पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्तूयन्ते । भरद्वाजसुतःपायुः संग्रामाङ्गानि प्रत्यृचं स्तोति । त्रिष्टुब्भिः वर्म स्तूयते । यत् यदा वर्मी कवचवान् समदां संग्रामाणामुपस्थे उत्सङ्गे याति तदा प्रतीकं सेनामुखं जीमूतस्य मेघस्येव भवति । सह माद्यन्ति योधा यासु ताः समदः संग्रामाः। मदेः क्विप् । मेघस्य मुखं विद्युत्स्तनयित्नुधाराभिर्यथासह्यम् एवं हस्त्यश्वरथपादात्यस्त्रजालतूर्यनादशरौघैः सेनामुखमसह्यं भवतीत्यर्थः । अतोऽहं ब्रवीमि । हे वर्मिन् , अनाविद्धया अक्षतया तन्वा शरीरेण त्वं शत्रून् हत्वा जयं प्राप्नुहि । किंच स वर्मणः महिमा त्वा त्वां पिपर्तु पालयतु ॥ ३८ ॥

एकोनचत्वारिंशी।
धन्व॑ना॒ गा धन्व॑ना॒ऽऽजिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम ।
धनु॒: शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वा॑: प्र॒दिशो॑ जयेम ।। ३९ ।।
उ० धन्वना गाः। धनुः स्तूयते त्रिष्टुभा। धन्वना धनुषा गाः जयेम । धनुषा च आजिं मार्गं जयेम । धनुषा च तीवाः पटवः उद्गूर्णायुधाः समदः संग्रामाञ्जयेम । धनुश्च शत्रोः अपकामं कृणोति अपनयति कामम् । कर्तृत्वविवक्षात्र धनुषः । धनुषा च सर्वाः प्रदिशः जयेम ॥ ४९ ॥
म० धनुः स्तूयते । धन्वना धनुषा कृत्वा वयं गाः धेनूः जयेम । धन्वना आजिं मार्गं जयेम । अजन्ति गच्छन्ति यस्मिन्नसावाजिर्मार्गः । तीव्राः उग्राः समदः संग्रामान् धन्वना जयेम । धनुः शत्रोरपकामं मनोरथाभावं कृणोति करोति । कामस्याभावोऽपकामम् । 'अव्ययं विभक्ति-' (पा. २ । १। ६) इत्यादिना अर्थाभावेऽव्ययीभावः । किंच धन्वना सर्वाः प्रदिशो जयेम । ईदृशो धनुःप्रभावः ॥ ३९ ॥

चत्वारिंशी।
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यᳪ सखा॑यं परिषस्वजा॒ना ।
योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यᳪ सम॑ने पा॒रय॑न्ती ।। ४० ।।
उ० वक्ष्यन्तीवेत् । ज्या अभिधेया त्रिष्टुप् । या ज्या वक्ष्यन्ती इव वचनोत्सुकेव योषित् । इच्छब्दः पादपूरणार्थः। आगनीगन्ति आगच्छन्ति अत्यर्थमागच्छति वा कर्णं धानुष्ककर्णमूलम् । या च प्रियमिव सखायमिषुम् परिषस्वजाना आलिङ्गयन्ती । योषेव शिङ्क्ते । 'शिजि अव्यक्ते शब्दे' । यथा मुग्धा योषित्कामुकरञ्जनार्थमव्यक्तं कूजितं करोति एवमियमव्यक्तं शब्दं करोति । प्रसारिता च अधि उपरि धनुषि निबद्धा । सेयं ज्या समने संग्रामे पारयन्ती विजयं कुर्वन्ती संग्रामात् तारयन्ती स्तूयतेऽस्माभिरिति शेषः ॥ ४० ॥ ।
म० ज्या स्तूयते । इयं ज्या धन्वन् धन्वनि धनुषि अधिवितता उपरि विस्तारिता सती शिङ्क्ते अव्यक्तशब्दं कुरुते । 'शिजि अव्यक्ते शब्दे' अदादिः 'इदितो नुम् धातोः' (पा० ७ । १ । ५८ ) इति नुम् । का इव । योषेव यथा योषा कामिनी कामुकरञ्जनायाव्यक्तं वदति एवमियमपि । कीदृशी ज्या । समने संग्रामे पारयन्ती । 'पार तीर कर्मसमाप्तौ' अदन्तः। संग्रामादुत्तारयन्ती विजयं कुर्वन्तीत्यर्थः । इयं का। या ज्या कर्णमागनीगन्ति आकृष्टा सती योद्धुः कर्णं प्रत्यत्यर्थमागच्छति । यङ्लुकि गमेः रूपम् । कीदृशी उत्प्रेक्ष्यते । वक्ष्यन्तीव वक्तुमिच्छन्तीव । अन्योऽपि वक्तुमिच्छन्कर्णं प्रत्यागच्छति । प्रियं सखायमिष्टं मित्रं बाणरूपं परिषस्वजाना आलिङ्गन्ती । स्वजेः शानचि शपः श्लौ सति द्वित्वम् । इत् पादपूरणार्थः ॥ ४० ॥

