पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

Error: The pagelist tag can only be used in the Index: namespace

यज्ञे आज्यं व्यन्तु पिबन्तु च । कीदृश्यो द्वारः। सुप्रायणाः सुखेन प्रकृष्टमयनं गमनं यासुः ताः विवृतत्वादित्यर्थः । ऋतं यज्ञं वर्धयन्ति ऋतवृधः संहितायामृतशब्दस्य दीर्घः । इन्द्राय कीदृशाय । मीढुषे मेहतीति मीढ्वान् तस्मै सेक्त्रे । क्वसन्तो निपातः ॥ ५॥

षष्ठी।
होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू सु॒दुघे॑ मा॒तरा॑ म॒ही ।
स॒वा॒तरौ॒ न तेज॑सा व॒त्समिन्द्र॑मवर्धतां वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।। ६ ।।
उ० होता यक्षदुषे दैव्यो होता यजतु । उषे नक्तोषासाविति प्राप्ते पूर्वपदलोपश्छान्दसः । इन्द्रस्य धेनू सुदुघे शोभनदोहने मातरा मातरौ । मही महत्यौ । ते चेज्यमाने सवातरौ । वातृशब्दो वत्सवचनः समानो वाता वत्सः ययोस्ते सवातरौ । नकार उपमार्थीयः । एकशिशुके इव गावौ तेजसा वत्समिव इन्द्रं अवर्धताम् । वीतां पिबताम् आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥ ६॥
म. आर्षी त्रिष्टुप् । उषे अत्र पूर्वपदलोपः । होता उषे नक्तोषे यजतु । ते च तेजसा इन्द्रमवर्धताम् आज्यं वीतां पिबतां च । तत्र दृष्टान्तः। सवातरौ न । न इवार्थे । समानो वाता वत्सौ ययोस्ते सवत्सौ एकशिशुके गावौ वत्सं यथा वर्धयेते तथेन्द्रं वर्धयताम् । कीदृश्यौ उषे । इन्द्रस्य धेनू धिनुतस्ते धेनू प्रीणयित्र्यौ । सुदुघे सुष्ठु दुग्धस्ते सुदुघे दुग्धं पूरयन्त्यौ । मातरा मातरौ । विभक्तेराकारः । मातृवत्पालिके। मही मह्यौ महत्यौ । विभक्तिलोपः ॥ ६ ॥

सप्तमी।
होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ सखा॑या ह॒विषेन्द्रं॑ भिषज्यतः ।
क॒वी देवौ॒ प्रचे॑तसा॒विन्द्रा॑य धत्त इन्द्रि॒यं वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ।। ७ ।।
उ० होता यक्षद्दैव्याहोतारा । दैव्यो होता यजतु दैव्यौ होतारौ । भिषजा भिपजौ देवानां वैद्यौ । सखाया सखायौ समानख्यानौ । यौ च हविषा इन्द्रम् भिषज्यतः यौ च कवी क्रान्तदर्शनौ यौ च देवौ द्युस्थानौ यौ च प्रचेतसौ प्रकृष्टज्ञानौ यौ च इन्द्राय इन्द्र इति विभक्तिव्यत्ययः। धत्तः स्थापयतः इन्द्रियं वीर्यम् । तौ चेज्यमानौ वीतां पिबताम् आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥७॥
म०. अतिजगती । दैव्यौ होतारौ अयं चाग्निरसौ च मध्यमस्तौ होता यजतु । यौ च हविषा इन्द्रं भिषज्यतः चिकित्सतः 'भिषज् रुग्जये' कण्ड्वादिभ्यो यक् । इन्द्राय इन्द्रियं वीर्यं धत्तः । तौ च आज्यं वीताम् । कीदृशौ । भिषजा भिषजौ चिकित्साकुशलौ । सखाया सखायौ अन्योन्यं स्नेहवन्तौ । कवी क्रान्तदर्शनौ । देवौ दीप्यमानौ । प्रचेतसौ प्रकृष्टं चेतो ज्ञानं ययोस्तों ॥ ७ ॥

अष्टमी।
होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपस॒ इडा॒ सर॑स्वती॒ भार॑ती म॒हीः ।
इन्द्र॑पत्नीर्ह॒विष्म॑ती॒र्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ।। ८ ।।
उ० होता यक्षत्तिस्रो देवीः न भेषजं त्रयस्त्रिधातवोपसः । नकारो भिन्नक्रमः समुच्चयार्थीयः । भेषजं च ये च त्रयो लोकाः विधातवः अग्निवायुसूर्यास्तेषां धातवः अपसः। अप इति कर्मनाम मत्वर्थीयलोपः । अपस्विनः कर्मवन्तः । शीतोष्णवर्षादीनि हि तेषां कर्माणि । तांश्च होता यजतु । कतमास्तिस्रो देव्यः इडा सरस्वती भारती च । महीः महतीः इन्द्रपत्नीः इन्द्रस्य पालयित्रीः हविष्मतीः हविषा संयुक्ताः । ताश्चेज्यमानाः व्यन्तु पिबन्तु आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥८॥
म० ब्राह्मी अनुष्टुप् । भेषजं भेषजरूपा ये त्रयो लोकास्तान् इडा सरस्वती भारतीति तिस्रो देवीश्च होता यजतु । ताश्चाज्यं व्यन्तु नकारश्चार्थे । कीदृशास्त्रयः। त्रिधातवः त्रयोऽग्निवायुसूर्या धातवो धर्तारो येषां ते । अपसः अपस्विनः कर्मवन्तः शीतोष्णवातवर्षादीनि लोकानां कर्माणि । कीदृश्यस्तिस्रः । महीः महत्यः । इन्द्रपत्नीः इन्द्रस्य पत्न्यः पालयित्र्यः। हविष्मतीः हविर्विद्यते यासां ताः ॥ ८॥

नवमी।
होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्रं॑ दे॒वं भि॒षज॑ᳪ सु॒यजं॑ घृत॒श्रिय॑म् ।
पु॒रु॒रूप॑ᳪ सु॒रेत॑सं म॒घोन॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। ९ ।।
उ० होता यक्षत्त्वष्टारमिन्द्रम् । दैव्यो होता यजतु । । त्वष्टारं प्रयाजदेवताम् । इन्द्रम् 'इदि परमैश्वर्ये त्वष्टा चेन्द्रः सामानाधिकरण्यात् । देवं दानादिगुणयुक्तम् भिषजमिन्द्रस्य । सुयजम् साधुयष्टव्यम् अक्लेशयागं वा । घृतश्रियम् आज्यहविष्का हि प्रयाजाः । पुरुरूपं बहुरूपम् । सुरेतसं शोभनरेतस्कम् । मघोनं मघवन्तं धनवन्तम् । सं चेज्यमानस्त्वष्टा इन्द्राय इन्द्रे इति विभक्तिव्यत्ययः । दधत् स्थापयत् । इन्द्रियाणि वीर्याणि वेतु च पिबतु च आज्यस्य स्वमंशं । त्वमपि हे मनुष्यहोतः, यज ॥ ९ ॥ ।
म० अतिजगती । होता त्वष्टारं प्रयाजदेवतां यजतु । | कीदृशं त्वष्टारम् । इन्द्रम् ‘इदि परमैश्वर्ये' ईश्वरं प्रभुम् । देवं दातारम् । भिषजं रोगनिवर्तकम् । सुयजं सुष्ठु इज्यते स सुयजस्तं साधु यष्टव्यम् । घृतश्रियं घृतेन श्रीः शोभा यस्य तम् । आज्यहविष्का हि प्रजायाः । पुरुरूपं पुरूणि बहूनि रूपाणि