पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यस्य तम् । सुरेतसं शोभनं रेतो वीर्य यस्य तम् । मघोनं मघवन्तं धनवन्तम् । स त्वष्टा इन्द्राय इन्द्रियाणि वीर्याणि दधत् सन् आज्यं वेतु ॥ ९ ॥

दशमी।
होता॑ यक्ष॒द्वन॒स्पति॑ᳪ शमि॒तार॑ᳪ श॒तक्र॑तुं धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् ।
मध्वा॑ सम॒ञ्जन्प॒थिभि॑: सु॒गेभि॒: स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। १० ।।
उ० होता यक्षद्वनस्पतिम् । दैव्यो होता वनस्पतिं यजतु शमितारं हविषा संस्कर्तारम् । शतक्रतुं बहुकर्माणम् । धियो जोष्टारम् बुद्धेः कर्मणो वा सवितारम् । इन्द्रियं वीर्यात्मकम् । स चेज्यमानः । मध्वा समञ्जन् मधुस्वादुना घृतेन समञ्जन् यज्ञं संमृष्टीकुर्वन् । पथिभिः सुगेभिः मार्गैः शोभनगमनैः स्वदाति यज्ञम् । स्वदातिः प्रापणार्थः । प्रापयतु यज्ञं देवाननु । मधुना मधुस्वादुना घृतेन सहितम् । वेतु च पिबतु चाज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥ १०॥
म० शक्वरी । होता वनस्पतिं प्रयाजदेवतां यजतु । कीदृशं वनस्पतिम् । शमितारम् उलूखलादिरूपेण हविषां संस्कर्तारम् । शतक्रतुं शतं क्रतवः कर्माणि यस्य तं बहुकर्माणम् ।। धियो जोष्टारं बुद्धेः सेवितारम् । इन्द्रियमिन्द्रस्यात्मनो हितं वीर्यरूपं वा । स त्वष्टा मध्वा मधुना स्वादुना घृतेन समञ्जन् यज्ञं संम्रक्षयन् सन् । सुगेभिः सुगैः सुगमनैः पथिभिर्मार्गैः मधुना स्वादुना घृतेन युतं यज्ञम् । स्वदाति देवान् प्रापयति । स्वदातिः प्रापणार्थः । स आज्यं वेतु । सुखेन गम्यते येषु ते सुगाः 'सुदुरोरधिकरणे' (पा० ३ । २ । ४८) इति गमेर्डप्रत्ययः ॥ १०॥

एकादशी।
होता॑ यक्ष॒दिन्द्र॒ᳪ स्वाहाऽऽज्य॑स्य॒ स्वाहा॒ मेद॑स॒: स्वाहा॑ स्तो॒काना॒ᳪ स्वाहा॒ स्वाहा॑कृतीना॒ᳪ स्वाहा॑ ह॒व्यसू॑क्तीनाम् ।
स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णा इन्द्र॒ आज्य॑स्य॒ व्यन्तु॒ होत॒र्यज॑ ।। ११ ।।
उ० होता यक्षदिन्द्रम् । देव्यो होता यजतु इन्द्रम् । स्वाहाज्यस्य स्वाहाकारेणाज्यदेवतानां च संस्थां करोतु । स्वाहामेदसः स्वाहाकारेण मेदोदेवतानां च संस्थां करोतु । स्वाहा स्तोकानाम् स्तोका बिन्दवः । स्वाहाकारेण च स्तोकदेवतानां संस्थां करोतु । स्वाहा स्वाहाकृतीनाम् स्वाहाकारेण च स्वाहाकृतिदेवतानां संस्थां करोतु । स्वाहादेवा आज्यपा जुषाणा इन्द्र आज्यस्य । प्रयाजानुयाजा वै देवा आज्यपाः स्वाहाकारेण वै देवा आज्यपाः जुषाणाः सेवमानाः प्रीयमाणा वा इन्द्रं । आज्यस्य वेतु स्वमंशं पिबतु । त्वमपि हे मनुष्यहोतः, यज ॥ ११ ॥
म० शक्वरी । होता इन्द्रं यजतु । खाहाकारेणाज्यस्य देवान्यजतु । स्वाहाकारेण मेदसो देवान्यजतु । स्वाहाकारेण स्तोकानां सोमबिन्दूनां देवान्यजतु । स्वाहाकारेण स्वाहाकृतीनां देवानां स्वाहाकृतीः प्रयाजदेवताः यजतु । स्वाहाकारेण हव्यसूक्तीनां हव्यसंबन्धिसुवचनानां देवान्यजतु । स्वाहाकारेणाज्यपा देवाः प्रयाजाः जुषाणाः प्रीयमाणा भवन्तः सन्तः इन्द्रश्चाज्यं व्यन्तु पिबन्तु ॥ ११ ॥

