पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जायाः पत्यर्थx ऊरू विश्रयन्ति । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे द्वारो देव्यः, यूयं देवेभ्यो देवार्थं सुप्रायणाः सुप्रगमनाः भवत । कीदृश्यः । बृहती बृहत्यः । विश्वमिन्वाः विश्वमेति गच्छति यासु ताः । एतेर्न्वक्प्रत्ययः अलुक्समासः । शुम्भमानाः शोभमानाः । उर्विया इति द्वार्विशेषणं वा । उरवो विशालाः ‘इयाडियाजियारश्च' इति विभक्तेरियाजादेशः चित्वादन्तोदात्तः ॥३०॥

एकत्रिंशी।
आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रिय॑ᳪ शुक्र॒पिशं॒ दधा॑ने ।। ३१ ।।
उ० आसुप्वयन्ती। स्मयतेर्वा निरुपसर्गात्स्वपतेर्वा सूपसर्गात् । सेस्मीयमाने परस्परं हसन्त्यौ साधुस्वपन्त्यौ वा । यजते यज्ञे उपाके उपक्रान्ते परस्परमेकदेशसवलीभूते । उषासानक्ता उषाश्च नक्ता रात्रिश्च । सदतां नियोनौ आसीदताम् । निरनर्थक उपसर्गः। यद्वा निरिति सदतामित्याख्यातेन युज्यते । निषीदताम् । योनौ यज्ञगृहे । कथंभूते । दिव्ये दिविभवे । योषणे प्रीतिमत्यौ स्त्रीरूपिण्यौ वा । बृहती बृहत्यौ महत्यौ । सुरुक्मे सुरोचने । अधिश्रियं शुक्रपिशं दधाने । शुक्रपिशं शुक्लरूपं श्रियम् अधिदधाने । स्थापयन्त्यौ ॥३१॥
म० आ नि एतयोः सदतामिति संबन्धः । अधीत्यस्य दधाने इत्यनेन संबन्धः । उषासानक्ता अहोरात्रे देवते योनौ यज्ञगृहे आनि सदताम् सम्यक् उपविशताम् । कीदृश्यौ ते । सुष्वयन्ती स्मयतेः स्वपतेर्वा सुपूर्वस्य रूपम् । पूर्वपक्षे मकारस्य वकारश्छान्दसः । उत्तरपक्षे पकारस्य यकारः । परस्परं हसन्त्यौ साधु स्वपन्त्यौ वा । यजते यजनीये । उपाके उप समीपमकतस्ते उपाके 'अक गतौ' परस्परं समीपस्थिते । दिव्ये दिवि भवे । योषणे योषे स्त्रीरूपिण्यौ । बृहती बृहत्यौ महत्यौ सुरुक्मे शोभनं रुक्मं सुवर्णं ययोस्ते । साभरणे इत्यर्थः । शुक्रपिशं शुक्लां कपिशां च श्रियं शोभामधिदधाने अधिकं धारयन्त्यौ । शुक्लमहः कपिशा रात्रिः ॥ ३१ ॥

