पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

साधु इष्टं कर्तव्यमिति यस्यायमधिकारः । देवं द्युस्थानम् इन्द्रं वयोधसमायुषो धारयितारम् देवो देवम् दीप्त इत्युभयत्र । अवर्धयत् अतिच्छन्दसा छन्दसा स इदानीम् इन्द्रियं वीर्यम् क्षत्रं क्षतात्त्राणम् इन्द्रे वय आयुश्च दधत् धारयन् वसुवननाय वसुधानाय च वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे होतः, यज ॥ ४५ ॥
म० ब्राह्मी बृहती । देवो दाता स्विष्टकृत् अग्निः देवो वयोधसं देवं दीप्तमिन्द्रं देवमवर्धयत् । कीदृशः । अतिच्छन्दसा छन्दसा क्षत्रं क्षतात्त्राणरूपमिन्द्रं वयश्चेन्द्रे दधत् । स वसुवननाय वसुधानाय च वेतु । हे होतः, त्वमपि यज ॥४५॥

षट्चत्वारिंशी।
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मान॒: पच॒न्पक्ती॒: पच॑न्पुरो॒डाशं॑ ब॒ध्नन्निन्द्रा॑य वयो॒धसे॒ छाग॑म् ।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य वयो॒धसे॒ छागे॑न ।
अघ॒त्तं मे॑द॒स्तः प्रति॑पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒डाशे॑न । त्वाम॒द्य ऋ॑षे ।। ४६ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां अष्टाविंशोऽध्यायः ॥ २८ ॥
उ० अग्निमद्येति व्याख्यातम् । इन्द्राय वयोधसे इति विशेषः ॥ ४६॥
इति उवटकृतौ मन्त्रभाष्ये अष्टाविंशतितमोऽध्यायः ॥२८॥
म० अग्निमद्य एकाधिका ब्राह्मी गायत्री । सूपस्थाः ब्राह्म्यनुष्टुप् । एते व्याख्याते ( क. २३)। त्वामद्य प्रतीकोक्तः सर्वोऽपि पाठ्यः । एकाधिका विकृतिः । अयमपि व्याख्यातः (क० २३ ) । इन्द्राय वयोधसे इति विशेषः ॥ ४६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अष्टाविंशोऽयमध्यायोऽगमत्सौत्रामणीभवः ॥
इति सौत्रामणीसंबन्धिप्रयाजानुयाजप्रैषनिरूपणंनामाष्टाविंशोऽध्यायः ॥ २८ ॥

एकोनत्रिंशोऽध्यायः।
तत्र प्रथमा ।
समि॑द्धो अ॒ञ्जन् कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः ।
वा॒जी वह॑न् वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि प्रि॒यमा स॒धस्थ॑म् ।। १ ।।
उ० एकादश त्रिष्टुभः । आप्त्यो नराशंसः बृहदुक्थो वामदेव्यः । अश्वो वा समुद्रिरपश्यत् । अश्वस्तुतिः । आश्वमेधिकं प्रागाग्नेयः कृष्णग्रीव इत्येतस्मात् । हे भगवन्नग्ने, समिद्धः संदीप्तः । अञ्जन् व्यक्तीकुर्वन् । आज्ये हि सर्वासां देवतानां मनांस्येतानि ममेदं स्यान्ममेदं स्यादिति घृतं मधुमत् मधुस्वादु । पिन्वमानः आत्मानंप्रति सिञ्चन् स्वेच्छया पिबन्नित्यर्थः । वाजी वेजनवान् चलनवान् वहन्वाजिनं हविः । हे जातवेदः देवानां वक्षि वह प्रापय । प्रियं आ सधस्थं सहस्थानम् ॥ १॥ ।
म० आश्वमेधिकोऽध्यायः । ततोऽस्य प्रजापतिर्ऋषिः । आद्या एकादश त्रिष्टुभः आप्रीसंज्ञाः अश्वस्तुतयो वामदेवपुत्रेण बृहदुक्थेन समुद्रपुत्रेणाश्वेन वा दृष्टाः समित्तनूनपादिडादिदेवताकाः । हे अग्ने, हे जातवेदः जातप्रज्ञान, त्वं देवानां सधस्थं सह तिष्ठन्ति यत्रेति सहस्थानं प्रति प्रियं प्रीतिमानक्षि आवह देवान्प्रीणयेत्यर्थः । वहतेः शपो लुकि मध्यमैकवचने रूपम् । कीदृशस्त्वम् । समिद्धः दीप्तः मतीनां कृदरं बुद्धीनामुदरं गर्भमञ्जन् व्यक्तीकुर्वन् । बुद्धिरहस्यं प्रकाशयन्नित्यर्थः । मधुमत् स्वादु घृतं पिन्वमानः देवेषु सिञ्चन् । वाजी वजतीति वाजी 'वज गतौ' चलनवान् । वाजिनं हविः वहन् देवान्प्रापयन्सन् प्रीणय ॥ १॥

द्वितीया ।
घृ॒तेना॒ञ्जन्त्सं प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्यप्ये॑तु दे॒वान् ।
अनु॑ त्वा सप्ते प्र॒दिश॑: सचन्ताᳪ स्व॒धाम॒स्मै॒ यज॑मानाय धेहि ।। २ ।।
उ० घृतेनाञ्जन् । प्रथमोर्धर्चः परोक्षकृतः उत्तरः प्रत्यक्षकृतः। यतस्तयोरेकवाक्यता नोपपद्यते अतः पुरुषव्यत्ययः। घृतेन अञ्जन्समञ्जन् । पथः देवयानान् । हवींषि देवयानाः पन्थान उच्यन्ते । तैर्हि ते जीवन्ति । प्रजानन् अहं देवानां हविरिति जानन् वाजी अप्येतु अभ्यागच्छतु देवान् । किंच अनुसचन्ताम् अनुसेवन्ताम् त्वां हे सप्ते सरण, प्रदिशः दिगाश्रयाणि भूतानि । किंच स्वधामन्नम् अस्मै यजमानाय धेहि प्रयच्छ । अत्र घृतशब्दस्तनूनपाच्छब्दपर्यायः ॥ २॥
म० वाजी अश्वो देवानप्येतु । कीदृशः । घृतेन देवयानान् पथः समञ्जन् देवा यायन्ते यैस्ते देवयानाः पन्थानो हवींष्युच्यन्ते । प्रजानन् देवानां हविरहमिति जानन् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह । हे सप्ते अश्व, प्रदिशो दिगाश्रयाणि भूतानि त्वा त्वामनुसचन्ताम् । 'षष्' संबन्धे' सपति कर्मणा संबध्यते स सप्तिः । किंच अस्मै यजमानाय स्वधामन्नं धेहि प्रयच्छ । अत्र घृतशब्दस्तनूनपाद्वाची ॥२॥

तृतीया।
ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते ।
अ॒ग्निष्ट्वा॑ देवै॒र्वसु॑भिः स॒जोषा॑: प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ।। ३ ।।
उ० ईड्यश्चासि । यस्त्वं ईड्यश्चासि स्तुत्यश्चासि | वन्द्यश्च । हे वाजिन् , आशुश्च शीघ्रश्च मेध्यश्च यज्ञसंपादी च असि । हे सप्ते, तं त्वाम् अग्निः देवैः वसुभिः सजोषाः समा