पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशी।
त॑नू॒पा अ॑ग्नेऽसि त॒न्वं॒ मे पाह्यायु॒र्दा अ॑ग्ने॒ स्यायु॑र्मे देहि व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि ।
अग्ने॒ यन्मे॑ त॒न्वा॒ ऊ॒नं तन्म॒ आपृ॑ण ।। १७ ।।
उ० अथ यजूंषि। तनूपा अग्ने। हे भगवन्नग्ने, यस्त्वं स्वभावत एव अग्निहोत्रिणां तनूपा असि तनूः शरीरं तस्य गोपायिता भवसि स त्वं मे मम तन्वं पाहि गोपाय । आयुर्दा अग्नेऽसि यस्त्वमायुषो दातासि हे अग्ने, स आयुर्मे मम देहि । वर्चोदा अग्नेऽसि वर्चो मे देहि । यस्त्वमग्ने वर्चीदा असि स वर्चो में देहि । यतो दर्शनादेव महानयं ब्राह्मणो विद्वान् तपसाग्निरिव ज्वलतीति प्रतिपत्तिस्तद्वर्च इत्युच्यते । हे अग्ने, यत् मे मम तन्वाः शरीरस्य ऊनं न्यूनम् अवखण्डितं तत् मे मम आपृण आपूरय ॥ १७ ॥
म० अथ यजूंषि चत्वार्यग्निदेवत्यानि । हे अग्ने, त्वं स्वभावत एव तनूपा असि अग्निहोत्रिशरीराणां पालकोऽसि । तनूं पाति पालयतीति तनूपाः । उदराग्नौ सत्यन्ने जीर्णे शरीरपालनमतो हे अग्ने, मे मम तन्वं शरीरं पाहि पालय । तन्वम् 'वा छन्दसि' (पा० ६ । १ । १०) इत्यमि पूर्वरूपाभावे यणादेश इत्युक्तम् । हे अग्ने, त्वमायुर्दा असि आयुषो दाता भवसि । अतो मे ममायुर्देहि अपमृत्युपरिहारेण । यावत्कालं वपुष्युदराग्नेरौष्ण्यमुपलभ्यते तावन्न म्रियत इति प्रसिद्धम् । हे अग्ने, त्वं वर्चोदा असि वर्चसो दातासि । अतो मे वर्चो देहि । वैदिकानुष्ठानप्रयुक्तं तेजो वर्चः । यद्दर्शनादेव महानयं ब्राह्मणो विद्वांस्तपसाग्निरिव ज्वलतीति बुद्धिर्नृणां भवति । किंच हे अग्ने, मे मम तन्वाः मदीयशरीरस्य यदङ्गं चक्षुरादिरूपमूनं दृष्टिपाटवादिरहितं तदङ्गं मे आपृण सर्वतः पूरय ॥ १७ ॥

अष्टादशी।
इन्धा॑नास्त्वा श॒तᳪ हिमा॑ द्यु॒मन्त॒ᳪ समि॑धीमहि । वय॑स्वन्तो वय॒स्कृत॒ᳪ सह॑स्वन्तः सह॒स्कृत॑म् ।
अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् । चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय ।। १८ ।।
उ० इन्धानास्त्वा महापङ्क्तिस्त्र्यवसाना आग्नेयी। हे अग्ने, इन्धानाः । 'इन्धी दीप्तौ' । आदीपयन्तः प्रकाशयन्तस्त्वाम् । शतᳪ हिमाः शतं वर्षाणि द्युमन्तᳪ, समिधीमहि दीप्तिमन्तं त्वां समिधीमहि संदीपयाम इत्यर्थः । वयस्वन्तो वयस्कृतम् । कथंभूतं त्वां कथंभूताश्च सन्तो वयं समिधीमहि । वयस्वन्तः । वय इत्यन्ननाम । अन्नवन्तः । वयस्कृतम् अन्नस्य कर्तारम् । सहस्वन्तः। सह इति बलनाम । बलवन्तः। सहस्कृतम् बलस्य कर्तारम् । 'अग्ने सपत्नदम्भनम्' हे भगवन्नग्ने, सपत्नदम्भनम् । सपत्नाः शत्रवः । दभ्नोतिर्हिँसार्थः। सपत्नानां हिंसितारम् । अदब्धासः अदब्धा एव अदब्धासः । 