पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मानौ मिमाना निर्मिमाणौ होतारौ । ज्योतिः प्रदिशा दिशन्ता आहवनीयाख्यं ज्योतिः प्रष्टव्यमिति प्रदिशा प्रदेशेन अभिनयेन दिशन्ता दर्शयन्तौ । आसते इति वाच्यम् ॥७॥
म० हे यजमानौ, वां युवयोः प्रथमा प्रथमौ मुख्यौ होतारा होतारौ अहमपि प्रयं प्रीणितवानस्मि । प्रीणातेर्णिजन्तस्य लुङि उत्तमैकत्वे रूपम् । अयं चाग्निरसौ च मध्यम इति । होतारौ कीदृशौ । सरथिना सरथिनौ समानो रथो ययोस्तौ एकरथारूढौ । सुवर्णा सुवर्णौ शोभनो वर्णो द्युतिर्ययोस्तौ । देवौ दीप्यमानौ दातारौ । विश्वा सर्वाणि भुवनानि पश्यन्तौ । वां युवयोश्चोदना चोदनानि कर्माणि मिमाना मिमानौ निर्मिमाणौ । प्रदिशा प्रदेशेनाभिनयेन ज्योतिः दिशन्तौ आहवनीयाख्यं ज्योतिर्यष्टव्यमिति दर्शयन्तौ ॥ ७ ॥

अष्टमी।
आ॒दि॒त्यैर्नो॒ भार॑ती वष्टु य॒ज्ञᳪ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत् ।
इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त ।। ८ ।।
उ० आदित्यैर्नः । अत्र त्रयः पादाः परोक्षकृताः चतुर्थः पादः प्रत्यक्षकृतः। नचैवं सामञ्जस्यम् । अतश्चतुर्थस्य पादस्य सन्नतिः। आदित्यैः सहिता नो अस्माकं भारती वष्टु कामयतां यज्ञम् । सरस्वती च रुद्रैः सहिता नः अस्मान् आवीत् अवतु । इडा च उपहूता कृतोपह्वाना वसुभिः सजोषा समानप्रीतिः । नः आवीदित्यनुवर्तते । एवमनेन प्रकारेण यज्ञं नोऽस्माकं तिस्रो देव्यः अमृतेषु देवेषु धत्त दधत्विति पुरुषव्यत्ययः । परोक्षीकृत्य स्तुताः ता इदानीं प्रत्यक्षकृताः स्तौति । यज्ञं नो देवीरमृतेषु धत्तेति ॥ ८ ॥
म. आदित्यैः युता भारती नोऽस्माकं यज्ञं वष्टु कामयताम् । सरस्वती रुद्रैः सह नोऽस्माकं यज्ञमावीत् अवतु । इडा चावतु । कीदृशी । उपहूता कृतोपहवा । वसुभिः देवैः । सजोषाः प्रीतियुता । एवं परोक्षमभिधाय प्रत्यक्षमाह । हे देवीः देव्यो भारतीसरस्वतीडाः । नोऽस्माकं यज्ञममृतेषु देवेषु धत्त यूयं स्थापयत ॥ ८॥

नवमी।
त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्व॑: ।
त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ।। ९ ।।
उ० त्वष्टा वीरं । यः त्वष्टा वीरं पुत्रम् देवकामम् ऋणत्रयापाकरणसमर्थं जजान जनयति । यस्माच्च त्वष्टुः अर्वा अरणः आशुः शीघ्रः अश्वः जायते । यश्च त्वष्टा इदं विश्वं सर्वं भुवनं भूतजातं जजान जनयति । तं त्वष्टारं बहोः भूतग्रामस्य कर्तारम् इह यज्ञे यक्षि यज हे होतः ॥९॥
म० त्वष्टा वीरं । पुत्रं जजान जनयति । कीदृशं वीरं । देवकामं देवान्कामयते देवकामस्तं यष्टारम् । ऋणत्रयापाकरणसमर्थमित्यर्थः । त्वष्टुः सकाशात् अश्वः जायते उत्पद्यते । कीदृशोऽश्वः। अर्वा इयर्ति गच्छति अर्वा । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३। २ । ७५) इति अर्तेर्वनिप् । आशुः अश्नुते दिशो व्याप्नोति अश्नाति भक्षयति वा आशुः उण्प्रत्ययः । किंच त्वष्टा इदं विश्वं सर्वं भुवनं भूतजातं जजान उदपादयत् । हे होतः, एवं बहोः कार्यस्य कर्तारं त्वष्टारमिह यज्ञे त्वं यक्षि यज । यजतेः शपि लुप्ते रूपम् ॥ ९ ॥

दशमी।
अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ२ ऋ॑तु॒शः पाथ॑ एतु ।
वन॒स्पति॑र्देवलो॒कं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ।। १० ।।
उ० अश्वो घृतेन । यः अश्वः पत्नीभिः घृतेन त्मन्या आत्मना स्वयमेव समक्तः समुक्षितः सन् । उप एतु उपगच्छतु देवान् प्रति । ऋतुशः ऋतावृतौ काले काले पाथः अन्नं भूत्वा । कथं देवलोकमजानन्न देवान् प्रति यायादित्यत आह । वनस्पतिः देवलोकं प्रजानन् अश्वस्य दर्शयत्विति शेषः । अग्निना च तन्मित्रेण । हव्या हवींषि स्वदितानि मृष्टीकृतानि । वक्षत् वहतु देवान्प्रति ॥ १० ॥
म० पाथ इत्यन्ननाम । अश्वः पाथः अश्वरूपं हविः ऋतुशः ऋतौऋतौ यज्ञकाले त्मन्या आत्मना स्वयं देवान् उप एतु प्राप्नोतु । विभक्तेर्यादेशे 'मन्त्रेष्वाङ्ग्यादेरात्मनः' (पा० ६ । ४ । १४१ ) इति आलोपः । कीदृशोऽश्वः । घृतेन समक्तः पत्नीभिः समुक्षितः । किंच वनस्पतिर्देवः हव्या हव्यानि वक्षत् वहतु देवान्प्रति । कीदृशो वनस्पतिः । देवलोकं प्रजानन्विदन् अतएव वहतु । कीदृशानि हव्यानि । अग्निना स्वदितानि आस्वादितानि आस्वाद्य मिष्टीकृतानि ॥ १० ॥

एकादशी।
प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने ।
स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ।। ११ ।।
उ० प्रजापतेस्तपसा । यस्त्वं प्रजापतेस्तपसा वावृधानः वर्धमानः । सद्योजातः अरण्योः सकाशादुत्पन्नः। दधिषे धारयसि यज्ञं । हे अग्ने, तं त्वां ब्रवीमि । स्वाहाकृतेन हविषा स्वाहाकारोपलक्षितेन हविषा । पुरोगाः पुरोगामी सन् । याहि साध्या । साधुशब्दविभक्त्यर्थे ड्यादेशे टिलोपः। साधु हविः अदन्तु देवाः ॥ ११ ॥
म० हे अग्ने, त्वं यज्ञं दधिषे धारयसि । लडर्थे लिट् । कीदृशस्त्वम् । प्रजापतेस्तपसा वावृधानः वर्धमानः। सद्योजातः अरण्या उत्पन्नः । किंच स्वाहाकृतेन स्वाहाकारमुक्त्वा हुतेन हविषा सह । पुरोगाः पुरो गच्छतीति अग्रगामी सन् याहि