पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुस्त्रिंशी।
तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।
अवा॒ᳪस्या वृ॑णीमहे ।। ३४ ।।
उ० तव वायो । हे वायो, ऋतस्पते सत्यपालक । यज्ञवचन ऋतशब्दः । सत्यपते । त्वष्टुरादित्यस्य जामातः, स ह्यादित्यादप आदाय गर्भयति ततो विप्रुषो जायन्ते अतो वायुर्जामाता त्वष्टुः । अद्भुत अभूतपूर्व । तव संबन्धीनि अवांसि अन्नानि । आवृणीमहे आयाचामः ॥ ३४ ॥
म० गायत्री व्यश्वदृष्टा । हे वायो, हे ऋतस्पते सत्यस्य पालक, ऋतस्य पतौपरे सुडागमः । हे त्वष्टुर्जामातः, आदित्यादप आदाय वायुर्गर्भयति ततो वृष्टिर्भवतीति वायुरादित्यस्य जामाता । हे अद्भुत आश्चर्यरूप, तवावांसि अन्नानि वयमावृणीमहे प्रार्थयामः ॥ ३४ ॥

पञ्चत्रिंशी।
अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नव॑: ।
ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुष॑: ।। ३५ ।।
उ० अभि त्वा 'रथन्तरं दक्षिणे पक्षे' इति श्रुतिः । नान्योध्वर्योर्गायेदिति यतोऽत एषां साम्नां योनयः पठ्यन्ते । तत्रेन्द्रप्रगाथो रथन्तरस्य योनिः। तत्र प्रथमा बृहती द्वितीया सतोबृहती । अभि त्वा शूर नोनुमः आभिमुख्येन त्वां हे शूर, नोनुमः नमामः । कथमिव । अदुग्धा इव धेनवः । यथा वत्सान्प्रति अदुग्धा धेनवः नमन्ति एवं त्वां प्रति हविर्भिः स्तोत्रैः शस्त्रैश्चाभिमुख्येन नमामः। यद्वा 'णु स्तुतौ'। अयमत्र धातुः शब्दसारूप्यात् । अभिनोनुमः अभिष्टुमः त्वां कृतकृत्याः सन्तः स्तुतस्तोत्राः कृतशस्त्रा उद्यतहविष्काः । कथमिव । अदुग्धा इव धेनवः । यथा अदुग्धा अकृतकृत्या धेनवः वत्समभितुष्टुवुः एवम् । कथंभूतं त्वामभिनोनुमः । ईशानमस्य जगतः जङ्गमस्य । स्वर्दृशम् स्वः पश्यतीति स्वर्दृक् तं स्वर्दृशम् । यद्वा स्वरादित्यः तद्वत् यो दृश्यते स स्वर्दृक् तं स्वर्दृशम् । ईशानं च हे इन्द्र, तस्थुषः स्थितवतः स्थावरस्येत्यर्थः ॥ ३५ ॥
म० बृहतीसतोबृहतीद्वयं प्रगाथं वसिष्ठदृष्टमिन्द्रदेवत्यम् । 'रथन्तरं दक्षिणे पक्षे' इति श्रुतेः । 'नान्योऽध्वर्योर्गायेत्' इत्यध्वयोर्गानं विहितम् । अतः साम्नां योनय ऋचः पठ्यन्ते । तत्रैन्द्रः प्रगाथो रथन्तरस्य योनिः । हे शूर इन्द्र, वयं त्वा त्वामभिनोनुमः आभिमुख्येनात्यन्तं स्तुमः 'नु स्तुतौ' यङ्लुगन्तम् । तत्र दृष्टान्तः । अदुग्धाः धेनवः इव यथा अदुग्धा गावो वत्सान्स्तुवन्ति । कीदृशं त्वाम् । जगतो जङ्गमस्येशानं प्रभुम् । स्वर्दृशं स्वः पश्यतीति स्वर्दृक् तम् । यद्वा स्वः आदित्य इव दृश्यते स्वर्दृक् तस्थुषः स्थावरस्य ईशानम् । विश्वनियन्तारमित्यर्थः ॥ ३५॥