'आजसेरसुक्' । अनुपहिंसिताः सन्तः । अदाभ्यम् अनुपहिंस्यम् । समिधीमहीत्यनुवर्तते। चित्रावसो रात्रिरुच्यते 'रात्रिर्वै चित्रावसुः सा हीयᳪ संगृह्येव चित्राणि वसति' इति श्रुतिः।हे चित्रावसो, स्वस्ति । स्वस्तीत्यविनाशिनाम । अस्तिरभिपूजितः सु अस्तीति स्वस्त्या । ते तव पारम् अन्तम् । अशीय अश्नुयां व्याप्नुयाम् ॥ १८ ॥
म० अग्निदेवत्या महापङ्क्तिः । यस्याः षट् पादा अष्टाक्षराः सा महापङ्क्तिः । अत्र षष्ठः सप्ताक्षरः । हे अग्ने, शतं हिमाः शतं वर्षाणि अस्मदायुषि वर्तमानान् शतं संवत्सरान् त्वां समिधीमहि नैरन्तर्येण वयं दीपयामः । किंभूता वयम् । इन्धानाः त्वदनुग्रहेण दीप्यमानाः । तथा वयस्वन्तः । वय इति अन्ननाम ( निघ० २ । ७।७) अन्नवन्तः । सहस्वन्तः बलवन्तः । सह इति बलनाम (निघ० २ । ९ । १७) । अदब्धासः अदब्धाः अनुपहिंसिताः केनापि । दभ्नोतिर्हिंसाकर्मा । 'आज्जसेरसुक्' (पा. ७।१।५० ) इति असुक् । किंभूतं त्वाम् । द्युमन्तं दीप्तिमन्तम् । वयस्कृतं वयोऽन्नं करोतीति वयस्कृत् तम् । सहस्कृतं सहो बलं करोतीति सहस्कृत् तम् । सपत्नदम्भनं सपत्नानां शत्रूणां हिंसितारम् । अदाभ्यम् केनापि हिंसितुमयोग्यम् । चित्रावसो, रात्रिदेवत्यं यजुर्ऋषिदृष्टम् । रात्रिर्वै चित्रावसुः सा हीयᳪ संगृह्येव चित्राणि वसति' (२ । ३ । ४ । २२) इति श्रुतेश्चित्रावसुशब्देन रात्रिः । चित्राणि विविधानि चन्द्रनक्षत्रान्धकाररूपाणि वसन्ति यस्यां रात्रौ सा चित्रावसुः । हे चित्रावसो रात्रे, स्वस्ति क्षेमं यथा तथा ते तव पारं समाप्तिमशीय व्याप्नवानि । अश्नोतेः 'बहुलं छन्दसि' । (पा० २।४ । ७३ ) इति शपो लुकि लिङ्युत्तमैकवचने रूपम् । यथा लोके मनुष्येषु सुप्तेषु चौरा गृहे प्रविशन्ति तद्वदत्र देवयजने रक्षांसि प्रविशन्तीति शङ्कया तन्निवारणाय रात्रिप्रार्थनम् ॥ १८॥

एकोनविंशी ।
सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथा॒: समृषी॑णाᳪ स्तु॒तेन॑ ।
सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ सᳪ रा॒यस्पोषे॑ण ग्मिषीय ।। १९ ।।
उ० सं त्वमग्ने । अथोपविश्य जपति।आहवनीय उच्यते। समित्ययमुपसर्गः अगथा इत्यनेनाख्यातेन संबध्यते । समगथाः संगतस्त्वम् अग्ने, सूर्यस्य संबन्धिना वर्चसा तेजसा । श्रुतिमन्त्रं विवृणोति तद्यदस्तं यत्रादित्य आहवनीयं प्रविशति तेनैतदाह' इति । समृषीणां स्तुतेन संगतस्त्वमग्ने, ऋषीणां संबन्धिभिर्मन्त्रैः। तद्यदुपतिष्ठते तेनैतदाह' । संप्रियेण धाम्ना संगतस्त्वं प्रियेण धाम्ना प्रियाभिराहुतिभिः । 'धामानि