पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नजोषणः प्रीतम् आप्रीभिः प्रीतम् वह्निं वोढारम् वहतु प्रापयतु जातवेदाः ॥३॥
म० हे वाजिन् , हे सप्ते, ईड्यः स्तुत्योऽसि । वन्द्यः नमनीयोऽसि । आशुः शीघ्रः मेध्यः मेधायाश्वमेधाय योग्यः । चकाराः समुच्चयार्थाः । किंच जातवेदाः अग्निः त्वा त्वां वहतु देवान् प्रापयतु । कीदृशोऽग्निः । वसुभिः देवैः सजोषाः जोषसा प्रीत्या सहितः । कीदृशं त्वाम् । प्रीतं तुष्टम् वह्निं हविषो वोढारम् ॥ ३ ॥

चतुर्थी।
स्ती॒र्णं ब॒र्हिः सु॒ष्टरी॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथि॒व्याम् ।
दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषा॑: स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ।। ४ ।।
उ० स्तीर्णं बर्हिः । स्तीर्णमपि बर्हिः सुष्टरीम साधुस्तृणाम आजुषाणा विभक्तेर्डादेशः। सेवमानम् । ततस्तीर्यमाणम् उरु बहु पृथु विस्तीर्णम् प्रथमानम् । पृथिव्यां वेद्याम् । देवेभिः देवैः युक्तम् । अदितिः सजोषाः समानजोषणा सह प्रीयमाणा स्योनं सुखं कृण्वाना कुर्वाणा । सुविते सुगते स्वर्गे प्रजायां वा । दधातु स्थापयतु ॥ ४ ॥
म० वयं बर्हिः सुष्टरीम साधु स्तरीम स्तृणाम । अदितिर्देवी स्तीर्णं तत् बर्हिः सुविते सु इते साधु गते स्वर्गलोके दधातु स्थापयतु । कीदृशी अदितिः । सजोषाः जोषसा प्रीत्या युक्ता । स्योनं कृण्वाना सुखं कुर्वती । जुषाणा प्रीयमाणा। कीदृशं बर्हिः । उरु बहु पृथु विस्तीर्णम् पृथिव्यां प्रथमानं विस्तार्यमाणम् । देवेभिर्युक्तं देवैः सहितम् ॥ ४ ॥

पञ्चमी।
ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भि॒: श्रय॑माणा॒ उदातै॑: ।
ऋ॒ष्वाः स॒तीः क॒वष॒: शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ।। ५ ।।
उ० एता उ वः एताश्च यज्ञगृहद्वारः हे ऋत्विग्यजमानाः, वः युष्माकं सुभगाः विश्वरूपाः अनेकरूपचित्रिताः । विपक्षोभिः श्रयमाणा उदातैः । पक्षोभिः पक्षैः । उदातैः ऊर्ध्वमायातैः सततमायातैः सततगमनैः विश्रयमाणा विस्तीर्यमाणाः । पक्षःशब्दः सान्तः कपाटवचनः । ऋष्वाः महत्यः सतीः सत्यः कवषः कुषिताः ससुषिराः। शुंभमानाः आत्मानं शोभयन्त्यः । द्वारो देवीः दीप्तिमत्यः । सुप्रायणाः सुप्रगमनाः भवन्तु ॥ ५॥
म० हे ऋत्विग्यजमानाः, वो युष्माकमेता द्वारो देवीः यज्ञगृहद्वारो देव्यः ईदृश्यो भवन्तु । उ पादपूरणः । कीदृश्यः । सुभगाः शोभनं भगं श्रीर्यासां ताः । विश्वरूपाः नानारूपचित्राः । पक्षोभिः पक्षस्शब्दः सान्तः पक्षवाची । पक्षैः पक्षप्रायैः कपाटैः विश्रयमाणाः विस्तार्यमाणाः । कीदृशैः पक्षोभिः । उत् ऊर्ध्वम् आतैः अत्यन्ते विस्तार्यन्ते आताः 'अत सातत्यगमने' ऊर्ध्वं प्रसृतैरित्यर्थः । पुनः कीदृश्यो द्वारः । ऋष्वाः ऋषन्ति ऋष्वाः 'ऋष गतौ' इतस्ततो गमनशीलाः महत्यः । सतीः सत्यः समीचीनाः । कवषः 'कु शब्दे' कुवन्ति शब्दं कुवन्तीति कवषः । कुवतेरसुन्प्रत्ययः षत्वमार्षम् । कपाटपिधानसमये शब्दं कुर्वाणाः ससुषिरा वा । शुम्भमानाः शोभमानाः सुप्रायणाः सुखेन प्रकृष्टमयनं गमनं यासु सुगमनाः ॥५॥

