पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मृत्विजामविता पालयिता । संहितायामभीत्यस्य दीर्घः । 'सुनः' । (पा० ८।३ । १०७) सुशब्दस्य षत्वम् । 'नश्च धातुस्थोरुषुभ्यः' (पा० ८ । ४ । २७ ) इति षुशब्दात् परस्य नः इत्यस्य णत्वम् ॥ ४१ ॥

द्विचत्वारिंशी।
य॒ज्ञा य॑ज्ञा वो अ॒ग्नये॑ गि॒रा गि॑रा च॒ दक्ष॑से ।
प्र प्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न श॑ᳪसिषम् ।। ४२ ।।
उ० यज्ञा यज्ञा वः आग्नेयस्त्र्यचः । तत्र द्वे बृहत्यौ तृतीया सतोबृहती । यज्ञायज्ञस्य साम्नो योनिः । यज्ञेयज्ञे इति सप्तम्येकवचनस्य आ आदेशः वीप्सायाम् । वः इति यजमानविषयं युष्मदर्थम् । अग्नये अग्निमिति विभक्तिव्यत्ययः वाक्यसंबन्धात् । गिरा गिरा च । तया तया च गिरा वाचा स्तुतिलक्षणया दक्षसे । दक्षसमिति सन्नतिः । दक्षवन्तमुत्साहवन्तम् । अग्निविशेषणं चैतत् । प्र प्रः 'प्रसमुपोदः पादपूरणम्' इत्यभ्यासः । शंसिषेत्याख्यातेन संबन्धः। प्रशंसिषं वयम् अहमिति वचनव्यत्ययः । अमृतममरणधर्माणम् । जातवेदसं जातप्रज्ञानम् । प्रियं मित्रं न मित्रमेव । अथ वाक्यार्थवशा सदानुपूर्वी । अहं यज्ञे यज्ञे वः युष्मदर्थे अग्निं दक्षवन्तं तयातया च स्तुत्या प्रशंसिषम् अमृतं जातवेदसं प्रियं मित्रमिव ॥ ४२ ॥
म० तृचः प्रगाथः आग्नेयः शंयुदृष्टः यज्ञायज्ञियस्य साम्नो योनिः । 'यज्ञायज्ञियं पुच्छम्' इति श्रुतेः । द्वे बृहत्यौ । तृतीया सतोबृहती । यज्ञायज्ञ वीप्सायां द्वित्वम् । सप्तम्येकवचनस्याकारः । व इति द्वितीयाबहुवचनमेकवचनार्थे यजमानविषयं वा । अग्नये चतुर्थ्येकवचनं द्वितीयैकवचनार्थे । गिरागिरा वीप्सायां द्वित्वम् । चः पादपूरणः । दक्षसे । चतुर्थी द्वितीयार्थे । 'प्रसमुपोदः पादपूरणे' (पा० ८।१।६) इति द्वित्वम् । तस्य च शंसिषमिति क्रियया संबन्धः । वयमिति प्रथमाबहुवचनमेकवचनार्थे । तथा चैवं योजना । यज्ञेयज्ञेऽनेकयज्ञेषु गिरागिराऽन्ययान्यया स्तुत्या वः त्वाम् । यद्वा वो युष्माकमर्थे अग्निं प्रशंसिषं स्तौमि । 'शंस स्तुतौ' लुड् अडभाव आर्षः । कीदृशमग्निं । दक्षसम् दक्षतेरुत्साहार्थस्य धातोरसुन्प्रत्ययः । दक्षते उत्सहते दक्षाः तम् उत्साहिनम् । यद्वा दक्ष इति बलनाम अन्तर्नीतमत्वर्थं द्रष्टव्यम् । दक्षसं बलवन्तम् । अमृतममरणधर्माणम् । जातवेदसम् जातं वेदो ज्ञानं धनं वा यस्मात्तम् । प्रियं प्रीतिजनकम् । नशब्द उपरिष्टादुपचारादुपमार्थीयः । मित्रं न मित्रमिव यथा कश्चित्प्रियं मित्रं स्तौति तद्वदग्निं स्तुमह इत्याशास्महे ॥ ४२ ॥

