पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( अनु० १ । ११) सप्त लिङ्गोक्तदेवता गायत्र्यः । आद्याः पञ्चैकपदाः । अग्निर्ज्योतिः सूर्यो ज्योतिः एते द्वे एकपदे गायत्र्यौ तक्षा मुनिरपश्यत् । परां ज्योतिः सूर्यः इतीमां चेलकस्य पुत्रो जीवल ऋषिरपश्यदित्यर्थः । अथ 'प्रदीप्तामभिजुहोत्यग्निर्ज्योतिरितीति' ( का० ४ । १४ । १४ ) या समित् प्रदीप्ता तामभिलक्ष्य जुहुयात् । अग्निर्ज्योतिषमिति काण्वशाखोक्तमन्त्रेण ( अध्या० ३ । २।१) समित्प्रक्षेपः । मन्त्रार्थस्तु । योऽयमग्निर्देवः स एव ज्योतिर्दृश्यमानज्योतिःस्वरूपम् । यच्चेदं दृश्यमानं ज्योतिः तदेवाग्निर्देवः । देवस्य ज्योतिषश्च कदाचिदप्यवियोगादेकत्वेन प्रतिपादनम् । स्वाहा ज्योतीरूपायाग्नये हविः प्रदत्तम् । अयं सायंकालीनोऽग्निहोत्रहोममन्त्रः । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्होममन्त्रः सायंहोममन्त्रवद्व्याख्येयः । सूर्यसंबन्धि तेजो रात्रावग्निं प्रविशतीति सायमग्निर्ज्योतिरिति मन्त्रो युक्तः । उदयकालेष्वग्निसंबन्धि ज्योतिः सूर्यं प्रविशति । तस्मात्प्रातः सूर्यो ज्योतिरिति मन्त्रः । 'अग्निमादित्यः सायं प्रविशति तस्मादग्निर्दूरान्नक्तं ददृशे । उभे हि तेजसी संपद्येते उद्यन्तं वादित्यमग्निरनु समारोहति । तस्माद्धूम एवाग्नेर्दिवा ददृशे' इति तित्तिरिश्रुतेः । 'अग्निर्वर्च इति ब्रह्मवर्चसकामस्येति' ( का० ४ । १४ । १५) ब्रह्मवर्चसकामस्तु अग्निर्वर्चः सूर्यो वर्च इति सायं प्रातश्च जुहुयात् । योऽग्निर्वर्चोनन्यभूतः यस्य तज्ज्योतिर्वर्चोनन्यभूतम् तस्मै सुहुतमस्तु । एवं 'सूर्यो वर्च इति ज्योतिः सूर्य इति वा प्रातरिति' (का० ४ । १५ । ११) प्रातर्होममन्त्रः ज्योतिः सूर्य इति । यत् ज्योतिः स सूर्य एव । यः सूर्यः स ज्योतिरेव । तस्मै स्वाहा ॥ ९ ॥

दशमी।
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या । जु॑षा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑ ।
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या ।जु॑षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑ ।। १० ।।
उ० अन्यो होममन्त्रे विकल्पः । सजूर्देवेन।अग्निरुच्यते । सजूर्देवेन सवित्रा । 'जुषी प्रीतिसेवनयोः' । योऽग्निः समानप्रीतिः देवेन सवित्रा समानप्रीतिश्च । रात्र्या इन्द्रवत्या इन्द्रसंयुक्तया स जुषाणः सेवमानः आस्वादयन् आहुतिं वेतु । वेतिरिह पानार्थः स्वादनार्थों वा । स्वाहा सुहुतं हविरेव भवतु । अथ प्रातः सूर्य उच्यते । सजूर्देवेन सवित्रा समानप्रीतिर्देवेन सवित्रा भूत्वा समानप्रीतिश्च उषसा । उषसाशब्देन सूर्यप्रभोच्यते इन्द्रसंयुक्तया भूत्वा जुषाणः सेवमानः स्वादयन् सूर्यः वेतु पिबतु । स्वाहेति व्याख्यातम् ॥ १० ॥
म० 'सजूरिति वेति' ( का० ४ । १४ । ९) जुहोतीत्यनुवर्तते । पूर्वोक्तमन्त्रैः सह सजूरित्यादिमन्त्रद्वयं विकल्पितम्। सजूर्देवेन । अग्निर्वेतु अस्मदीयं कर्म प्राप्नोतु । यद्वा वेतु आहुतिं भक्षयतु । 'वी प्रजननकान्त्यसनखादनेषु' इति धातोः प्रयोगः । किंभूतोऽग्निः । सवित्रा देवेन प्रेरकेण परमेश्वरेण सह सजूः । 'जुषी प्रीतिसेवनयोः' जोषणं जूः समाना जूः प्रीतिर्यस्यासौ सजूः । तथा इन्द्रवत्या रात्र्या इन्द्रेण देवेनोपेतया रात्रिदेवतया सजूः समानप्रीतिः । तथा जुषाणोऽस्मासु प्रीतियुक्तः । य उक्तगुणवानग्निर्दवस्तस्मै खाहा हूयमानमिदं द्रव्यं दत्तम् । प्रातःसूर्य उच्यते । अग्निमन्त्रवदयं सूर्यमन्त्रो व्याख्येयः । पूर्वार्धे रात्रिदेवतायाः स्थाने उषोदेवता योजनीया।१०।।
 

