पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टत्रिंशी।
स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒ह स्त॑वा॒नो अ॑द्रिवः ।
गामश्व॑ᳪ र॒थ्य॒मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ।। ३८ ।।
उ० स त्वम् । सः त्वं नः अस्मभ्यम् हे चित्र चायनीय, हे वज्रहस्त, धृष्णुया प्रसहनेन महः महत्त्वेन च स्तवानः स्तूयमान इति विकरणव्यत्ययः । हे अद्रिवः अद्रिवन् , अद्रिसारमयं वज्रं तद्यस्यास्तीति संबोध्यते अद्रिव इति । गाम् अश्वं च रथ्यं रथे साधुम् हे इन्द्र, संकिर । संकिरतिर्दानातिशये । अनेकदेशप्रकीर्णं देहि । कथमिव । सत्रा वाजं न जिग्युषे । नकार उपमार्थीयः । यथा जिग्युषे विजितवते । अश्वाय हस्तिने वा । सत्रा त्राणसहितम् वाजं यवसम् । सस्नेहमपरिमितं संकिरेयुर्दद्युः एवमस्मभ्यं देहि ॥ ३८॥
म० हे चित्र आश्चर्यकारिन् , हे वज्रहस्त, वज्रं हस्ते यस्य, हे अद्रिवः अद्रयोऽजेयत्वेन सन्तीत्यद्रिवान् तत्संबुद्धिः 'मतुवसोः ' (पा० ८ । ३ । १) इति रुत्वम् । हे इन्द्र, स त्वं नोऽस्मभ्यं गामश्वं च संकिर देहि । संपूर्वः किरतिर्दानार्थः । कीदृशमश्वम् । रथ्यं रथे साधुं रथवहनसमर्थम् । कीदृशस्त्वम् । धृष्णुया प्रागल्भ्येन महः महसा तेजसा च स्तवानः स्तूयमानः । धृषेः क्नुः ततो विभक्तेर्यादेशः । धृष्णुना धृष्णुत्वेन भावप्रधानो निर्देशः । महः विभक्तिलोपः । स्तवान इत्यत्र विकरणव्यत्ययः । कथमिव । वाजंन वाजमिव । न इवार्थे । यथा जिग्युषे जितवतेऽश्वाय हस्तिने वा यथा सत्रा त्राणं त्रा रक्षणम् तत्सहितं वाजमन्नं यवं यथा ददति तथास्मभ्यं देहि ॥३८॥

एकोनचत्वारिंशी।
कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒: सखा॑ ।
कया॒ शचि॑ष्ठया वृ॒ता ।। ३९ ।।
उ० कया नः । वामदेव्यस्य योनिः तिस्र ऐन्द्र्यो गायत्र्यः अन्त्यपादो निचृत् । कया नश्चित्र आभुवदूती कया पुनः ऊती ऊत्या केन पुनरवनेन तर्पणेन । नः अस्माकम् चित्रः चायनीयः इन्द्रः । आभुवत् भूयात् । आकारो वृतासह संबध्यते । सदावृधः सदाकालं वर्धयिता । सखा च कया च नाम शचिष्ठया । शचीति कर्मनाम मतुब्लोपः । अतिशयेन कर्मवत्या अवृता कर्मणा सदावृधः सखा भूयादिति वर्तते ॥ ३९ ॥
म० तिस्रो गायत्र्यः इन्द्रदेवत्या वामदेवदृष्टाः वामदेव्यसाम्नो योनिः 'वामदेव्यमात्मन्' इति श्रुतेः अन्त्या पादनिचृत् सप्ताक्षरत्रिपादा । पूर्वर्चः इन्द्रपदमनुषञ्जनीयम् । इन्द्रः कया ऊती ऊत्या अवनेन तर्पणेन प्रीणनेन वा नोऽस्माकं सखा सहायः आभुवत् आभिमुख्येन भवति । तथा वृता वर्तत इति वृत् तया वृता वर्णमानया शचिष्ठया अतिशयेन शची शचिष्ठा तया अतिशयवत्या यागक्रिययास्माकं सखा भवति । शचीति कर्मनाम तत इष्ठन्प्रत्ययः । कीदृश इन्द्रः । चित्रः विचित्रः पूज्यो वा । सदावृधः सदा वर्धत इति सदावृधः 'इगुपध-' (पा० ३ । १ । १३५) इति कप्रत्ययः । सदा वर्धमानः । ऊती तृतीयैकवचनस्य 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति पूर्वसवर्णः । अभुवत् 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इति तिप इलोपः शपश्छान्दसे ङित्त्वे धातोरुवङ्ङादेशः ॥ ३९ ॥

