पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वाके वायोधसानुवाके च प्रतीकोक्तः आदिमात्रेणोक्तः सकलो ज्ञेयः । अग्निमद्य एकाधिका प्राजापत्या जगती । सूपस्थाः ब्राह्मी उष्णिक् । त्वामद्य एकाधिका विकृतिः । व्याख्यातः प्रैषः ( २१ । ५९-६१ ) ॥ २३ ॥

चतुर्विंशी।
होता॑ यक्षत्समिधा॒नं म॒हद्यश॒: सुस॑मिद्धं॒ वरे॑ण्यम॒ग्निमिन्द्रं॑ वयो॒धस॑म् ।
गा॒य॒त्रीं छन्द॑ इन्द्रि॒यं त्र्यविं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २४ ।।
उ० होता यक्षत् । इन्द्राय वयोधसे । पशुसंस्कारश्चैन्द्रः तत्रैते प्रैषाः । अतः प्रयाजदेवताऽविरोधेन यथैन्द्राः संपद्यन्ते तथा व्याख्यायन्ते । दैव्यो होता यजतु समिधानमग्निम् । महच्च यशः अग्निसंबन्धि । सुसमिद्धं चाग्निमेव । वरेण्यं वरणीयं चाग्निम् । इन्द्रं च वयोधसम् वयः आधातव्यमस्मिन्निति वयोधास्तं वयोधसम् । वयसः आयुषो वा धारयितारम् । किं कुर्वन् दैव्यो होता यजतु । गायत्रीं च छन्दः इन्द्रियं वीर्यं च त्र्यविं च गां वयश्च आयुः दधत् धारयन् । इन्द्रे इत्यध्याहारः प्रकरणात् । प्रयाजदेवता च इन्द्रसहिता वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २४ ॥
म० एकादश वायोधसे पशौ प्रयाजप्रैषाः समित्तनूनपादाद्याप्रीदेवताः । अतिजगती । दैव्यो होता अग्निं वयोधसमिन्द्रं च यजतु । वयः आयुर्दधाति वयोधाः तम् आयुषो धातारं धारयितारं वा । कीदृशमग्निम् । समिधानं दीप्यमानम् । महद्यशः । सुपां सुलुगिति तृतीयैकवचनस्य सुआदेशः । महता यशसा समिद्धं दीप्तम् । वरेण्यं वरणीयम् । किं कुर्वन् यजतु । गायत्रीं छन्दः इन्द्रियं वीर्यम् त्र्यविं गाम् वयः आयुश्च दधत् स्थापयन् इन्द्रे इति शेषः । षण्मासात्मकः कालोऽविः त्रयोऽवयो यस्याः सा त्र्यविः सार्धसंवत्सरा गौः ताम् । प्रयाजदेवतेन्द्रयुता आज्यं वेतु । हे मनुष्यहोतः, त्वमपि यज । एवमग्रेऽपि ॥ २४ ॥

पञ्चविंशी।
होता॑ यक्ष॒त्तनू॒नपा॑तमु॒द्भिदं॒ यं गर्भ॒मदि॑तिर्द॒धे शुचि॒मिन्द्रं॑ वयो॒धस॑म् ।
उ॒ष्णिहं॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाहं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २५ ।।
उ० होता यक्षत्तनूनपातम् । दैव्योहोता यजतु तनूनपातम् । उद्भिदम् उद्भेत्तारं यज्ञफलानाम् । यं च गर्भम् अदितिः दधे धारितवती । शुचिं पवित्रम् । इन्द्रं च यजतु वयोधसम् । वय आयुर्धीयते यस्मिन् तं वा वयसो धारयितारं वा । किंकुर्वन्दैव्यो होता यजतु । उष्णिहं च छन्दः इन्द्रियं वीर्यं च दित्यवाहं च गां वय आयुश्च इन्द्रे दधत् धारयन् । प्रयाजदेवता च इन्द्रसहिता वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २५ ॥
म० एकाधिका जगती । होता तनूनपातं प्रयाजदेवं वयोधसमिन्द्रं च यजतु । अदितिर्यं गर्भं दधे तं इन्द्रमित्यर्थः । कीदृशं तनूनपातम् । उद्भिदम् उद्भिनत्ति प्रकटयति फलमित्युद्भित् तं । यज्ञफलानामुद्भेत्तारम् । शुचिं पवित्रम् । किं कुर्वन् । उष्णिहं छन्दः इन्द्रियम् दित्यवाहं गाम् वयश्च इन्द्रे दधत् । द्विवर्षा गौर्दित्यवाट् । स सेन्द्रो वेतु ॥ २५ ॥

