पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्राणापानरूप इत्यर्थः । एवं वाय्वादित्याभ्यां स्वशक्तिभूताभ्यामिदं जगदनुगृह्य य एनमुपतिष्ठते तस्य किं करोतीत्याह । व्यख्यदिति । महिषोऽग्निः दिवं व्यख्यत् । द्युलोकं भोगस्थानमनुष्ठातृभ्यो विशेषेण प्रकाशितवान् प्रकाशयति च । महि माहात्म्यं यागकर्तृस्वरूपं सनोति ददाति स महिषः । 'अग्निर्वै महिषः स इदं जातो महान्' इति श्रुतेः । व्यख्यत् विपूर्वस्य ख्या प्रकथन इत्यस्य 'अस्यतिवक्तिख्यातिभ्योऽङ् (पा० ३ । १ । ५२ ) इति च्लेरङ् । आलोपः । 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति सर्वकालेषु लङ् । अपान इवाचरतीत्यपानती । क्विबन्तादपानशब्दाच्छतृप्रत्ययः । 'उगितश्च' (पा० ४ । १ । ६) इति ङीप् ॥ ७ ॥
 
अष्टमी।
त्रि॒ᳪशद्धाम॒ वि रा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभि॑: ।। ८ ।।
उ० त्रिᳪशद्धाम । त्रिंशत्सु धामस्विति विभक्तिव्यत्ययः। 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानि' इति स्थानान्यत्राभिप्रेतानि । त्रिंशच्चाहोरात्रे मुहूर्तास्त इह गृह्यन्ते । त्रिंशत्सु स्थानेषु मुहूर्ताख्येषु स्तुतिभिरग्निरयं स्तूयते । यज्ञे या वाग्विराजति शोभते स्तूयमाना सा वाक् । पतङ्गाय पतन्गच्छतीति पतङ्गोऽग्निः स ह्यरण्याः पतन् गार्हपत्यभावं गच्छति गार्हपत्यादाहवनीयमित्यादिना तादर्थ्ये चतुर्थी । पतङ्गार्थं धीयते अग्न्यर्थमुच्चार्यत इत्यर्थः । एतदुक्तं भवति । सर्वदेवतासंबन्धिनीभिः स्तुतिभिरग्निरेव स्तूयते। स हि सर्वात्मा।प्रतिवस्तोरह द्युभिः। वस्तोः द्युःभानुः इत्यहर्नामसु पठितम् । अह इति निपातो विनिग्रहार्थीयः । न केवलं या त्रिᳪशत्सु धामसु वाग्विराजति सा पतङ्गाय धीयते किं तर्हि प्रतिवस्तोः प्रत्यहं च या स्तुतिलक्षणा वाक् सा च द्युभिः अहोभिरुत्सवभूतैः । उत्सवाः यागपारायणादयः । स्तुतिलक्षणा वाक् सा च पतङ्गाय धीयते नान्यस्यै देवतायै ८
म० 'सुपां सुलुक्' (पा० ७ । १ । ३२ ) इत्यादिना त्रिंशच्छब्दाद्धामशब्दाच्च सुपो लुक् । 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति' (निरु० ९ । २८ । २९ )। अत्र धामशब्देन स्थानमुच्यते । अहोरात्रस्य त्रिंशन्मुहूर्ता धामशब्देनाभिप्रेताः । त्रिंशत्सु धामसु मुहूर्ताख्येषु स्थानेषु या वाक् विराजति शोभते स्तूयमाना सा वाक् पतङ्गाय धीयते अग्न्यर्थमुच्चार्यते । पतन् गच्छतीति पतङ्गः अग्निः । स ह्यरण्योः पतन् गार्हपत्यभावं गच्छति गार्हपत्यात्पतन्नाहवनीयतामित्यादि । सर्वदेवसंबन्धिनीभिः स्तुतिभिरग्निरेव सर्वात्मत्वात्स्तूयत इत्यर्थः । न केवलं त्रिंशत्सु धामसु या वाग्विराजति सैव पतङ्गाय धीयते । किं तर्हि प्रतिवस्तोः प्रत्यहं या स्तुतिलक्षणा वाक् या च द्युभिः अहोभिः यागपारायणाद्युत्सवभूतैः स्तुतिलक्षणा वाग्विराजति सा पतङ्गायैव धीयते नान्यस्यै देवतायै । 