चत्वारिंशी।
कस्त्वा॑ स॒त्यो मदा॑नां॒ मᳪहि॑ष्ठो मत्स॒दन्ध॑सः ।
दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ।। ४० ।।
उ० कस्त्वा को नाम त्वाम् मत्सत् सादयति । सत्यः अवितथः । मदानां मध्ये मंहिष्ठ अतिशयेन मदजनकः । अन्धसः सोमस्य स्वभूतोंऽशः । येन मत्तः सन् त्वम् । दृढा चित् दृढान्यप्यसुरवृन्दानि । आरुजे आरुजसि चूर्णयसि वसु च ददासीति शेषः । यद्वा दृढान्यपि सुवर्णप्रभृतीनि चिरकालस्थायीनि वसूनि आरुजसि चूर्णयसि दानाय ॥४०॥
म० हे इन्द्र, अन्धसोऽन्नस्य सोमरूपस्य कः अंशः त्वा त्वां मत्सत् माद्यति मत्तं करोति 'मदी हर्षे' 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः 'सिब्बहुलं लेटि' (पा. ३।१। ३४ ) सिप्प्रत्ययः तिप इलोपः । कीदृशः । मदानां मंहिष्ठः मदयन्ति तानि मदानि पचाद्यच् मदजनकानि हवींषि तेषां मध्ये मंहिष्ठः श्रेष्ठः अत्यन्तमदजनकः 'मंहि कान्तौ' चुरादिः मंहयति द्योतते मंही अत्यन्तं मंही मंहिष्ठः । यद्वा 'महि वृद्धौ' भ्वादिः । मंहते वर्धते मंही अत्यन्तं मंही मंहिष्ठः । येनांशेन मत्तः सन् दृढचित् दृढान्यपि वसु वसूनि धनानि कनकादीनि त्वमारुजे 'रुजो भङ्गे' पुरुषपदव्यत्ययः । आरुजसि चूर्णयसि दातुं भनक्षि । भङ्क्त्वा भङ्क्त्वा ददासीत्यर्थः ॥४०॥

एकचत्वारिंशी।
अ॒भी षु ण॒: सखी॑नामवि॒ता ज॑रितॄ॒णाम् ।
श॒तं भ॑वास्यू॒तये॑ ।। ४१ ।।
उ० अभी षु णः आभिमुख्येन सुष्ठु च नः अस्माकं सखीनाम् अविता पालयिता। जरितॄणां स्तोतॄणां च अस्माकं पालयिता । किंच । शतं भवासि शतधा भवसि । हे इन्द्र, ऊतये अवनाय रक्षणाय । प्रकृतत्वादस्माकमेव सखीनां जरितॄणां च ॥ ४१ ॥
म० हे इन्द्र, त्वमूतयेऽवनाय पालनाय सु सुष्ठु सम्यक् अभि आभिमुख्येन शतं भवासि भवसि । आडागमः । शतशब्दो बहुवाची। बहुरूपो भवसि । पालनाय नानारूपाणि दधासीत्यर्थः । कीदृशस्त्वम् । सखीनां मित्राणां जरितॄणां स्तोतॄणां नोऽस्माक