पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशी ।
दे॒वीर्द्वार॒ इन्द्र॑ᳪ सङ्घा॒ते वी॒ड्वीर्याम॑न्नवर्धयन् ।
आ व॒त्सेन॒ तरु॑णेन कुमा॒रेण॑ च मीव॒तापार्वा॑णᳪ रे॒णुक॑काटं नुदन्तां वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ।। १३ ।।
उ० देवीर्द्वारः यज्ञगृहद्वार उच्यन्ते । या देव्यो यज्ञगृहद्वारः इन्द्रं यामन् यामनि कर्मप्राप्तौ सत्याम् अवर्धयन् । याश्च संघाते देहलीकपाटपुटार्गलादिसंघाते सति वीड्वीः दृढाः । नहि संघातमन्तरेण तासां दृढत्वमुपपद्यते । ता इदानीम् आ आभिमुख्येन स्थित्वा वत्सेन तरुणेन कर्मक्षमेण कुमारेण च मीवता 'मीङ् हिंसायाम्' शत्रूणां हिंसावता अपर्वाणम् रेणुककाटम् समासपदमेतत् । नुदन्ताम् । इतिपदानि अपनुदन्तामपनयन्तु । वत्सैः पुत्रैश्च अर्वते गम्यते पत्यते यस्मिन्नित्यर्वा तमर्वाणम् रेणुककाटम् । काटः कूपः । ककाराभ्यासः कुत्सार्थः रेणुपूर्णः कुत्सितः कूपः रेणुककाटः तं रेणुककाटम् । उपलक्षणमेतत् यज्ञभ्रंशकराणि कूपादीनि यज्ञमार्गादपनयन्त्वित्यर्थः । वसुवननाय वसुनिधानाय च व्यन्तु पिबन्तु । त्वमपि हे होतः, यज ॥ १३॥
म० एकाधिका शक्वरी । यज्ञगृहद्वारोऽत्र देवताः । यच्छन्ति नियता भवन्ति ऋत्विजो यत्रेति याम कर्म । यमेरनिण्प्रत्ययो वृद्धिश्च सप्तम्या लुक् । यामनि कर्मणि या द्वारो देव्यः इन्द्रमवर्धयन् । कीदृश्यो द्वारः । संघाते देहलीकपाटद्वारशाखार्गलादिसमूहे सति वीड्वी वीड्व्यः दृढाः । संघातं विना न द्वारां दृढत्वं स्यात् । ता द्वारो रेणुककाटमपनुदन्ताम् । काटः कूपः कुत्सितः काटः ककाटः । रेणुभिः कृत्वा ककाटो रेणुककाटः तम् अपनुदन्तां निवर्तयन्तु । किमित्यतो विशेषणे । कीदृशं कूपम् । वत्सेन गोपुत्रेण तरुणेन कुमारेण च आ आभिमुख्येन अर्वाणम् अर्यते गम्यते यत्रेत्यर्वा तम् 'ऋ गतौ' इत्यतो 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५ ) इति वनिप्प्रत्ययः। कीदृशेन । मीवता 'मीञ् हिंसायाम्' मयनं मीः क्विप् । मीरस्यास्ति मीवान् तेन हिंसाशीलेन । हिंसाशीलाश्चञ्चला उच्चलन्तो वत्साः कुमाराश्च यत्र पतन्ति तं कूपमपनुदेत्यर्थः । उपलक्षणमेतत् । यज्ञप्रजाविघ्नकराणि कूपादीनि मार्गादपनयन्त्वित्याशयः । ता व्यन्तु च ॥ १३ ॥

