पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशी।
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शेवि॑शे ।। १५ ।।
उ० अयमिह । अयमाहवनीयोग्निः इह खरस्थाने प्रथमः मुख्यः। दक्षिणाग्न्यभिप्रायं च प्राथम्यम्। धायि । 'डुधाञ् धारणपोषणयोः' । निहितः धातृभिः अग्निधातृभिरध्वर्युभिः । होता आह्वाता देवानाम् । यजिष्ठः यष्टृतमः मानुषाद्धोतुः । अध्वरेषु यज्ञेषु । ईड्यः स्तुत्यः । यमप्नवानः यमग्निमाधाय पूर्वेपि ऋषयः अप्नवानप्रभृतयः । भृगवः भृगवश्च भृगोरपत्यानि । विरुरुचुः । 'रुच दीप्तौ' । विविधां दीप्तिं प्राप्तवन्त इत्यर्थः । क्वावस्थितं सन्तमाधाय विरुरुचुः । वनेषु अरण्योराधानाभिप्रायम् । चित्रं चयनीयम् । विभ्वं विशेविशे । यं च इदानीमपि आदधाति विभूतिशक्तियुक्तं विशे मनुष्याय । विश इति मनुष्यनाम ॥ १५ ॥
म० जगती वामदेवदृष्टा । द्वादशाक्षराश्चत्वारः पादा जगत्याः । द्वितीयोऽत्र व्यूहेनैकादशः चतुर्थो व्यूहेन द्वादशस्तेनैकोना जगती । अयमाहवनीय इह कर्मानुष्ठानस्थाने प्रथमो मुख्यः सन्धातृभिर्धायि अधायि आधानकर्तृभिराहितोऽभूत् । 'बहुलं छन्दस्यमाङयोगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । दक्षिणाग्न्यपेक्षं प्राथम्यम् । किंभूतः । होता देवानामाह्वाता । यजिष्ठः अतिशयेन यष्टा । 'अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५) इतीष्ठनि परे 'तुरिष्टेमेयःसु' (पा० ६ । ४ । १५४) इति तृचो लोपः। तथा अध्वरेषु सोमयागादिषु ईड्यः ऋत्विग्भिः स्तुत्यः । अप्नवानो भृगवो विशेविशेयमाहवनीयं वनेषु विरुरुचुः । अन्तर्भूतो णिच् । रोचयामासुः दीपितवन्तः । अप्नशब्दोऽपत्यनामसु पठितः ( निघ० २ । २।७) अप्नवानः पुत्रवन्तो भृगुवंशोत्पन्ना मुनयः । यद्वा अप्नवानृषिः अप्नवानस्तत्प्रभृतयो भृगवश्च मुनयः । विशेविशे विडिति मनुष्यनाम ( निघ० २ । ३ । ५)। यजमानरूपाय तस्मै तस्मै मनुष्याय तदुपकाराय । वनेषु ग्रामाद्बहिर्यजनाख्येष्वरण्यप्रदेशेषु यमग्निं विरुरुचुः दीपयन्ति स्म । किंभूतं यम्। चित्रं विविधकर्मोपयोगित्वेन आश्चर्यकारिणम् । अतएव विभ्वं विभुं विभुत्वशक्तियुतं यणादेशः ॥ १५ ॥

षोडशी।
अ॒स्य प्र॒त्नामनु॒ द्युत॑ᳪशु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पय॑: सहस्र॒सामृषि॑म् ।। १६ ।।
