पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० अर्वा अश्वः शसनं विशसनस्थानमुपप्रागात् आगतः । कीदृशोऽर्वा । वाजी वजतीति वाजी गमनशीलः अन्नवान् वा । देवद्रीचा मनसा दीध्यानः । देवान्प्रत्यञ्चति देवद्र्यक् तेन 'विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये' (पा० ६ । ३ । ९२) इति देवशब्दस्य टेरञ्चतौ परेऽद्र्यादेशः । दीधीते दीध्यानः 'दीधीङ् दीप्तिदेवनयोः' शानच्प्रत्ययः । देवान्प्रति गतेन चित्तेन दीप्यमानः । किंच अस्याश्वस्य पुरोऽग्रे अजो नीयते स्थाप्यते । तदुक्तम् 'कृष्णग्रीव आग्नेयो रराटे पुरस्तात्' इति । अस्य नाभिः अजो नीयते नाभौ स्थाप्यते । तदुक्तम् 'सोमापौष्णः श्यामो नाभ्याम्' इति । अस्य पश्चात् कवयः ऋत्विजः अनुयन्ति अनुगच्छन्ति । कीदृशाः कवयः । रेभाः रेभन्ते इति रेभाः 'रेभृ शब्दे' स्तोतार इत्यर्थः ॥ २३ ॥

चतुर्विंशी ।
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒२ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।
अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथाशा॑स्ते दा॒शुषे॒ वार्या॑णि ।। २४ ।।
उ० उपप्रागात् । एवमश्वमभिष्टुत्य अथेदानीं यजमानं कृतकृत्यतया संबोधयन्नाह । उप प्रागात् प्राप्तवान् । परममुत्कृष्टम् । यत् यस्मात् सधस्थं सह स्थान देवमनुष्याणाम् । अर्वान् अर्वा अश्वः। नकार उपजनः । अच्छा पितरं मातरं च 'अच्छाभेराप्तुमिति शाकपूणिः' अभ्यगाच्च यस्मात् पितरं मातरं च द्यावापृथिव्यौ अश्वः । तस्माद्ब्रवीमि हे यजमान, अद्या अद्य कृतकृत्यः सन् देवान् गम्याः गच्छेः जुष्टतमः सन् हिर्निश्चये । अथैवंगताय भवते दाशुषे दत्तवते हवींषि यजमानाय । आशास्ते अश्व एव वार्याणि वरणीयानि ॥२४॥
म० एवमश्वं स्तुत्वा यजमानमाह । अर्वान् अर्वाश्वः पितरं मातरं च अच्छ द्यावापृथिव्यौ अभि समीपे परममुत्कृष्टं यत् सधस्थं सहस्थानं तत् उपप्रागात् । अर्वन्शब्दस्य नलोपाभावश्छान्दसः। अश्वे एव देवलोकं गते हे यजमान, जुष्टतमः प्रीततमः सन् अद्य त्वं देवान् गम्याः देवलोकं गच्छेः । गमेराशीर्लिङि मध्यमैकवचने गम्या इति रूपम् । अथैवं देवत्वं गताय दाशुषे हविर्दत्तवते तुभ्यं वार्याणि वरणीयानि भोग्यवस्तूनि हि नूनम् आशास्ते । देवगणोऽश्वो वा ददात्वित्यर्थः ॥ २४ ॥