षष्ठी। |
अ॒न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने ।
उ॒षासा॑ वाᳪ सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि ।। ६ ।।
उ० अन्तरा मित्रावरुणा । ये अन्तरा मध्येन मित्रावरुणा चरन्ती । 'अयं वै लोको मित्रोऽसौ वरुण' इति श्रुतिः । द्यावापृथिव्योर्मध्येन संचरन्त्यौ । मुखं यज्ञानामभिसंविदाने यज्ञानां मुखमग्निहोत्रं तस्य कालम् अभिसंविदाने प्रकथयन्त्यौ । उत्तिष्ठतामयमग्निहोत्रहोमकालः आद्य इतीव लक्ष्यते । ते उषासा । द्विवचनोपदेशात्सहचरितत्वाच्च द्वितीया रात्रिः । नक्तोषासौ वां युवयोः हे दम्पतीयजमानौ, सुहिरण्ये साधुहिरण्यालंकारभूषिते । सुशिल्पे साध्वन्योन्यं प्रतिरूपे ऋतस्य यज्ञस्य योनौ इह सादयामि स्थापयामि ॥६॥
म० हे पत्नीयजमानौ, वां युवयोर्ऋतस्य यज्ञस्य योनौ इह उषासा उषसौ नक्तोषसौ सादयामि स्थापयामि । द्विवचनात्सहचारित्वाच्च द्वितीया रात्रिः । कीदृश्यौ उषसा । मित्रावरुणा मित्रावरुणौ अन्तरा द्यावापृथिव्योर्मध्ये संचरन्ती संचरन्त्यौ वर्तमाने 'अयं वै लोको मित्रोऽसौ वरुणः' इति श्रुतेर्मित्रवरुणशब्देन द्यावापृथिव्यावुच्यते । यज्ञानां मुखमग्निहोत्रहोमकालमभिसंविदाने कथयन्त्यौ उत्तिष्ठतायमग्निहोत्रहोमकाल इति प्रातर्विप्रा वदन्ति तदुषस्युपचर्यते । सुहिरण्ये साधु हिरण्यं भूतं ययोस्ते । सुशिल्पे अन्योन्यं प्रतिरूपे। शिल्पं प्रतिरूपं भवतीति वचनात् ॥ ६ ॥

सप्तमी।
प्र॒थ॒मा वा॑ᳪ सर॒थिना॑ सु॒वर्णा॑ देवौ॒ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ ।
अपि॑प्रयं॒ चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योति॑: प्र॒दिशा॑ दि॒शन्ता॑ ।। ७ ।।
उ०. प्रथमा वाम् । यौ प्रथमौ होतारौ अयं चाग्निरसौ च मध्यमः। वां युवयोः हे दम्पती यजमानौ । सरथिना एकरथारूढौ । सुवर्णा शोभनवर्णौ । देवौ दानादिगुणयुक्तौ । पश्यन्तौ भुवनानि भूतजातानि । विश्वानि सर्वाणि मध्यस्थतया। अपिप्रयम् । प्रीणातेरेतद्रूपम् । प्रीणितवानहमस्मि तौ चोदना सुप्रमाणकं कर्म । वां युवयोः हे दम्पती यज