चतुर्दशी।
दे॒वी उ॒षासा॒नक्तेन्द्रं॑ य॒ज्ञे प्र॑य॒त्य॒ह्वेताम् ।
दैवी॒र्विश॒: प्राया॑सिष्टा॒ᳪ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। १४ ।।
उ० देवी उषासानक्ता ये देव्यौ उषाश्च नक्ता रात्रिश्च इन्द्रं यज्ञे प्रयति गच्छति वर्तमाने अह्वेताम् आहूतवत्यौ वर्धनाय । ये च देव्यौ दैवीर्विशः वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्यादिकाः प्रति । अयासिष्टाम् गतवत्यौ 'स्वेन संभोगेन । यद्वा 'दैव्यौ वा एता विशो यत्पशवः' इति श्रुतिः । दैवीर्विशः यज्ञाङ्गभूतान्पशून्प्रति अयासिष्टां गतवत्यौ । अनुयाजेषु हि तयोर्भाग इत्यभिप्रायः । ये च सुप्रीते साधुप्रीते । ये च सुधिते साधुहिते । वसुवननाय वसुनिधानाय च वीतां पिबतां । त्वमपि हे होतः, यज ॥१४॥ ..
म० ब्राह्मी उष्णिक् । उषाश्च नक्ता च उषासानक्ता । समासे उषःशब्दस्य उषासादेशः । अहोरात्राधिष्ठात्र्यौ देवी देव्यौ यज्ञे प्रयति प्रवर्तमाने सति इन्द्रमह्वेतामाहूतवत्यौ । प्रैति प्रयन् प्रपूर्वादिणः शतृ । ये च दैवीः देवसंबन्धिनीर्विशः प्रजाः प्रायसिष्टां प्रगतवत्यौ । यातेर्लुङ् । वसवो रुद्रा आदित्या : विश्वेदेवा मरुत इत्यादयो देवप्रजाः । ते च वीतां पिबताम् । । कीदृश्यौ । सुप्रीते अतितुष्टे । सुधिते सुतरां हिते ॥ १४ ॥

पञ्चदशी।
दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्र॑मवर्धताम् ।
अया॑व्य॒न्याघा द्वेषा॒ᳪस्यान्या व॑क्ष॒द्वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। १५ ।।
उ० देवी जोष्ट्री देव्यौ जोषयित्र्यौ । इदानीं देवताविकल्पः । द्यावापृथिव्याविति वा अहोरात्रे इति वा ।
सत्यं च समा चेति कात्थक्यः । ये देव्यौ जोषयित्र्यौ । वसुधिती वसुधानं याते वसुनो धारयित्र्यौ वा ये च देवमिन्द्रम् अवर्धताम् अवर्धयताम् । अयाव्यन्याघाद्वेषांसि ययोश्च मध्ये अयावि । 'यु पृथग्भावे' पृथक्करोति । लकारव्यत्ययः । अन्या एका अघा अघानि पापानि द्वेषांसि च दौर्भाग्यानि आ अन्यावक्षन् वसुवार्याणि यजमानाय । अन्या एका आवक्षत् आवहति वसूनि व रणीयाणि यजमानर्थम् । कथंभूते । शिक्षिते विदितवेद्ये तत्त्वज्ञे । ते च वसुवननाय वसुधानाय च वीतां पिबतां त्वमपि हे होतः, यज ॥ १५॥
म० एकाधिकातिजगती। जोष्ट्री जुषेते ते जोष्ट्र्यौं प्रीतियुक्ते देवी देव्यौ । वसुधिती वसुनो धनस्य धितिर्धारणं याभ्यां ते द्यावापृथिव्यौ अहोरात्रे वा । 'सस्यं च समा चेति कात्थक्यः' (निरु. ९ । ४१)। ते इन्द्रं देवमवर्धतामवर्धयताम् । तयोर्मध्ये अन्या एका अघा अघानि पापानि द्वेषांसि दौर्भाग्यानि च अयावि । 'यु पृथग्भावे' दूरीकरोति । यौतेश्चिण् लकारव्यत्ययः । अन्या द्वितीया वार्याणि वरणीयानि भोगयोग्यानि वसु वसूनि धनानि आवक्षत् आवहति । कीदृश्यौ ते । शिक्षिते विदितवेद्ये तत्त्वज्ञे । ते वीताम् ॥ १५ ॥

षोडशी। ।
दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॒ सु॒दुघे॒ पय॒सेन्द्र॑मवर्धताम् ।
इष॒मूर्ज॑म॒न्या व॑क्ष॒त्सग्धि॒ᳪ सपी॑तिम॒न्या नवे॑न॒ पूर्वं॒ दय॑माने पुरा॒णेन॒ नव॒मधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ।। १६ ।।