पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति माध्यन्दिनीयायां वाजसनेयसंहितायां सप्तविंशोऽध्यायः ॥ २७॥
उ० संवत्सरोऽसि । संचितोऽग्निरनेन वपुषा अभिमृश्यते । 'पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम्' इति यदुक्तं ज्योतिःशास्त्रे तदिहोच्यते । हे अग्ने, यस्त्वं संवत्सरोऽसि । सर्वस्य सारितासि । नच त्वामन्यः सारयति । यश्च त्वं परिवत्सरोऽसि यश्च इदावत्सरोऽसि । इदा इदानीमिति समानार्थौं । यश्च इद्वत्सरोऽसि इदिति निपातः । यश्च वत्सरोऽसि निर्विशेषेण तस्य ते भवतः उषसः कल्पन्तां क्लृप्ता भवन्त्ववयवत्वेन । एवम् अहोरात्रा अर्धमासा मासा ऋतवश्च संवत्सरश्च कल्पताम् । त्वं च प्रेत्यै प्रगमनाय एत्यै आगमनाय संचाञ्च प्रसारय च । समं च प्रसारय च । स्वेच्छया संकोचविकाशधर्मा भवेत्यभिप्रायः। सुवर्णचिदसीत्याकृतिवचनम् । तया देवतया वाचा सहितः । अङ्गिरस्वत् प्राण इव । ध्रुवः शाश्वतिकः । सीद अवस्थानं कुरु । अभि त्वा शूर नोनुम इत्यादिपरमेष्ठ्यपश्यत् ॥ ४५ ॥ इति उवटकृतौ मन्त्रभाष्ये सप्तविंशोऽध्यायः ॥ २७ ॥
म० अग्निदेवत्यं यजुः । अत्र यजुषि नवनवत्यक्षराणि एको व्यूहः । ततः शताक्षराभिकृतिश्छन्दः । चित्याग्नेरभिमर्शने विनियोगः । ‘पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम्' इति ज्योतिःशास्त्रोक्तमिहोच्यते । हे अग्ने, त्वं संवत्सरोऽसि परिवत्सरोऽसि इदावत्सरोऽसि इद्वत्सरोऽसि वत्सरोऽसि निर्विशेषणः पञ्चसंवत्सरात्मकयुगरूपोऽसीत्यर्थः । 'युगं भवेद्वत्सरपञ्चकेन' इति ज्योतिःशास्त्रोक्तेः । तस्य ते तव उषसः प्रातःकालादयः कालविशेषाः सङ्गवमध्याह्नादयः अहोरात्राः दिवसनिशाः अर्धमासाः पक्षाः मासाश्चैत्रादयः ऋतवो वसन्तादयः कल्पन्तामवयवत्वेन क्लृप्ता भवन्तु । संवत्सरश्च उपलक्षणम् । संवत्सरादयः पञ्चापि कल्पन्ताम् । क्रियावृत्तिरादरार्था । किंच प्रेत्यै प्रगमनाय एत्यै आगमनाय च समञ्च संकुच प्रसारय च । स्वेच्छया संकोचविकासौ कुर्विति भावः । किंच सुपर्णाकारेण चितत्वात्सुपर्णचिदिति । तया देवतया वाचा सहितः सन् अङ्गिरस्वत् अङ्गिरस इव प्राणा इव ध्रुवः स्थिरः सीद तिष्ठ ॥ ४५ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
सप्तविंशोऽयमध्याय आग्निको विरतोऽधुना ॥ २७ ॥

अष्टाविंशोध्यायः
तत्र प्रथमा।
होता॑ यक्षत्स॒मिधेन्द्र॑मि॒डस्प॒दे नाभा॑ पृथि॒व्या अधि॑ ।
दि॒वो वर्ष्म॒न्त्समि॑ध्यत॒ ओजि॑ष्ठश्चर्षणी॒सहां॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। १ ।।