पञ्चविंशी।
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान् य॑जसि जातवेदः ।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ।। २५ ।।
उ० समिद्धो अद्य । द्वादशाप्त्यस्त्रिष्टुभः भार्गवो जमदग्निरपश्यत् । यस्त्वं समिद्धः अद्यास्मिन्यजनीयेऽहनि । मनुषः मनुष्यस्य यजमानस्य । दुरोणे यज्ञगृहे देवो दानादियुक्तः । देवान् दानादियुक्तान् यजसि । हे जातवेदः जातप्रज्ञान, तं त्वां प्रार्थयामि । आच वह देवान्यज च । हे मित्रमहः मित्राणां पूजयितः, यस्त्वं चिकित्वान् चेतनावान्परिदृष्टकारी । अपि चैतदेव चित्रं यत्त्वमस्माकमस्मिन्कर्मणि वर्तेथाः । किं कारणं यतो ब्रवीमि । त्वं दूतः देवानां कविः क्रान्तदर्शनश्चासि । प्रचेताः प्रवृद्धचेताश्च ॥ २५ ॥
म० द्वादशाप्रीसंज्ञास्त्रिष्टुभो जमदग्निदृष्टाः समित्तनूनपादादयो देवताः । हे जातवेदः जातज्ञान, मनुषो मनुष्यस्य यजमानस्य दुरोणे यज्ञगृहे अद्य त्वं देवान् यजसि । कीदृशस्त्वम् । समिद्धः दीप्तः देवः दानादिगुणयुक्तः । हे मित्रमहः मित्रान् यजमानान्महति पूजयति मित्रमहाः तत्संबुद्धौ हे मित्रमहः, आवह च देवानावह यज चेत्यर्थः । यतः त्वमीदृशोऽसि । कीदृशः । चिकित्वान् चेतनावान् । दूतः कविः कान्तदर्शी । प्रचेताः प्रकृष्टं चेतो यस्य सोऽत एव यज ॥ २५ ॥

षड्विंशी।
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व ।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् दे॑व॒त्रा च॑ कृणुह्यध्व॒रं न॑: ।। २६ ।।
उ० तनूनपात्पथः। तनूनपाच्छब्देनाज्यमभिधेयमग्निर्वा। हे तनूनपात् गवामपां वा पौत्र । पथः ऋतस्य यानान् ऋतस्य यज्ञस्य गमनान्पथः हवींषि । हविर्भिर्हि यज्ञो याति प्रवर्ततेऽतो यज्ञमार्गा हवींष्युच्यन्ते । मध्वा मधुरसेन समञ्जन् भक्षयन् । स्वदय देवेभ्यः रोचय । हे सुजिह्व कल्याणजिह्व । कल्या ह्यग्नेर्जिह्वा या नानादेवत्यानि हवींष्यभ्यवहरते न किंचनोच्छेषयति । किंच मन्मानि मननानि धीभिः बुद्धिभिः सहितानि । उत अपिच यज्ञम् ऋन्धन् समर्धयन् । देवत्रा च कृणुहि देवान्प्रति गमय । करोतिर्गमनार्थः । अध्वरं नः अस्माकम् ॥ २६ ॥
म० तनूनामपां नपात्पौत्रोऽग्निः अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रत्वमग्नेः । हे तनूनपात् अग्ने, हे सुजिह्व, शोभना जिह्वा यस्य स सुजिह्वः । नानादेवत्यानि हवींषि भक्षयन्नपि नोच्छिष्टानि करोतीति वह्नेः शोभनजिह्वत्वम् । हे सुजिह्व, ऋतस्य यानान् पथः स्वदय रोचय । भक्षयेत्यर्थः । यायन्ते यैर्येषु वा ते यानास्तान् । 'करणाधिकरणयोः' (पा० ३ । ३ । | ११७ ) इति ल्युप्रत्ययः । ऋतो यज्ञः तस्य गमनसाधनमार्गा हवींषि तान्भक्षयेत्यर्थः । हविर्भिर्यज्ञः प्रवर्तते इति यज्ञगमनपन्थानो हवींषि । किं कुर्वन् । मध्वा समञ्जन् मधुरेण रसेन संम्रक्षयन् । किंच नोऽस्माकमध्वरं यज्ञं देवत्रा कृणुहि देवान् गमय । करोतिर्गत्यर्थः । किं कुर्वन् । धीभिः बुद्धिभिः सह मन्मानि ज्ञानानि । उत अपिच यज्ञमृन्धन् समर्धयन् अस्माकं ज्ञानं यज्ञं च वर्धयन् यज्ञं देवलोकं नयेत्यर्थः ॥ २६ ॥