पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अहनि आदित्यात्मा द्युलोकस्य मूर्धा भवति । अयमेव ककुत् । : ककुदिति महन्नामसु पठ्यते । तस्य कृतान्तलोपस्यैतद्रूपम् । अयमेव महानात्मा जगतः कारणमित्यर्थः । अयमेव पृथिव्याः पतिः । तापपाकप्रकाशादिभिरयमग्निः सर्वाः प्रजा अनुगृह्णातीत्ययमभिप्रायः । किंच अयमेव अपां रेतांसि जिन्वति। या एता द्युलोकात्पतन्ति तासामपां रेतांसि । रेतः कारणमुच्यते । तानि कारणानि जिन्वति । जिन्वतिः प्रीतिकर्मा । तर्पयति परिपुष्यतीति यावत् । आहुतिः परिणममाना वृष्टिं जनयतीत्येतद्दर्शयति । तथाच श्रुतिरग्निहोत्रं प्रकृत्य भवति 'ते वा एते आहुती हुते उत्क्रामतः' इत्यारभ्य 'यस्ततः पुत्रो जायते स लोकः' इत्येवमन्ता आहुतिपरिणामवादिनी ॥ १२॥
म० अयमग्निः अपां रेतांसि जिन्वति द्युलोकाद्वृष्टिरूपेण पतन्तीनामपां रेतांसि साराणि व्रीहियवादिरूपेण परिणतानि जिन्वति । जिन्वतिः प्रीतिकर्मा । प्रीणयति । वर्धयतीत्यर्थः । यद्वा अपां रेतांसि कारणानि जिन्वति पुष्णाति । आहुतिपरिणामेन वृष्टिं जनयतीत्यर्थः । ते वा एते आहुती उत्क्रामतः' इत्यादिश्रुतेः । किंभूतोऽग्निः । दिवो मूर्धा द्युलोकस्य शिरःसमानः । यथा शिरः शरीरस्योपरि वर्तते तथायमग्निरहनि स्वतेजसा आदित्ये प्रविष्टत्वादादित्यरूपेण द्युलोकस्योपरि वर्तते । तथा ककुत् । ककुच्छब्दो गोपृष्टोन्नतावयववाची तद्वदादित्यरूपेण सर्वोपरिस्थत्वात्ककुत्सदृशः । यद्वा ककुदमिति महन्नाम ( निघ० ३ । ३ । १९) तस्यान्तलोप आर्षः । महत् जगत्कारणमित्यर्थः । तथा पृथिव्याः पतिः पालकः। दाहपाकप्रकाशैर्भूलोकस्थानामुपकारकत्वात् ॥ १२ ॥

त्रयोदशी।
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।
उ॒भा दा॒तारा॑वि॒षाᳪर॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ।। १३ ।।
उ० उभा वामिन्द्राग्नीति । ऐन्द्री त्रिष्टुप् । हे इन्द्राग्नी उभा उभौ वां युवाम् आहुवध्यै । कध्यैप्रत्ययः आख्यातोत्तमपुरुषस्यैकवचनस्थाने । आह्वयामि । किमर्थमुभावाहयामि । राधसः सहमादयध्यै राधसो धनस्य हविर्लक्षणस्य । सह एकस्मिन्नेव प्रदाने । मादयध्यै । माद्यतिर्भोजनार्थः । सह भोजनाय । किमर्थं पुनरुभावाह्वयामि सहभोजनायेत्यत आह । उभा दाताराविषां रयीणाम् । उभावाहुतभुक्तौ सन्तौ दातारौ दानशीलौ इषामन्नानां रयीणां धनानां च भवथो युवाम् । उभावाजस्य सातये हुवे वाम् । यतश्चैवं युवां विशिष्टान्नधनदातारौ अतो भूयो भूय उभावपि वाजस्यान्नस्य सातये लब्धये हुवे आह्वयामि वां युवाम् ॥ १३ ॥