द्वादशी।
दे॒वं ब॒र्हिरिन्द्र॑ᳪ सुदे॒वं दे॒वैर्वी॒रव॑त्स्ती॒र्णं वेद्या॑मवर्धयत् ।
वस्तो॑र्वृ॒तं प्राक्तोर्भृ॒तᳪ रा॒या ब॒र्हिष्म॒तोऽत्य॑गाद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ।। १२ ।।
उ०. देवं बर्हिः । एकादशानुयाजप्रैषा ऐन्द्राः मैत्रावरुणो ब्रवीति यज्ञसाधनभूतं बर्हिरिह देवता । यद्देवं बर्हिः । इन्द्रमवर्धयदिति संबन्धः । कथंभूतमिन्द्रम् । सुदेवं शोभना देवा मरुदादयो यस्य स सुदेवः तं सुदेवम् । | देवैर्वीरवत् । बर्हिषो विशेषणमेतत् । देवैः हविषा दातृभिः ऋत्विग्भिः वीरवत् वीरयुक्तम् । यच्च स्तीर्णं वेद्याम् यच्च बर्हिः वस्तोर्वृतम् अहनि लूनम् यच्च अक्तोः रात्रौ प्रभृतं प्रधारितम् । वस्तोरहर्वचनः अक्तो रात्रिवचनः इत्यव्ययद्वयम् । इन्द्रमवर्धयदिति सर्वत्र संबध्यते । यच्च राया धनेन हविर्लक्षणेन अन्यान्यजमानान् । बर्हिष्मतः बर्हिषा संयुक्तान् । अत्यगात् अतिक्रम्य गतं संस्कारोत्कर्षात् तद्धविः वसुवने वसुवननाय च धननिखननाय च वेतु पिबतु । त्वंच हे होतः, यज ॥ १२ ॥
म० एकादश ऐन्द्रपशोः संबन्धिन एवानुयाजप्रैषाः । देवता बर्हिरादयः । अतिजगती । मैत्रावरुणो वदति । बर्हिः देवं बर्हिःसंज्ञानुयाजदेवता इन्द्रमवर्धयत्पुष्णाति । किंभूतं बर्हिः । सुदेवं शोभना देवा मरुदादयो यत्र तत् । तथा देवैः । दातृभिः ऋत्विग्भिः वीरवत् वीरयुतम् । वेद्यां स्तीर्णमाच्छादितम् । वस्तोरहनि वृतं लूनम् धातूनामनेकार्थत्वात् । अक्तो रात्रौ प्रभृतं प्रकर्र्षण धृतम् । वस्तोरक्तोरित्यव्ययद्वयं क्रमादहर्निशावाचकम् । यत् बर्हिः राया हविर्लक्षणेन धनेन बर्हिष्मतः बर्हिषा युक्तानन्यान् यागानत्यगात् अतिक्रम्य गतं संस्कारोत्कर्षात् तत् बर्हिः वसुवने वसुवननाय धनदानाय वसुधेयस्य वसुधेयाय वसुनो धानाय निधानाय यजमानगृहे निखननाय वेतु आज्यं पिबतु । वसुवने वसुधेयस्येति सप्तमीषष्ठ्यौ चतुर्थ्यर्थे । हे मनुष्यहोतः, त्वमपि यज । एवमग्रेऽपि कण्डिकाशेषो व्याख्येयः ॥ १२॥