एकादशी।
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ।। ११ ।।
उ० अथ यजमानाग्न्युपस्थानम् । उपप्रयन्तो अध्वरं सुपोषः पोषैरित्यन्तं देवानामार्षम् । आये द्वे आग्नेय्यौ गायत्र्यौ । उपप्रयन्तः उपगच्छन्तः अध्वरं यज्ञम् । मन्त्रम् | आर्षम् । वोचेम ब्रूयाम । अग्नये आरे दूरेऽपि स्थिताय अस्मे च शृण्वते अस्माकं च मनं शृण्वते अस्मन्मत्रश्रवणादभिमुखायेत्यर्थः ॥ ११॥
म० 'सायमाहुत्या हुतायां यजमानोऽग्नी उपतिष्ठते | वात्सप्रेण न वा तिस्रस्त्रिरुपप्रयन्तो ११ अस्य प्रत्नां १६ परि ते ३६ चित्रावसविति १८ चेति' ( का० ४ । १२ । १-३) आहवनीयगार्हपत्यावग्नी उपप्रयन्तो अध्वरमित्यारभ्य सुपोषः पोषैरित्यन्तं ३७ बृहदुपस्थानं देवदृष्टम् । तत्राद्ये द्वे आग्नेय्यौ गायत्र्यौ क्रमेण गोतमविरूपाभ्यामपि दृष्टे । आहवनीयोपस्थानमन्त्रा आदौ । वयमनुष्ठातारोऽग्नयेग्न्यर्थं मन्त्रं मननेन त्राणकरं शब्दसमूहं वोचेम उच्याम । किंभूता वयम् । अध्वरं यज्ञमुपप्रयन्त उपगच्छन्तः । किंभूतायाग्नये । आरे दूरे अस्मे अस्माकं समीपे इति शेषः । शृण्वते दूरे समीपे चास्मदीयं वाक्यं श्रोतुमुद्युक्ताय । वोचेमेति वक्तेराशीर्लिङि परस्मैपदोत्तमबहुवचने परे ‘लिङ्ग्याशिष्यङ्' (पा० ३ । १ । ८६) इत्यङ् । यासुट् 'अतो येयः' (पा० ७ । २ । ८०) 'वच उम्' (पा० ७ । ४ । २०) 'छन्दस्युभयथा' (पा० ३ । ४ । ११७ ) इति सार्वधातुकत्वात् 'लिङः सलोपोऽनन्त्यस्य' (पा० ७ । २ । ७९ ) इति सलोपः यलोपः । वोचेम अस्मे 'सुपां सुलुग्' (पा० ७ । १ । ३९) इति शेआदेश आप्तः ॥११॥

द्वादशी।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पाᳪरेता॑ᳪसि जिन्वति ।। १२ ।।
उ० अग्निर्मूर्धा । परापररूपेण व्यवस्थितोऽस्यामृच्यग्निः स्तूयते । अभिनयेन दर्शयति । योयं 'अग्निर्मूर्धा दिवः'