म० भरद्वाजदृष्टा ऐन्द्राग्नी त्रिष्टुप् द्व्यूना ॥ इन्द्रशब्देनात्राहवनीयः । तस्य यज्ञसाधकत्वरूपैश्वर्ययुक्तत्वात् । अग्निशब्देन गार्हपत्यः । अग्रे नीयत इत्यग्निरिति यास्कव्युत्पत्तेः । स हि प्रथममाधीयते । हे इन्द्राग्नी, वां युवामुभौ आहुवध्यै आह्वातुमिच्छामीति शेषः । ह्वयतेस्तुमर्थे कध्यैप्रत्ययः । किंच राधसः धनाद्धविर्लक्षणात् सह मादयध्यै युगपदेककर्मणि उभौ युवां मादयितुं हर्षयितुं वा इच्छामीति शेषः । 'मदी हर्षे' इति, ‘मद तृप्तौ' इति धातोर्वा णिजन्तात्तुमर्थे शध्यैप्रत्ययः। गुणः । यत उभौ युवामिषामन्नानां रयीणां धनानां दातारौ । अत उभौ वां युवां वाजस्यान्नस्य सातये दानाय हुवे आह्वयामि । उभा । उभशब्दस्य विभक्तेराकारः । सातये 'षणु दाने' अस्य धातोः 'ऊतियूति-' (पा० ३ । ३ । ९७ ) इति क्तिन्नन्तो निपातः । हुवे 'बहुलं छन्दसि' (पा० ६।१।३४) इति ह्वयतेः शपि संप्रसारणे उवङ् ॥ १३ ॥
 
चतुर्दशी।
अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ।। १४ ।।
उ० अयं ते योनिः । आग्नेय्यस्तिस्रोऽनुष्टुब्जगतीगायत्र्यः । आहवनीयोऽग्निरुच्यते । हे अग्ने आहवनीय, अयं गार्हपत्योऽग्निः ते तव योनिः उत्पत्तिस्थानम् । कथंभूतो योनिः । ऋत्वियः ऋतावृतौ प्राप्तः काले काले भवति । यतो जातो अरोचथाः । 'रुच दीप्तौ' । यस्मात्त्वं जातः सन् पूर्वमस्याधानेष्टिपशुचातुर्मास्यसोमेष्वङ्गभावमुपगतः सन् दीप्तवानसि तं जानन्नग्ने आरोह । तं तथाभूतं योनिं गार्हपत्याख्यं विद्वानारोह पुनरुद्धरणाय । अथानन्तरमेव नः अस्माकं वर्धय स्फीतं कुरु । रयिं धनम् । येन पुनरपि त्वां यक्ष्याम इत्यभिप्रायः ॥ १५॥
म० तिस्र आग्नेय्यः । आद्यानुष्टुप् देवश्रवोदेववातदृष्टा । हे अग्ने आहवनीय, ते तवायं गार्हपत्यो योनिः उत्पत्तिस्थानम् । किंभूतः । ऋत्वियः उत्पादनयोग्यः कालः ऋतुरुच्यते । ऋतुः प्राप्तोऽस्येति ऋत्वियः । 'छन्दसि घस्' (पा० ५। १ । १०६) इति ऋतुशब्दात्तस्य प्राप्तमित्यर्थे घस् । तस्य इयादेशः । सायंप्रातःकाले उत्पादनयोग्यो योनिः । यतो यस्मादृतुकालोपेताद्गार्हपत्याज्जात उत्पन्नस्त्वमरोचथाः कर्मकाले दीप्तोऽभूः । हे अग्ने, तं गार्हपत्यं जानन् स्वजनकमवगच्छन् आरोह पुनरुद्धरणाय कर्मान्ते प्रविश । अथानन्तरं नोऽस्मदर्थं रयिं धनं वर्धय पुनर्यागाय समृद्धं कुरु । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां वर्धयेति दीर्घः ॥ १४ ॥