पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० देवी ऊर्जाहुती। अधस्तनप्रैषोक्त एव देवताविकल्पः। ये देव्यौ ऊर्जाहुती ऊर्जाह्वान्यौ दुघे दोग्ध्र्यौ अन्योन्यम् । 'अनयोरनुसंभोगमिमाः सर्वाः प्रजाः अनुसंभुञ्जत' इति श्रुतिः । सुदुघे साधुदोहने । ये च पयसा इन्द्रम् अवर्धतामवर्धयताम् । ययोश्च इपमन्नम् उर्जं च तदुपसेचनं दध्यादि अन्या एका आवक्षत् आवहति यजमानाय । सग्धिं सपीतिमन्या अन्या अपरा च सग्धिं समानां जग्धिं पुत्रपौत्रादिभिः । सपीतिं समानां पीतिं पानं च आवक्षत् आवहति यजमानाय नवेन पूर्वं दयमाने पुराणेन नवमधाताम् । ये च देव्यौ नवेन ऊर्जा धान्येन पूर्वं पुरातनम् ऊर्जं धान्यम् । दयमाने दयतिः रूपदयाकर्मा । रक्षितवत्यौ सत्यौ अधाताम् । पुराणेन च ऊर्जा धान्येन नवमूर्जं धान्यम् अधाताम् धारितवत्यौ । ये च ऊर्जाहुती ऊर्जयमाने स्वीकुर्वाणे। वसूनि वरणीयानि यजमानाय । शिक्षिते विदितवेद्ये च वसुवननाय वसुधानाय च वीतां पिबताम् । त्वमपि हे होतः, यज ॥ १६ ॥
म० विकृतिः । अधस्तनमन्त्रोक्तो देवताविकल्पः । देवी देव्यौ पूर्वप्रेषोक्ते पयसा दुग्धेनेन्द्रमवर्धताम् अवर्धयताम् 'छन्दस्युभयथा' (पा० ३।४।११७ ) इति शप् आर्धधातुकत्वाण्णिचो लोपः । कीदृश्यौ । ऊर्जाहुती ऊर्जा बलं तद्युक्ता आहुतिराह्वानं ययोस्ते । दुघे दुग्धस्ते दुघे 'दुहः कव्घश्च ' ( पा० ३ । २ । ७० ) इति कप् घादेशश्च । दोग्ध्र्यौ 'अनयोरनु संभोगमिमाः सर्वाः प्रजा अनुसंभुञ्जतः' इति श्रुतेः । सुदुघे साधुदोहने । तयोर्मध्ये अन्या एका इषमन्नमूर्जं दध्यादि च वक्षत् वहति यजमानाय । अन्या द्वितीया सग्धिं सपीतिं च वक्षत् समाना ग्धिर्भोजनं सग्धिः ताम् । समाना पीतिः सपीतिः पुत्रादिभिः सह पानभोजने वहति । ये देव्यौ नवेनान्नेन पूर्वं पुराणमन्नमधाताम् पुराणेनान्नेन नवमन्नमधाताम् । यजमानाय वार्याणि वसु वसूनि चाधाताम् । अन्नं धनं चाक्षयं कृतवत्यावित्यर्थः । कीदृश्यौ । दयमाने उक्षन्त्यौ कृपयन्त्यौ वा । ऊर्जाहुती ऊर्जायुता आहुतिर्होमो ययोस्ते । ऊर्ज रसमूर्जयमाने वर्धयन्त्या । शिक्षिते तत्त्वज्ञे । ते वीतां पिबताम् ॥ १६ ॥

