पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एत्य चास्मिन् सवने तृतीये मादयस्व तृप्यस्व । अथ पादेन ऋत्विज आह । हे ऋत्विजः, स्वस्तिभिः कल्याणैर्यूयं नोऽस्मान् पात रक्षत ॥ २८ ॥

एकोनत्रिंशी।
नि॒युत्वा॑न्वाय॒वाग॑ह्य॒यᳪ शु॒क्रो अ॑यामि ते ।
गन्ता॑सि सुन्व॒तो गृ॒हम् ।। २९ ।।
उ० नियुत्वान्वायो । पद वायव्या याज्यानुवाक्याः। तत्र वायो शुक्रो इत्यनुष्टुप् । एकया चेति त्रिष्टुप् । गायत्र्योऽन्याश्चतस्रः । तृतीयः पादः प्रथमं व्याख्यायते । यतो गन्ता गमनशीलः । तृन्नन्तोयं गन्ता उदात्तः । तद्धर्मा वा तत्साधुकारी वा एते हि तृनोऽर्थाः । असि । सुन्वतः अभिषवं कुर्वतः यजमानस्य गृहान्प्रति । अतो ब्रवीमि । नियुत्वान् नियुद्गुणको भूत्वा हे वायो, आगहि आगच्छ । अयंच शुक्रो ग्रहः अयामि आगच्छत्विति लकारपुरुषव्यत्ययः । ते त्वांप्रति । त्वमेव हि शुक्रादीनां ग्रहाणां स्थानमित्यभिप्रायः ॥ २९ ॥
म० षडृचो वायुदेवत्याः वायव्येष्टकापशुपक्षे वपादीनां याज्यानुवाक्यत्वेन नियुक्ताः । आद्या गायत्री गृत्समददृष्टा । हे वायो, यतः सुन्वतो यजमानस्य गृहं प्रति त्वं गन्ता गमनशीलोऽसि । तृन्नन्त आद्युदात्तत्वात् । अतो नियुत्वानश्वावान्सन् आगहि आगच्छ । शपो लुक् । अयं शुक्रो ग्रहः ते त्वां प्रति अयामि आगच्छतु प्राप्नोतु । लकारपुरुषव्यत्ययः । शुक्रादिग्रहाणां पात्रं त्वमेवेति भावः ॥ २९ ॥

त्रिंशी।
वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।
आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ।। ३० ।।
उ० वायो शुक्रः । हे वायो, शुक्रो ग्रहः अयामि स्वयमेवागच्छतु ते त्वांप्रति । कथंभूतः । मध्वो अग्रम् रसस्य सारभूतः दिविष्टिषु यज्ञेष्वित्यर्थः । त्वं च आयाहि सोमपीतये सोमपानाय । यतः स्पार्हः स्पृहणीयः हे देव । नियुत्वता नियुच्छब्दवता मन्त्रेण स्तूयसे ॥ ३० ॥
म० अनुष्टुप् पुरुमीढाजमीढदृष्टा । हे वायो, शुक्रो ग्रहः त्वामयामि आगच्छतु । कीदृशः शुक्रः । दिविष्टिषु मध्वः अग्रं द्यौरिष्यते प्रार्थ्यते याभिस्ता दिविष्टयो यज्ञाः ज्योतिष्टोमेन स्वर्गकामो यजेतेत्युक्तेः मध्वः मधुनो रसस्याग्रं सारभूतः । यज्ञरसेषु शुक्रो ग्रहः सारभूत इत्यर्थः । किंच हे देव वायो, नियुत्वता अश्वावता रथेन आयाहि आगच्छ । किमर्थम् ।। सोमपीतये सोमपानाय । कीदृशस्त्वम् । स्पार्हः स्पृहायोग्यः जयमानादिभिः स्पृहणीयः ॥ ३० ॥

एकत्रिंशी।
वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम् ।
शि॒वो नि॒युद्भि॑: शि॒वाभि॑: ।। ३१ ।।
उ० वायुरग्रेगाः । वायुः अग्रगमनशीलः यज्ञप्रीः यज्ञेन प्रीयत इति यज्ञप्रीः । साकं गच्छ गच्छति मनसा यज्ञम् । यो ह्यादरेण विस्मित आगच्छति स मनसा सहागतो भवति । कथंभूतः । शिवः शान्तः नियुद्भिः अश्वाभिः शिवाभिरेव ॥ ३१ ॥
म० द्वे गायत्र्यौ । वायुः शिवाभिः कल्याणरूपाभिः नियुद्भिरश्वाभिः कृत्वा मनसा साकं चित्तेन सह सादरं यज्ञं गन् गच्छतु । कीदृशः । अग्रेगाः अग्रे गच्छतीत्यग्रेगाः 'विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इत्याकारः । यज्ञप्रीः यज्ञेन प्रीयते तुष्यतीति यज्ञप्रीः । शिवः कल्याणकरः ॥ ३१॥

द्वात्रिंशी।
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।
नि॒युत्वा॒न्त्सोम॑पीतये ।। ३२ ।।
उ० वायो ये । हे वायो, ये ते तव । सहस्रिणः सहस्रसंख्याभिर्युक्ताः । रथासः रथा एव रथासः । तेभिः तैः आगहि आगच्छ । नियुत्वान्भूत्वा सोमपीतये सोमपानाय ॥ ३२॥ -
म० हे वायो, ये ते तव सहस्रिणः सहस्रसंख्याका रथासः रथाः तेभिस्तैः रथैः आगहि आगच्छ । किमर्थं । सोमपानाय । कीदृशस्त्वम् । नियुत्वान् अश्वायुक्तः । नियुतो वायोरिति निघण्टूक्तेः ॥ ३२॥

त्रयस्त्रिंशी।
एक॑या च द॒शभि॑श्च स्वभूते॒ द्वाभ्या॑मि॒ष्टये॑ विᳪश॒ती च॑ ।
ति॒सृभि॑श्च॒ वह॑से त्रि॒ᳪशता॑ च नि॒युद्भि॑र्वायवि॒ह ता विमु॑ञ्च ।। ३३ ।।
उ० एकया च एकस्यां वायव्यायामृचि पात्राणि विमुच्यन्ते । हे वायो, स्वभूते स्वकीया भूतिर्यस्य जगत्सर्वं स स्वभूतिः । यानि पात्राणि वहसे इष्टये देवयज्यायै । एकया च नियुता दशभिश्च नियुद्भिः द्वाभ्यां च नियुद्भ्याम् । विंशती च । विंशतिशब्दस्य पूर्वसवर्णदीर्घ आदेशः । विंशत्या च नियुद्भिः । तिसृभिश्च त्रिंशता च नियुद्भिरेव । ता तानि पात्राणि इह विमुञ्च ॥ ३३॥ -
म० त्रिष्टुप् अनयर्चा पात्राणि मुच्यन्ते । स्वा निजा भूतिः समृद्धिर्जगद्रूपा यस्य स स्वभूतिः हे स्वभूते, हे वायो, एकया दशभिः द्वाभ्यां विंशती विंशत्या पूर्वसवर्णः । तिसृभिः त्रिंशता च नियुद्भिः अश्वाभिः कृत्वा । इष्टये यज्ञाय त्वं यानि पात्राणि वहसे ता तानि पात्राणि इह यज्ञे विमुञ्च । पञ्च चकाराः समुच्चयार्थाः ॥ ३३ ॥