पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'दारुभिर्ज्वलन्तमादधाति भूर्भुव इति संभारेषु' (का० ४।९।१) इति । भूर्भुवःस्वरिति पूर्ववदिति च' (४।९।१६) अस्यार्थः । आपो हिरण्यमूषाखूत्करः शर्करेति पञ्च संभारान्संपाद्य स्फ्येनोल्लिखितायां शुद्धायां भूमौ तान्संभारानवस्थाप्य तेषु शुष्ककाष्ठैर्ज्वलन्तमग्निं भूर्भुवःस्वरिति पञ्चाक्षराण्युच्चारयन्नादध्यात् । इदमाहवनीयाधानम् । एवमष्टाक्षरत्वादग्नेर्गायत्रत्वं श्रुत्योक्तम् । गायत्रीसहितस्याग्नेः प्रजापतिमुखादुत्पन्नत्वात् । अथ मन्त्रार्थः । एतेष्वाधानमन्त्रेषु भूरिति प्रथमा व्याहृतिः । भुव इति द्वितीया । स्वः इति तृतीया । एतास्तिस्रो व्याहृतयः पृथिव्यादिलोकत्रयनामानि । एतदुच्चारणपूर्वकं प्रजापतिना लोकत्रयस्य सृष्टत्वात् । अत एवाभिः स्थापयन् लोकत्रयमनेन स्मरेत् । एतासां व्याहृतीनां महिमा भूयादिति । भूर्भुवःस्वःशब्देन ब्रह्मक्षत्रविशो वा आत्मप्रजापशवो वा । सर्वे मद्वशगा भूयासुरिति प्रार्थयन्नग्नीनादध्यादित्यर्थः । 'इध्मपूर्वार्धं गृहीत्वा द्यौरिव भूम्नेत्याहेति' (का० ४ । ९ । १७)। देवा इज्यन्ते यस्यां पृथिव्यां सा देवयजनी तथाविधे हे पृथिवि, तस्यास्ते तव पृष्ठे देवयजनयोग्यायास्तवोपरि । अन्नादमन्नस्य हुतस्यात्तारमग्निं गार्हपत्यादिरूपमादधे स्थापयामि । किमर्थम् । अन्नाद्याय । अन्नं च तदाद्यं च तस्मै आद्यस्यान्नस्यात्तुं योग्यस्यान्नस्य सिद्ध्यर्थम् । आहिताग्न्यादित्वात्परनिपातः (पा० २ । २ । ३७) । यद्वान्नस्याद्याय भक्षणाय । यस्याः पृष्ठेऽग्निमाधाय भूम्ना द्यौरिव भूयासमिति शेषः । बहोर्भावो भूमा तेन । यथा द्यौनक्षत्रबहुत्वेन वह्वी एवं पुत्रपश्वादिभिर्बहुभूयासम् । वरिम्णा पृथिवीव भूयासम् । उरोर्भावो वरिमा तेन । यथा पृथिवी उरुत्वेन सर्वप्राणिनामाश्रयभूता एवमहं महत्त्वेन सर्वप्राणिनामाश्रयभूतो भूयासम् । यद्वा पूर्वार्धस्यायमर्थः । किंभूतमग्निम् । भूम्ना द्यौरिव वर्तमानम्। यथा द्यौर्नक्षत्रादिबहुत्वेन युक्ता तथा ज्वालाबहुत्वेन युक्तम् । किंच वरिम्णा पृथिवीव स्थितम् । यथा पृथिवी सर्वप्राण्याश्रयत्वरूपेण श्रेष्ठत्वेनोपेता तथा सर्ववस्तुशोधकत्वरूपेण श्रेष्ठत्वेनोपेतम् । अतएव क्वचिद्विधिवाक्ये अग्नये पावकायेत्याम्नातम् ॥ ५॥

षष्ठी।
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑: ।। ६ ।।
उ० आयं गौः पृश्निः । सार्पराज्ञ्य आर्षम् । गायत्रस्तृचः आहवनीयाग्न्युपस्थाने विनियुक्तः। अग्निः परापररूपेण स्तूयते। आयं गौः पृश्निरक्रमीत् । आक्रमीत् आक्रमते ऐश्वर्यरूपेणायमग्निः गौः गन्ता। सर्वासु तासु तासु क्रियासु पृश्निर्नानारूपः असदन्मातरं पुरः इमं लोकमग्निरूपेणानुगृह्य ततः प्रातरादित्यात्मना सीदति मातरं पृथिवीं पुरः पुरस्तात्प्राच्यां दिशि । किंच पितरं च प्रयन्त्स्वः पितरं द्युलोकं च प्रयन् गच्छन् सीदतीत्यनुवर्तते । स्वः स्वर्गे आदित्यः ॥ ६ ॥