द्वात्रिंशी।
दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।
प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योति॑: प्र॒दिशा॑ दि॒शन्ता॑ ।। ३२ ।।
उ० दैव्या होतारा । यो दैव्यौ होतारौ अयं चाग्निरसौ च मध्यमः प्रथमा आद्यौ सुवाचा सुवाचौ । नहि तौ पाठं विनाशयतः । मिमाना निर्मिमाणौ यज्ञम् मनुषो मनुष्यस्य यजध्यै यजनाय प्रचोदयन्तौ च विदथेषु यज्ञेषु अन्यानृत्विजः । स्वयं च कारू कर्तारौ । प्राचीनं पूर्वस्यां दिशि भवं आहवनीयाख्यं ज्योतिः यष्टव्यमिति प्रदिशा अभिनयेन श्रुतिवाक्येन वा दिशन्ता कथयन्तौ । आशास्तावस्मदीयं प्रसाधयेतामिति शेषः ॥ ३२ ॥
म० दैव्यौ होतारौ ईदृशौ आसाते इति शेषः । कीदृशौ । प्रथमा आद्यौ । सुवाचा शोभना वाक् ययोस्तौ । मनुषो मनुष्यस्य । यजध्यै यष्टुं यज्ञं । मिमाना निर्मिमाणौ । तुमर्थे शध्यैप्रत्ययः । विदथेषु यज्ञेषु प्रचोदयन्ता प्रचोदयन्तौ ऋत्विजः प्रेरयन्तौ । कारू कुरुतस्तौ कारू 'उणादयो बहुलम्' (पा० ३ । | ३ । १) इत्युण् । स्वयं कर्तारौ । प्राचीनं पूर्व दिशि भवं ज्योतिः आहवनीयाख्यं प्रदिशा अभिनयेन श्रुतिवाक्येन दिशन्ता यष्टव्यमिति कथयन्तौ । सर्वत्र विभक्तेराकारः ॥ ३२॥

त्रयस्त्रिंशी।
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदᳪ स्यो॒नᳪ सर॑स्वती॒ स्वप॑सः सदन्तु ।। ३३ ।।
उ० आ नो यज्ञम् । आङ् उपसर्गः सदन्त्वित्याख्यातेन संबध्यते। आ एतु आगच्छतु नः अस्माकं यज्ञम् भारती भरत आदित्यस्तस्य भारती तूयं क्षिप्रम् इडा च आगच्छतु । मनुष्वत् मनुष्यवत् इह चेतयन्ती परिदृष्टकारिणी । सरस्वती च । या इत्थंभूतास्तिस्रो देव्यः ताः बर्हिः आङ्उपसर्गः सदन्त्वित्याख्यातेन संबध्यते । आसदन्तु आसीदन्तु इदं स्योनं सुखरूपम् स्वपसः। अप इति कर्मनाम । साधुकर्मणः ॥३३॥
म० भारती इडा सरस्वती च नोऽस्माकं यज्ञं तूयं क्षिप्रमा एतु आगच्छतु । कीदृशी । मनुष्वत् मनुष्यवदिह कर्मणि चेतयन्ती ज्ञापयन्ती कर्मज्ञानं बोधयन्ती । इदं तिसृणां विशेषणम् । एतास्तिस्रो देवीः देव्यः स्योनं सुखरूपमिदं बर्हिः आसदन्तु आसीदन्तु । कीदृश्यः । स्वपसः शोभनमपः कर्म यासां ताः शुभकर्माणः । अप इति कर्मनाम ॥ ३३ ॥

चतुस्त्रिंशी।
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रूपै॒रपि॑ᳪश॒द्भुव॑नानि॒ विश्वा॑ ।
तम॒द्य हो॑तरिषि॒तो यजी॑यान् दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ।। ३४ ।।
उ० य इमे । यस्त्वष्टा इमे द्यावापृथिव्यौ जनित्री जनयित्र्यौ सर्वभूतानाम् । रूपैः अपिंशत् सुचित्रिते अकरोत् । भुवनानि विश्वा भूतजातानि च सर्वाणि रूपैरपिंशत् आवृतान्यकरोत् तम् अद्यास्मिन्नहनि । हे होतः, इषितः प्रेषित इति वा अधीष्ट इति वा । यजीयान् यष्टृतमः । देवं दानादिगुणयुक्तम् त्वष्टारम् । इह यज्ञे यक्षि यज । विद्वान् स्वमधिकारं जानानः ॥ ३४ ॥
म० हे होतः, अद्य इषितः प्रेषितः सन् तं त्वष्टारं देवमिह यज्ञे यक्षि यज । कीदृशः त्वम् । यजीयान् अत्यन्तं यष्टा 'तुरिष्ठेमेयःसु' ( पा० ६ । ४ । १५४ ) इतीयसुनि तृचो