पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शतेन शितिपृष्ठानामाहितः । शतगुणो हि अग्निराधेयस्तदभिप्रायमेतत् । सहस्रेण गवां प्रवर्तते । सहस्रेण गवां यष्टव्यमित्युक्तेः। यस्य चास्य मित्रावरुणा इत् मित्रावरुणावेव होत्रमर्हतः। बृहस्पतिश्च स्तोत्रमौद्गात्रमर्हति । अश्विनौ च आध्वर्यवमर्हतः । स वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः यज ॥ १९ ॥
म० कृतिः । नरा अस्मिन्नासीनाः शंसन्ति नराशंसः यज्ञो देवः इन्द्रं देवमवर्धयत्। कीदृशो नराशंसः। इन्दतीतीन्द्रः ऐश्वर्यवान् । त्रिवरूथः वरूथं गृहम् । त्रीणि वरूथानि सदोहविर्धानाग्नीध्राणि यस्य सः। त्रिबन्धुरः त्रीणि बन्धुराणि ऋग्यजुःसामलक्षणानि बन्धनानि यस्य सः । नराशंसः शितिपृष्ठानां शतेनाहितः सन् सहस्रेण गोसहस्रेण प्रवर्तते । शिति श्यामं पृष्ठं यासां ताः शितिपृष्ठा गावः । मित्रावरुणा इत् मित्रावरुणावेवास्य नराशंसस्य होत्रमर्हतः होतृकर्मणि योग्यौ भवतः । बृहस्पतिः स्तोत्रमौद्गात्रमर्हति । अश्विना अश्विनौ अस्याध्वर्यवमर्हतः । स वेतु ॥ १९ ॥

विंशी।
दे॒वो देवै॒र्वन॒स्पति॒र्हिर॑ण्यपर्णो॒ मधु॑शाखः सुपिप्प॒लो दे॒वमिन्द्र॑मवर्धयत् ।
दिव॒मग्रे॑णास्पृक्ष॒दान्तरि॑क्षं पृथि॒वीम॑दृᳪहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। २० ।।
उ० देवो देवैः । यूप उच्यते । यो देवो वनस्पतिः देवैरेव हिरण्यपर्णः देवाः सौवर्णानि पर्णानि यस्य स तथोक्तः । मधुशाखः मधुरसवती शाखा यस्य स मधुशाखः देवैरेव । सुपिप्पलः साधुफलो देवैरेव देवमिन्द्रमवर्धयत् । यश्च दिवम् अग्रेण अस्पृक्षत् स्पृशति । आ अन्तरिक्षमस्पृक्षदित्यनुषङ्गः । मध्येनेति शेषः साकाङ्क्षत्वात् । पृथिवीमदृंहीत् पृथिवीम् उपरेणेति शेषः । अदृंहीत् दृढामकरोत् । स वनस्पतिः वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः, यज ॥ २० ॥
म० अतिशक्वरी । यूप उच्यते । वनस्पतिर्देवो देवैः सह इन्द्रमवर्धयत् । कीदृशः । हिरण्यपर्णः हिरण्यमयानि पर्णानि यस्य । मधुशाखः मधुर्मधुरा रसवती शाखा यस्य । सुपिप्पलः शोभनानि पिप्पलानि फलानि यस्य । यो वनस्पतिरग्रेण दिवं स्वर्गमस्पृक्षत् स्पृशति । स्पृशेर्लुङि 'शल इगुपधादनिटः क्सः' , (पा० ३ । १ । ४५) इति क्सप्रत्ययः। अन्तरिक्षं मध्येनेति शेषः । आ स्पृशति । पृथिवीमुपरेणेति शेषः । अदृंहीत् दृढामकरोत् । स वेतु ॥ २० ॥

एकविंशी।
दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्र॑मवर्धयत् ।
स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम॒न्या ब॒र्हीᳪष्य॒भ्य॒भूद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। २१ ।।
उ० देवं बर्हिः । यद्देवं बर्हिः । वारितीनाम् वाः उदकम् 'इण् गतौ' वारुदकमितिः स्थानं यासां ता वारितय ओषधयः तासां मध्ये देवं वरिष्ठम् । यद्वा वार्य इति दर्भरूपेणावस्थानं येषां ते वारितयः दर्भाः । अत्र श्रुतिः 'तदेताभ्यामुत्पुनाति' इत्युपक्रम्य 'तस्मादुहैका आपो बीभत्सांचक्रिरे' इति अभिधीयते । त इमे दर्भा इत्याह । वारितीनां दर्भाणां संघातभूतम् देवमिन्द्रमवर्धयत् । यच्च स्वासस्थम् साधु आस्थेयं देवमनुष्यैः । यत्र च इन्द्रेण आसन्नम् आस्थितम् । यच्च अन्या अन्यानि हवींषि अभ्यभूत् अभिभवतीति कालव्यत्ययः । तत् वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः, यज ॥२१॥
म० आर्षी त्रिष्टुप् । बर्हिः अनुयाजदेव इन्द्रं देवमवधर्यत् । अन्या अन्यानि बर्हींष्यभ्यभूत् अभिभवति तद्वेतु । कीदृशं बर्हिः । वारितीनामोषधीनां मध्ये देवं दीप्यमानं । श्रेष्ठम् । वारि जले इतिर्गतिर्यासां ता वारितयो जलाश्रिता ओषधयः । स्वासस्थं सुखेनासनेन स्थीयते यत्र तत्स्वासस्थम् । इन्द्रेणासन्नमाश्रितम् ॥ २१॥

द्वाविंशी।
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्र॑मवर्धयत् ।
स्वि॑ष्टं कु॒र्वन्त्स्वि॑ष्ट॒कृत्स्वि॑ष्टम॒द्य क॑रोतु नो वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। २२ ।।
उ० देवो अग्निः । स्विष्टकृत् शोभनमिष्टं कर्तव्यमिति | यस्यायमधिकारः । देवं च इन्द्रमवर्धयत् । यश्च स्विष्टं कुर्वन् स्विष्टकृतनामभूतः सः। स्विष्टं साध्विष्टम् अद्य अस्मिन्कर्मणि करोतु नोऽस्माकम् । अपिच वसुवननाय वसुधानाय च वेतु पिबतु । त्वमपि हे होतः, यज ॥ २२॥ ।
म०. आर्षी त्रिष्टुप् । स्विष्टकृद्देवः अग्निः इन्द्रं देवमवर्धयत् स नोऽस्माकं स्विष्टं साधु इष्टं करोतु वेतु च । कीदृशः । स्विष्टं कुर्वन्सन् स्विष्टकृत् नाम शोभनमिष्टं कर्तव्यमिति तस्याधिकारः ॥ २२ ॥

त्रयोविंशी।
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मान॒: पच॒न्पक्ती॒: पच॑न्पुरो॒डाशं॑ ब॒ध्नन्निन्द्रा॑य॒ छाग॑म् ।
सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य॒ छागे॑न । अघ॒त्तं मे॑द॒स्तः प्रति॑ पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒डाशे॑न ।
त्वाम॒द्य ऋ॑षे ।। २३ ।।
उ० अग्निमद्य । व्याख्यातः प्रैषः । ऐन्द्र एकः पशुरिति विशेषः ॥ २३ ॥
म०. त्वामद्य अयं प्रतीकः उभयत्रापि । ऐन्द्रपशुसंबन्धी । सूक्तवाकप्रैषः । त्वामद्य ऋषे इत्ययं मन्त्र उभयत्रापि ऐन्द्रानु