षट्त्रिंशी।
न त्वावाँ॑२ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।
अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ।। ३६ ।।
उ० न त्वावान् । येन त्वावान् त्वत्सदृशः अन्यः दिव्यः दिविभवः नच पार्थिवः अस्तीति शेषः । नच जातः नच जनिष्यते उत्पत्स्यति । अतः अश्वायन्तः अश्वान्कामयमानाः हे मघवन् धनवन् इन्द्र, वाजिनः वाजोऽन्नम् तद्येषामस्ति ते वाजिनः हविषा संयुक्ताः सन्तः । गव्यन्तः गाः कामयमानाः । त्वां हवामहे आह्वयामः ॥ ३६ ॥
म० हे मघवन् धनवन् , हे इन्द्र, दिवि भवो दिव्यः पार्थिवः पृथिवीभवश्च त्वावान् त्वत्सदृशोऽन्यो नास्तीति शेषः । न च जातः न जनिष्यते उत्पत्स्यते । त्वत्सदृशोऽस्तीति त्वावान् । सादृश्यार्थे वतुप्रत्ययः । अतो वयं त्वा त्वां हवामहे । । कीदृशा वयम् । अश्वायन्तः अश्वान् कामयमानाः 'अश्वाघस्यात्' । (पा० ७ । ४ । ३७) इति क्यचि आत्वम् । ततः शतृप्रत्ययः । वाजिनोऽन्नवन्तः हविर्युताः । गव्यन्तः गा इच्छन्तीति गव्यन्तः गोकामाः । गवाश्वान्देहीत्यर्थः ॥ ३६ ॥

सप्तत्रिंशी।
त्वामिद्धि हवा॑महे सा॒तौ वाज॑स्य का॒रव॑: ।
त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ।। ३७ ।।
उ० त्वामित् । बृहतो योनिः देवतादितुल्यम् । इच्छब्द एवार्थे हिर्निरर्थकः । त्वामेव हवामहे आह्वयामः । सातौ वाजस्य सातिर्लाभः । लाभे अन्नस्य विषयभूते । अपिच कारवः कर्तारः स्तोमानां वयम् त्वामेव च वृत्रेषु शत्रुषु हन्तव्येषु हे इन्द्र, सत्पतिं सतां पालयितारम् श्रुतिस्मृतिविहितानुष्ठातारो निषिद्धकर्मपरित्यागिनः सन्तः तत्पतिम् । नरः मनुष्याः आह्वयन्ति । त्वामेव काष्ठासु जेतव्यासु अर्वतः अश्ववतः रथिनो वा आह्वयन्ति । नहि त्वदृते पुरुषाणां किंचित्सिध्यतीत्यभिप्रायः ॥ ३७ ॥
म० ऋग्द्वयमैन्द्रः प्रगाथः शम्युदृष्टः बृहत्साम्नो योनिः अध्वर्योर्गानस्योक्तः । आद्या बृहती द्वितीया सतोबृहती 'बृहदुत्तरे पक्षे' इति श्रुतेः । हे इन्द्र, कारवः कर्तारः यज्ञानाम् नरः ऋत्विजो वयं त्वामेव हवामहे आह्वयामः । इत् एवार्थे हि निश्चये । किंनिमित्तम् । वाजस्यान्नस्य सातौ लाभनिमित्तम् । वृत्रेषु शत्रुषु शत्रुघातनिमित्तम् । काष्ठासु दिक्षु दिग्विजयनिमित्तम् । कीदृशं त्वाम् । सत्पतिं सतां पालयितारम् । श्रुतिस्मृत्युक्ताचाररता निषिद्धत्यागिनः सन्तः कथ्यन्ते । तथा अर्वतः अश्वप्राप्तिनिमित्तं च । विभक्तिव्यत्ययः । त्वांशब्दावृत्तिरादरार्था ॥ ३७॥