उ० अस्य प्रत्नां गां प्रकृत्याग्निहोत्रब्राह्मणे श्रूयते । 'तामुहाग्निरभिदध्यौ मिथुन्येन यास्यामीति तां संबभूव तस्यां रेतः प्रासिञ्चत्' इत्यादि तदर्थाभिवादिन्येषा ऋग्भवति । अस्यै वाग्नेः प्रत्नां चिरन्तनीं द्युतं दीप्तिं गवि अनुषक्तां शुक्ररूपापन्नां गाम् । दुदुह्रे दुदुहिरे दुग्धं रक्षन्ति दुहन्ति । का दुहन्ति रक्षन्ति काः । अह्रयः गावः। 'ह्री लज्जायाम्' अविद्यमानह्रियः अलज्जिता उज्वलाः प्रशस्या इत्यर्थः । किं तच्छुक्रं या एता गावः रक्षन्ति पयः दुग्धम् । सहस्रसां सहस्रसंख्यानां चातुर्मास्यपशुसोमानां सनितारं संभक्तारम् । ऋषिद्रष्टृ । द्रष्टृत्वं च गवि सत् पयस्युपचर्यते । 'साहैनानुदीक्ष्य हिंचकार' इत्युपक्रम्य 'ते देवा विदांचक्रुरेष साम्नो हिंकारः' इत्येवमादिना ग्रन्थेन गोभिर्हिंकारो दृष्ट इत्येतत्प्रतिपादितम् । स एष मन्त्रो गां वाग्निं वा पयो वा स्तौति ॥ १६ ॥
म०. गायत्र्यवत्सारदृष्टा गोऽग्निपयोदेवत्या । अस्याग्नेः प्रत्नां चिरन्तनकालभवां द्युतमनु दीप्तिमनुसृत्य अह्रयः नास्ति ह्रीर्येषामीदृशा लज्जारहिता दोग्धारः ऋषिं गां शुक्रं शुद्धं पयो दुदुह्रे दुदुहिरे । दुहेर्लिटि 'इरयो रे' (पा० ६ । ४ । ७६ ) इति रेआदेशे रूपम् । 'ऋष गतौ' । अर्षति दोहनस्थाने गच्छतीति ऋषिर्गौः । तां होमार्थ दुग्धवन्तः । सायंदोहनकालेऽग्निप्रकाशाभावे दुह्यमानं पयो भूमौ पतिष्यतीति शङ्कया दोग्धॄणां लज्जा भवति । सत्यामग्निदीप्तौ स्कन्नशङ्कानुदयाल्लज्जाभावादह्रयो दोग्धारः । किंभूतामृषिम् । सहस्रसाम् । 'षोऽन्तकर्मणि' । सहस्रसंख्याकानि कर्माणि स्यति समापयति क्षीरदध्याज्यहविःप्रदानेनेति सहस्रसा ताम् । स्यतेः क्विप् । यद्वास्या ऋचोऽर्थान्तरं गांप्रकृत्याग्निहोत्रब्राह्मणे श्रूयते 'तासु हाग्निरभिदध्यौ मिथुन्येन यास्यामीति ताᳪ संबभूव तस्याᳪ रेतः प्रासिञ्चत्तत्पयोऽभवत्' (२।२। ४ । १५) इत्यादि । तदभिप्रायमेषा ऋग्वदति । अह्रयः गावः नास्ति ह्रीर्लज्जा यासां ता अह्रयः अलज्जाः उज्ज्वलाः प्रशस्या इत्यर्थः । मलिनो हि लज्जते । अह्रयो गावोऽस्याग्नेः प्रत्नां चिरन्तनीमात्मानुषक्तां द्युतं दीप्तिं शुक्रं शुक्ररूपापन्नां द्युतमेव पयो दुग्धं दुदुह्रे | दुहन्ति क्षरन्ति । अग्निना शुक्ररूपेण सिक्तां स्वकान्तिमेव गावो दुग्धरूपेण क्षरन्तीत्यर्थः । सहस्रसामृषिमिति विशेषणद्वयं पयसः । सहस्रं सनोति सहस्रसास्तम् । चातुर्मास्यपशुसोमानां संभक्तारम् । पुंस्त्वमार्षम् । 'जनसनखनक्रमगमो विट्' (पा० ३ । २ । ६७ ) इति विट्प्रत्यये 'विड्वनोरनुनासिकस्यात्' ( पा० ६ । ४ । ४१ ) इत्याकारे वेर्लोपे सहस्रसा इति रूपम् । तथा ऋषिं द्रष्टारम् । गवि वर्तमानं द्रष्टृत्वं पयस्युपचर्यते। | ‘सा हैनानुदीक्ष्य हिंचकार' इत्युपक्रम्य 'ते देवा विदाञ्चक्रुरेष साम्नो हिङ्कारः' इत्यादिना ग्रन्थेन गोभिर्हिङ्कारो दृष्ट इति प्रत्यपादि । यद्वा सहस्रसामृषिमिति विभक्तिलिङ्गवचनव्यत्ययेन अह्रय इत्यस्य विशेषणद्वयम् । किंभूता अह्रयः । सहस्रसाः ऋषयः । पूर्ववदर्थो वा ॥ १६ ॥