एकचत्वारिंशी।
ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ ।
अप॒ शत्रू॑न् विध्यताᳪ संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ।। ४१ ।।
उ० ते आचरन्ती । धनुषः कोटी स्तूयेते । त्रिष्टुप् । ये इमे आर्त्नी आर्त्न्यौ धनुषः कोटी । समना इव समने इति वचनव्यत्ययः । समानभर्तृगतमनस्के योषे इव । यथा समानभर्तृगतमनस्के योषे पतिमागच्छन्त्यौ तथा ते आचरन्ती आगच्छन्त्यौ धानुष्कम् । मातेव पुत्रं बिभृतामुपस्थे । यथा माता उपस्थे उत्सङ्गे पुत्रं धारयति एवं बिभृतां धारयतां शरम् । अपशत्रून् विध्यताम् 'व्यध ताडने' । अपविध्यतां च शत्रून् संविदाने सुखमनुभवन्त्यौ । विष्फुरन्ती अमित्रान् अमित्रान् शत्रून् विष्फुरन्त्यौ ॥ ४१ ॥
म० धनुःकोटी स्तूयेते । ते प्रसिद्धे इमे आर्त्नी आर्त्न्यौ धनुःकोटी उपस्थे उत्सङ्गे मध्यभागे बिभृतां धारयतां शरमिति शेषः । तत्र दृष्टान्तः । माता पुत्रमिव यथा जननी पुत्रमुत्सङ्गे बिभर्ति तथा शत्रून् अपविध्यतां ताडयतां च । कीदृश्यौ आर्त्न्यौ । आचरन्ती आचरन्त्यौ आगच्छन्त्यौ धानुष्कं प्रति । तत्र दृष्टान्तः । समना योषा इव वचनव्यत्ययः । समना समानमेकपतिगतं मनो ययोस्ते समनसौ । विभक्तेर्डादेशः । समचित्ते योषा योषे स्त्रियौ यथा कान्तमागच्छतः । संविदाने संविदाते ते संविदाने 'समो गमि-' (पा० १ । ३ । २९) इत्यादिना शानच् । परस्परं संकेतं कुर्वाणे । अमित्रान् शत्रून् प्रति विष्फुरन्ती टङ्कारं कुर्वाणे ॥ ४१ ॥

द्विचत्वारिंशी।
ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।
इ॒षु॒धिः सङ्का॒: पृत॑नाश्च॒ सर्वा॑: पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ।। ४२ ।।
उ०. बह्वीनां पिता । इषुधिरभिधेयः त्रिष्टुप् । यः बह्वीनामिषूणां पिता पालयिता । तेन सहिताः पाल्यन्ते सहिताः