'वस्तोः द्युः भानुः' (निघ० १।९।१) - इत्यहर्नामसु पठितम् । अहेति निपातो विनिग्रहे । सर्वकालं सर्वा स्तुतिवागग्न्यर्थेवेत्यर्थः । यद्वास्या ऋचोऽयमर्थः । धाम स्थानं तच्च त्रिंशत् त्रिंशत्संख्याकं मासगतदिनभेदेन । तद्विराजति विशेषेण दीप्यते । आलस्यरहितानां यजमानानामनुष्ठानेनाहवनीयाद्यग्नीनां स्थानं मासगतेषु त्रिंशत्संख्याकेषु दिनेषु विशेषेण शोभत इत्यर्थः । वाक् स्तुतिरूपा पतङ्गायाग्नये धीयते उच्चार्यते । पतङ्गः पक्षी । तत्सदृशत्वादग्निः पतङ्गः। यथा कश्चित्पक्षी एकस्मात्स्थानात्स्थानान्तरं गच्छति तद्वदग्निरपि गार्हपत्यस्थानादाहवनीयस्थानं गच्छतीत्यग्नेः पक्षिसादृश्यम् । | अहेति निपातः पूर्वोक्तनिषेधार्थः । अस्या ऋचः पूर्वार्धेऽग्निमाहात्म्यज्ञापकं वाक्यद्वयेनार्थद्वयं यदुक्तं तावदेव न भवति | किंत्वन्यदप्युच्यत इत्यर्थः । वस्तोरित्यहर्नामसु पठितम् । प्रतिवस्तोः प्रत्यहं द्युभिः द्योतनैरयमग्निः स्तूयत इत्यध्याहारः । | द्युर्द्योतनं दीप्यतेः प्रयोगः ॥ ८ ॥
इत्यग्न्याधेयमन्त्राः ॥

नवमी।
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑ । सूर्यो॒ ज्योति॒र्ज्योति॒: सूर्य॒: स्वाहा॑ । अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । ज्योति॒: सूर्य॒: सूर्यो॒ ज्योति॒: स्वाहा॑ ।। ९ ।।
उ० अग्निर्ज्योतिः । अग्निहोत्रमन्त्राः प्रागुपप्रयन्त इत्येतस्मात् । प्रजापतेरार्षम् । अग्निर्वर्च इति द्वे तक्षापश्यत्परांजीवलश्चैलकिः । सप्त लिङ्गोक्तदेवता गायत्र्यः । पूर्वाः पञ्चैकपदाः । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा । 'नमःस्वस्तिस्वाहा-' इत्यादिना सूत्रेण प्रथमायाः स्थाने चतुर्थी । अग्निर्ज्योतिर्ज्योतिरग्निरिति मन्त्राभ्यासः । अभ्यासे भूयांसमर्थं मन्यन्ते | इत्यभिप्रायः । अथ कोर्थः । अग्नये ज्योतिषे स्वाहा सुहुतमस्तु । अथवा स्वस्याहानमस्तु । हानं हाः नहाः स्वस्य अहा अपरित्यागः । आत्मनो द्रव्यस्य वेति । अथवा योऽग्निर्ज्योतिर्ज्योतिश्चाग्निस्तस्मै स्वाहा । सूर्यो ज्योतिरित्यप्यनेनैव व्याख्यातम् । अथ ब्रह्मवर्चसकामस्य । अग्निर्वर्चः योऽग्निर्वर्चसा अनन्यभूतः यस्य च ज्योतिर्वर्चसा अनन्यभूतम् तद्रूपं तस्मै हुतमस्तु । अनेनैव सूर्यो वर्च इत्याख्यातः प्रातर्होममन्त्रः । ज्योतिः सूर्य इति व्याख्यातः सूर्यो ज्योतिरित्यनेनैव ॥ ९॥
म० अथाग्निहोत्रहोममन्त्राः अग्निर्ज्योतिरित्यारभ्य उपप्रयन्त ( ख० ११ ) इत्यतः प्राक् । तन्मन्त्राणां प्रजापतिर्ऋषिः सामान्यतः । यत्र ऋषिविशेषोऽभिधीयतेऽनुक्रमणीकारैस्तत्र द्वावप्यृषी । 'यथाग्निर्वर्चो द्वे तक्षापश्यत्परां जीवलश्चैलकिरिति'