सप्तदशी।
दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्र॑मवर्धताम् ।
ह॒ताघ॑शᳪसा॒वाभा॑र्ष्टां॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒तौ व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। १७ ।।
उ० देवा दैव्या । यौ देवौ दैव्यौ होतारौ । एकः पार्थिवोऽग्निः एकश्च मध्यमः । देवमिन्द्रमवर्धताम् । यौ च हताघशंसावभार्ष्टां वसुवार्याणि यजमानाय । शिक्षितौ अघं पापं ये शंसन्ति ते अघशंसाः। हता अघशंसा याभ्यां तौ हताघशंसौ । आभार्ष्टाम् आहार्ष्टाम् हृतवन्तौ वसूनि वरणीयानि यजमानाय । शिक्षितौ अवगतार्थौ तौ च वसुवननाय वसुधानाय च वीतां पिबतां । त्वमपि हे होतः, यज ॥ १७ ॥
म० अतिजगती। एकः पार्थिवोऽग्निः अन्यो मध्यमः । देवा देवौ दैव्या दैव्यौ होतारौ • इन्द्रं देवमवर्धताम् । यजमानाय | वार्याणि वसु वसूनि च आभार्ष्टाम् आहार्ष्टामाहृतवन्तौ । आङ्पूर्वाद्धरतेर्लुङ् हस्य भः । कीदृशौ । हताघशंसौ अघं पापं शंसतीच्छति अघशंसः पापी हतोऽघशंसो याभ्यां तौ पापिनिवर्तको । तौ वीताम् ॥ १७ ॥

अष्टादशी।
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॒मिन्द्र॑मवर्धयन् ।
अस्पृ॑क्ष॒द्भार॑ती॒ दिव॑ᳪ रु॒द्रैर्य॒ज्ञᳪ सर॑स्व॒तीडा॑ वसु॑मती गृ॒हान् व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। १८ ।।
उ०. देवीस्तिस्रः । आदरार्थोऽभ्यासः। पतिं देवानां पालयितारम् इन्द्रमवर्धयन् । तासां मध्ये भारती भरत आदित्यः तस्य इयं भारती दिवम् अक्षत् स्पृशति । रुद्रैर्यज्ञं सरस्वती। सरस्वती च रुद्रैः सहिता यज्ञम् अस्पृक्षत् । इडा च वसुमती वसुभिः तद्वती गृहान् अस्पृक्षत् । गृहशब्देनात्रायं लोकोऽभिधीयते लक्षणया पृथिवीस्थानत्वादिडायाः । ताः वसुवननाय वसुधानाय च व्यन्तु पिबन्तु । त्वमपि हे होतः, यज ॥ १८॥
म० अति जगती । तिस्रो देवीः देव्यः पतिं पालकमिन्द्रमवर्धयन् । आदरार्थ पुनरुक्तिः । ता एवाह । भारती दिवं स्वर्गमस्पृक्षत् स्पृशति । भरतो रविस्तत्कान्तिर्भारती। सरस्वती रुद्रैः युता यज्ञमस्पृक्षत् । वसुमती वसुयुता इडा गृहानस्पृक्षत् । गृहशब्देन भूलोकः। ता व्यन्तु ॥ १८ ॥

एकोनविंशी। ।
दे॒व इन्द्रो॒ नरा॒शᳪस॑स्त्रिवरू॒थस्त्रि॑वन्धु॒रो दे॒वमिन्द्र॑मवर्धयत् ।
श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः स॒हस्रे॑ण॒ प्र व॑र्तते मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑: स्तो॒त्रम॒श्विनाध्व॑र्यवं वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। १९ ।।
उ० देव इन्द्रः । यज्ञो देवता देवः दानादिगुणयुक्तः यज्ञः इन्द्रः । 'इदि परमैश्वर्ये' परमेश्वरः । नराशंसः नरा अस्मिन्नासीनाः शंसन्तीति नराशंसः । त्रिवरूथः वरूथ शब्दो गृहवचनः । त्रीणि वरूथानि गृहाणि सदोहविर्धानाग्नीध्राणि यस्य स त्रिवरूथः। त्रिवन्धुरः । वन्धुरशब्दः सारथिस्थानवचनः । त्रीणि वन्धुराणि सारथिस्थानानि ऋग्यजुःसामलक्षणानि यस्य स त्रिवन्धुरः । देवमिन्द्रमवर्धयत् । यश्च