० उपावसृज । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते ! सामर्थ्यात् । यजमान आह । वनस्पतिः यूपः शमिता देवः अग्निः शामित्रः स्वदन्तु मृष्टीकुर्वन्तु । हव्यं हविः मधुना मधुरसेन घृतेन । त्वमपि हे अध्वर्यो उपावसृज उत्पिष्टं पाशुकमवदानम् अवसृज निक्षिप । त्मन्या आत्मना । आदरार्थं वचनम् । 'मन्त्रेष्वाड्यादेरात्मनः' इत्याकारलोपः । समञ्जन् संमृक्षयन् देवानां पाथः अन्नम् । ऋतुथा ऋतावृतौ च हवींषि अवसृज ॥ ३५ ॥
म० यजमानो वदति । हे होतः, त्मन्या आत्मना हवींषि ऋतुथा ऋतौ ऋतौ यज्ञकाले त्वमुपावसृज देहि । किं कुर्वन् । देवानां पाथः हविः मधुना मधुररसेन घृतेन समञ्जन् संम्रक्षयन् । देवानामित्युक्तं तानाह। वनस्पतिर्यूपः शमिता देवः अग्निः एते त्रयो हव्यं होत्रा संमृज्य दत्तं स्वदन्तु भक्षयन्तु । आत्मन्शब्दस्य विभक्तेर्यादेशे ‘मन्त्रेष्वाङ्यादेरात्मनः' (पा० ६ । ४ ।। १४१) इत्याकारलोपः ॥ ३५॥

षट्त्रिंशी।
स॒द्योजा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत् पुरो॒गाः ।
अ॒स्य होतु॑: प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतᳪ ह॒विर॑दन्तु दे॒वाः ।। ३६ ।।
उ० सद्योजातः । योऽग्निः सद्योजातः जायमानः सन् व्यमिमीत निरमिमीत यज्ञम् । यश्च देवानाम् अभवत् पुरोगाः अग्रतोगामी । तस्यास्य होतुः प्रदिशि प्राच्यां दिशि ऋतुथा ऋतावृतौ आ च हवनीयात्मना व्यवस्थितस्य । वाचि आस्ये मुखे । वाग्ग्रहणेन लक्षणया मुखमभिधीयते तदुक्तं वार्तिककारेण 'अभिधेयाविनाभावप्रतीतिर्लक्षणेप्यते। लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणतेति' । स्वाहाकृतम् स्वाहाकृत्युपलक्षितं हविः अदन्तु देवाः ॥ ३६ ॥
म० देवा हविरदन्तु भक्षयन्तु । कीदृशं हविः । अस्याग्नेः वाजि वागिन्द्रियोपलक्षिते मुखे स्वाहाकृतं स्वाहाकारेण हुतम् । कीदृशस्यास्य । होतुः देवानामाह्वातुः । प्रदिशि पूर्वदिशि ऋतस्य 'ऋ गतौ आहवनीयात्मना स्थितस्य अस्य कस्य । योऽग्निः सद्यो जातः उत्पन्नः सन् यज्ञं व्यमिमीत विशेषेण निरमात् । यश्च देवानां पुरोगाः अग्रगामी मुख्याऽभवत् । पुरो गच्छतीति पुरोगाः । विटि प्रत्यये ‘विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इति मस्याकारः ॥ ३६॥

सप्तत्रिंशी।
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ।। ३७ ।।
उ० इत उत्तरमश्वरक्षिणो योद्धारः युद्धोपकरणानि च स्तूयन्ते प्रागाग्नेय इति श्रुतेः । केतुं कृण्वन् । आग्नेयी गायत्री अनिरुक्ता। केतुं प्रज्ञानं कृण्वन्कुर्वन् । अकेतवे न विद्यते केतुः प्रज्ञानं यस्य तस्मै अकेतवे। पेशः सुवर्णं रूप्यं वा । मर्याः मर्यायेति विभक्तिव्यत्ययः । मर्याय मनुष्याय अपेशसे न विद्यते पेशः यस्य तस्मै अविद्यमानसुवर्णाय अविद्यमानरूप्याय वा पेशः कुर्वन् । समुषद्भिरजायथाः हे अग्ने, उषद्भिः । 'उष दाहे' अग्निहोत्रादीनि कर्माणि कुर्वद्भिः । जायमानः सन् जन्मना जातेर्वा वसतेर्वा कृतसंप्रसारणस्यैतद्रूपम् । | उषद्भिः अग्निं प्रति निवसद्भिः जायमानः सन् समजायथाः । उत्पद्यसे ॥ ३७॥
म०. अग्निदेवत्या गायत्री मधुच्छन्दोदृष्टानिरुक्ता । हे अग्ने, त्वमुषद्भिः कृत्वा अजायथाः उत्पन्नोऽसि । जनेर्लङि रूपम् । | 'उष दाहे' उषन्ति हविर्दहन्ति ते उषन्तोऽग्निहोमकर्तारो यजमानाः । कीदृशस्त्वम् । अकेतवे अज्ञानाय मर्याः मर्याय मनुष्याय केतुं ज्ञानं कृण्वन्कुर्वन् । विभक्तिव्यत्ययः। नास्ति पेशः सुवर्णं यस्य स अपेशाः तस्मै अपेशसे मर्याय पेशः सुवर्णं कुर्वन् ॥ ३७॥

अष्टत्रिंशी।
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।
अना॑विद्धया त॒न्वा॒ जय॒ त्वᳪ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ।। ३८ ।।
उ० जीमूतस्येव । वर्म स्तूयते । जीमूतो मेघः तस्येव भवति प्रतीकम् अनीकम् मुखमिति पर्यायः । यथा मेघस्य मुखं विद्युत्स्फुरितस्तनयित्नुधारानिकरैरसह्यं भवत्यन्तःसरणैः एवं हस्त्यश्वपदातिमुखं निशितास्त्रगम्भीरतूर्यनिनादशरधाराभिरसह्यं भवति । एवं कस्मिन्काले कस्यवेत्यत आह । यद्वर्मी यदा वर्मास्य विद्यते इति वर्मी । याति गच्छति समदाम् । संमाद्यन्ति सह वा माद्यन्ते आसु योद्धार इति समदः समदशब्दः संग्रामवचनः । समदां संग्रामाणाम् उपस्थे उपकण्ठे यत एवमतो ब्रवीमि । अनाविद्धया तन्वा जय त्वम् हे वर्मिन् , अनाविद्धया अक्षतया अरिष्टया तन्वा त्वं जयेम। किंच सत्त्वावर्मणो महिमा पिपर्तु पालयतु ॥ ३८ ॥
म० एवमग्निं स्तुत्वाश्वरक्षणे योधाः युद्धोपकरणानि च