उ० होता यक्षत्समिधेन्द्रम् । सौत्रामण्यामैन्द्रस्य पशोः प्रयाजप्रैषाः एकादश ऐन्द्रानेके प्रथमस्येत्यैन्द्राः । आप्रीदेवतास्तु इन्द्रस्यैव विभूतय इति । होता यक्षत् दैव्यो होता यजतु । समिधा इध्मकाष्ठेन हविर्भूतेन । समिधा वा सहितम् इन्द्रम् । य इन्द्रः त्रिषु स्थानेषु समिध्यते । प्रथमं तावत् इडस्पदे पृथिव्या यजनाय प्रदेशे समिध्यते अत्र्यात्मना । द्वितीयं विद्युदात्मना समिध्यते । नाभौ पृथिव्या अधि । पृथिवीशब्देनान्तरिक्षमुच्यते । नाभिभूते अन्तरिक्षप्रदेशे अध उपरि ततः तृतीयमादित्यात्मना दिवः द्युलोकस्य वर्ष्मन् वर्षिष्ठे प्रदेशे समिध्यते एवं त्रिस्थान इन्द्रः स्तूयते । यश्च ओजिष्ठः अतिशयेन बली । केषां मध्ये । चर्षणीसहाम् चर्षणयो मनुष्याः तान् ये सहन्ते अभिभवन्ति ते चर्षणीसहः देवाः तेषां चर्षणीसहां देवानां मध्ये । स चेज्यमानो वेतु पिबतु स्वमंशमाज्यस्या । त्वमपि हे मनुष्यहोतः, यज ॥ १ ॥
म० इन्द्रमिडः सौत्रामणिकोऽध्याय इति कात्यायनोक्तेः। अयमध्यायः सौत्रामणिसंबन्धी सोत्रामण्यङ्गभूतयोरैन्द्रवायोधसयोराद्यन्तपश्वोः प्रयाजानुयाजप्रैषरूपः । ततश्च प्रजापत्यश्विसरस्वत्योऽध्यायस्य ऋषयः । आद्येऽनुवाके एकादशैन्द्रपशोः संबन्धिन अप्रीदेवताः समित्तनूनपादित्यादिदेवताकाः प्रयाजानां प्रैषाः होता यक्षत्समिधेन्द्रमित्यादयो होता यक्षदिन्द्रमित्यन्ताः [ ११ क.] । अथ मन्त्रार्थः । आर्षी त्रिष्टुप् । दैव्यो होता । समिधा समित्काष्ठेन हविर्भूतेन समिधाप्रीदेवतया सहितं वा इन्द्रं यक्षत् यजतु । य इन्द्रः त्रिषु स्थानेषु समिध्यते दीप्यते । प्रथमम् इडः पृथिव्याः पदे यजनीये प्रदेशे अग्न्यात्मना समिध्यते । द्वितीयम् पृथिव्याः नाभौ पृथिवीशब्देनान्तरिक्षम् अन्तरिक्षस्य मध्ये विद्युदात्मना समिध्यते अधि उपरि । तृतीयम् दिवो वर्ष्मन् स्वर्गस्य वर्ष्मणि वर्षिष्ठे प्रदेशे आदित्यात्मना समिध्यते । कीदृशः । चर्षणीसहामोजिष्ठः चर्षण्यो मनुष्यास्तान्सहन्तेऽभिभवन्ति चर्षणीसहो मनुष्याभिभावुकास्तेषां मध्ये ओजस्वितमः अत्यन्तमोजस्वी ओजिष्ठः इष्ठनि परे ‘विन्मतोर्लुक्' ( पा० ५।३ । ६५) इति विनो लुकि टिलोपे ओजिष्ठ इति रूपम् । संहितायां चर्षणिशब्दस्य दीर्घः । एवंविध इन्द्रः आज्यस्य वेतु घृतं पिबतु । हे मनुष्यहोतः, त्वमपि यज ॥१॥

द्वितीया।
होता॑ यक्ष॒त्तनू॒नपा॑तमू॒तिभि॒र्जेता॑र॒मप॑राजितम् ।
इन्द्रं॑ दे॒वᳪ स्व॒र्विदं॑ प॒थिभि॒र्मधु॑मत्तमै॒र्नरा॒शᳪसे॑न॒ तेज॑सा॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ।। २ ।।