त्रिचत्वारिंशी।
पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्युत द्वि॒तीय॑या ।
पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ।। ४३ ।।
उ० पाहि नः गोपाय नः अस्मान् । हे अग्ने, एकया गिरा ऋग्लक्षणया। पाह्युत गोपाय च । द्वितीयया द्वाभ्यां गीर्भ्यामृग्यजुर्लक्षणाभ्याम् । पाहि च गीर्भिः तिसृभिः स्तुतिभिः । हे ऊर्जामन्नानां पते, पाहि च चतसृभिः गीर्भिः। ऋगाद्यास्तिस्रः गद्यपद्यकाव्यलक्षणा चतुर्था गीः । हे वसो वासयितः ॥ ४३॥
म० गर्गदृष्टा । हे अग्ने, हे ऊर्जां पते अन्नानां पालक, हे वसो वासयितः, यद्वा लुप्तमत्वर्थं द्रष्टव्यम् । हे वसो वसुमन् धनवन् , एकया गिरा इति पदस्यानुषङ्गः एकया गिरा ऋग्लक्षणया तृतीयानिर्देशात् स्तुतः सन्नितिवाक्यशेषः । नोऽस्मान् पाहि रक्ष । उत अपिच द्वितीयया यजुर्लक्षणया स्तुतः सन् पाहि । तिसृभिर्गीर्भिः ऋग्यजुःसामलक्षणाभिः स्तुतो नः पाहि । चतसृभिः ऋग्यजुःसामनिगदलक्षणाभिः स्तुतो नः पाहि । गद्यपद्यकाव्यादिरूपा चतुर्थी गीः ॥ ४३ ॥

चतुश्चत्वारिंशी।
ऊ॒र्जो नपा॑त॒ᳪ स हि॒नाऽयम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।
भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म् ।। ४४ ।।
उ० ऊर्जो नपातम् । स त्वं हे अध्वर्यो, ऊर्जो नपातम् ऊर्जशब्देनाप उच्यन्ते । ताभ्य ओषधिवनस्पतयो जायन्ते तेभ्य एष जायते इत्यपां पौत्रोऽग्निः । तम् । हिन तर्पय । अयम् अस्मयुः । अयं हि अग्निः अस्मान्कामयते । अतो वयं च । दाशेम संकल्पं कुर्याम । हव्यदातये हविषो दानाय । भुवद्वाजेष्वविता यतोऽयम् वाजेष्वन्नेषु विषयभूतेषु अविता गोप्ता । भुवत् भवति । भुवद्वृधे वर्धनाय च भवति । उत अपिच । त्राता तनूनां शरीराणाम् । बहुवचनोपदेशाद्भार्यादिशरीरग्रहणम् । यत एवम् अतः ऊर्जो नपातं हिन इति संबन्धः । एवमदूरविप्रकर्षेण । विषममन्त्रा व्याख्येयाः ॥ ४४ ॥
म० यजमानोऽध्वर्युं प्रार्थयते । हे अध्वर्यो, ऊर्जो नपातमपां पौत्रमग्निं स त्वं हिन हिनु तर्पय 'हि गतौ वृद्धौ च' स्वादिः लोट् उलोपश्छान्दसः । उर्क् शब्देनाप उच्यन्ते । अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रोऽग्निः । यतोऽयमग्निरस्मयुः अस्मानिच्छति अस्मयुः 'क्याच्छन्दसि' (पा० ३।२।१७०) इत्युप्रत्ययः । अतो हव्यदातये हविषो दानाय दाशेम संकल्पयामः । 'दाशृ दाने' अत्र संकल्पार्थः । यतोऽयं वाजेष्वन्नेषु अविता रक्षिता भुवत् भवति । वृधे वृद्धौ च भुवत् भवति । उतापिच तनूनां शरीराणां त्राता रक्षिता भवति । बहुवचनं भार्यादिशरीररक्षार्थमुपात्तम् । अग्निरन्नतनुरक्षिता वर्धयितास्मान् | कामयतेऽतो हविर्दानाय तं संकल्पयामः ॥ ४४ ॥

पञ्चचत्वारिंशी।
सं॒व॒त्स॒रो॒ऽसि परिवत्स॒रो॒ऽसीदावत्स॒रो॒ऽसीद्वत्स॒रो॒ऽसि वत्स॒रो॒ऽसि ।
उ॒षस॑स्ते कल्पन्तामहोरा॒त्रास्ते॑ कल्पन्तामर्धमा॒सास्ते॑ कल्पन्तां मा॒सास्ते कल्पन्तामृ॒तव॑स्ते कल्पन्ताᳪ संवत्स॒रस्ते॑ कल्पताम् । प्रेत्या॒ एत्यै॒ सं चाञ्च॒ प्र च॑ सारय ।
सुप॒र्ण॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒व: सी॑द ।। ४५ ।।