षड़्विंशी।
होता॑ यक्षदी॒डेन्य॑मीडि॒तं वृ॑त्र॒हन्त॑म॒मिडा॑भि॒रीड्यँ॒ सह॒: सोम॒मिन्द्रँ॑ वयो॒धस॑म् ।
अ॒नु॒ष्टुभं॒ छन्द॑ इन्द्रि॒यं पञ्चा॑विं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २६ ।।
उ० होता यक्षदीडेन्यम् । दैव्यो होता यजतु । ईडेन्यं स्तुत्यम् । ईडतेरेन्यप्रत्ययः । ईडितम् ऋषिभिः स्तुतम् । वृत्रहन्तमम् अतिशयेन वृत्रस्य हन्तारम् । इडाभिः प्रयाजदेवताभिः । ईड्यं स्तुत्यम् । इन्द्रविशेषणान्येतानि । सहः सोमं च यजतु । सहःसोमशब्दौ नैघण्टुकौ इन्द्रसंबन्धात्पठ्येते । इन्द्रं च वयोधसं वयस आयुषो धारयितारम् । किं कुर्वन्यजतु । अनुष्टुभं च छन्दः इन्द्रियम् वीर्यं च पञ्चाविं च गां वय आयुश्च इन्द्रे दधत् धारयन् । प्रयाजदेवता च इन्द्रसहिता वेतु पिबतु आज्यस्य स्वमंशम् । त्वमपि हे मनुष्यहोतः, यज ॥ २६ ॥
म० व्यूहेन शक्वरी । होता इडाभिः प्रयाजदेवताभिः सह वयोधसमिन्द्रं यजतु । कीदृशमिन्द्रम् । ईडेन्यम् ईडितुं योग्य ईडेन्यः ईडेरेन्यप्रत्ययः । ईडितमृषिभिः स्तुतम् । वृत्रहन्तमम् 'नाद्धस्य' (पा० ८।२।१७ ) इति नुडागमः । ईड्यं | सर्वैः स्तुत्यम् । सहः सोमं सहसा बलेन सोमवदाह्लादकम् । किं कुर्वन् । अनुष्टुभं छन्दः इन्द्रियम् पञ्चाविं गाम् वयश्चेन्द्रे दधत् । पञ्चावयो यस्याः सा सार्धद्विवर्षा गौः । स वेतु ॥ २६ ॥

सप्तविंशी। ।
होता॑ यक्षत्सुब॒र्हिषं॑ पूष॒ण्वन्त॒मम॑र्त्य॒ᳪ सीद॑न्तं ब॒र्हिषि॑ प्रि॒येऽमृतेन्द्रं॑ वयो॒धस॑म् ।
बृ॒ह॒तीं छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सं गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २७ ।।
उ० होता यक्षत् । दैव्यो होता यजतु । सुबर्हिषं शोभनबर्हिष्कम् । पूषण्वन्तं पूष्णा संयुक्तम् अमर्त्यममरणधर्माणम् । सीदन्तं बर्हिषि प्रिये अवस्थानं कुर्वन्तं बर्हिष्यभिरुचिते । अमृते इन्द्रं वयोधसम् । किं कुर्वन् यजतु । बृहतीं