म० 'आयं गौरिति चोपतिष्ठते सार्पराज्ञीभिर्दक्षिणाग्निमादधातीति' (का० ४ । ९ । १८-१९) । आयं गौरित्यादीनां तिसृणामृचां सार्पराज्ञीति नामधेयम् । सर्पराज्ञी कद्रूः पृथिव्यभिमानिनी । तया दृष्टत्वात् ताभिर्ऋग्भिराहवनीयमुपतिष्ठते । ततो दक्षिणाग्निमादध्यादिति सूत्रार्थः । गायत्रस्तृचः । अग्निः परावररूपेण स्तूयते । अयं दृश्यमानोऽग्निः आ अक्रमीत् सर्वत आहवनीयगार्हपत्यदक्षिणाग्निस्थानेषु सर्वतः क्रमणं पादविक्षेपं कृतवान् । किंभूतोऽग्निः । गच्छतीति गौः यज्ञनिष्पत्तये तत्तद्यजमानगृहेषु गन्ता । 'गमेर्डोप्रत्ययः' (उ० २ । ६६)। तथा पृश्निः चित्रवर्णः । लोहितशुक्लादिबहुविधज्वालोपेतः । आक्रमणमेवाह । पुरः प्राच्यां दिशि मातरं पृथिवीमसदत् आसीदत् आहवनीयरूपेण प्राप्तवान् । तथा स्वः प्रयन् आदित्यरूपेण स्वर्गे संचरन् पितरं च द्युलोकमपि असदत्प्राप्तवान् । स्वःशब्देन सूर्यः ( निघ० १ । ४ । १)। द्युलोकभूलोकयोर्मातापितृत्वमन्यत्रापि श्रूयते । 'द्यौः पिता पृथिवी माता' इति ॥ ६ ॥

सप्तमी।
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णादपा॑न॒ती । व्य॑ख्यन्महि॒षो दिव॑म् ।। ७ ।।
उ० एवमादित्यरूपेणाग्निं स्तुत्वा अथेदानीं वायुरूपेण स्तौति । अन्तश्चरति रोचनास्य । द्यावापृथिव्योरन्तरं चरति अग्नेर्वाय्वाख्या शक्तिः। 'अन्तरिक्षेऽयं तिर्यङ् वायुः पवते' इति श्रुतेः । रोचना । 'रुच दीप्तौ' । दीपना अस्य अग्नेः । किं कुर्वाणा चरति । प्राणादपानती । 'अन प्राणने' । सर्वप्राणिषु प्राणादनन्तरम् अपानती चरति अपानादनन्तरं प्राणती चरतीति सामर्थ्यादयमर्थो लभ्यते । एवं वाय्वादित्याभ्यां स्वशक्तिभ्यामिदं जगदनुगृह्याथ य एनामेवमुपतिष्ठति तस्य किं करोतीत्याह । व्यख्यन्महिषो दिवम् । विविधं तस्य पुरुषस्योपभोगार्थमवलोकयति पश्यति भोग्यत्वेन दिवं द्युलोकम् । महिषः । 'अग्निर्वै महिषः स हीदं जातो महान्' इति श्रुतिः ॥७॥
म० एवमादित्यरूपेणाग्निं स्तुत्वा वायुरूपेण स्तौति । अस्याग्ने रोचना । 'रुच दीप्तौ' दीप्तिः काचिच्छक्तिः वाय्वाख्या। अन्तश्चरति द्यावापृथिव्योर्मध्ये शरीरमध्ये चरति । 'अन्तरिक्षेऽयं तिर्यङ्वायुः पवते' इति श्रुतिः । किं कुर्वती । प्राणादपानती सर्वशरीरेषु प्राणव्यापारादनन्तरमपानव्यापारं कुर्वती। अपानादनन्तरं प्राणतीत्यप्यर्थो लभ्यते सामर्थ्यात् प्राणापानयोर्वायुविशेषयोः प्रेरिकेत्यर्थः । सति हि जठराग्नौ जीवनहेतोरौष्ण्यस्य शरीरे सद्भावात्प्राणापानौ प्रवर्तते । तस्मादग्निः