पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निरेके निर्गतः रेकः रेचनं रेकः शून्यता यस्मात् तादृशे बहुजनाकीर्णे स्थाने । कीदृशं वायुम् । श्वेतं श्वेतवर्णम् । तथा वसुधितिं वसुनो धनस्य धितिर्धारणं यत्र तं धनस्य धारयितारम् ॥ २४ ॥

पञ्चविंशी।
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वाना॒ᳪ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। २५ ।।
उ० आपो ह । 'आपो ह वा इदमग्रे सलिलमेवासीत्' इत्येतद्ब्राह्मणं निदानभूतमनयोः कण्डिकयोः । आपः । पुराकल्पद्योतको ह इति निपातः । यत् । बृहतीः बृहत्यः महत्यः । विश्वं सर्वम् आत्मत्वेन । आयन् प्रापुः । गर्भं हिरण्यगर्भलक्षणं दधानाः । जनयन्तीः जनयिष्यन्त्यः । अग्निम् अग्निरूपं हिरण्यगर्भम् । हिरण्यगर्भवचनो वा अग्निशब्दः । ततः गर्भात्संवत्सरोषितात् देवानां मध्ये समवर्तत समभवत् असुः प्राणात्मकः एकः देवानां । स हि लिङ्गशरीरः य इत्थंभूतो हिरण्यगर्भः । तस्मै कस्मै प्रजापतये हविषा विधेम हविर्दद्म इति विभक्तिव्यत्ययः ॥ २५ ॥
म० द्वे प्रजापतिदेवत्ये त्रिष्टुभौ हिरण्यगर्भदृष्टे प्रथमा द्व्यधिका । 'आपो ह वा इदमग्रे सलिलमेवास' (११।१। ६।१) इति ब्राह्मणमेतयोः कण्डिकयोर्निदानभूतं बोध्यम् । ह प्रसिद्धौ । यत् यदा पुरा आपो जलानि विश्वमायन् प्रापुः । कीदृश्य आपः । बृहतीः बृहत्यो महत्यः बहुलाः । तथा गर्भं हिरण्यगर्भलक्षणं दधानाः धारयन्त्यः । अतएवाग्निं जनयन्तीः अग्निरूपं हिरण्यगर्भं जनयन्त्यः उत्पादयिष्यन्त्यः । ततो गर्भात्संवत्सरोषितात् देवानामसुः प्राणरूप आत्मा लिङ्गशरीररूपो हिरण्यगर्भः समवर्तत उदपद्यत । कस्मै प्रजापतिरूपाय देवाय हिरण्यगर्भाय हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः विधतिर्दानार्थः ॥ २५ ॥

षड्विंशी।
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। २६ ।।
उ० यश्चित् । योऽपि देवः अन्तर्यामी। आपः अपः इति विभक्तिव्यत्ययः । महिना महाभाग्येन । पर्यपश्यत् परितो दृष्टवान् । दक्षं प्रजापतिं दधानाः जनयन्तीः यज्ञं सृष्टियज्ञं । यश्च देवेष्वपि अधिदेवः एक आसीत् तस्मै कस्मै प्रजापतये हविषा विधेम हविर्दद्म इति विभक्तिव्यत्ययः ॥ २६ ॥
म०चिदप्यर्थः । यो देवोऽन्तर्यामी महिना महिम्ना आपः। विभक्तिव्यत्ययः । अपः पूर्वोक्ताः पर्यपश्यत् सर्वतो ददर्श । कीदृशीः । दक्षं कुशलं प्रजापतिं दधानाः । यज्ञं जनयन्तीः। यज्ञशब्देन यज्ञकर्त्री प्रजा उच्यते । सृष्टिकर्त्रीरित्यर्थः । यश्च "देवेष्वधि अधिकः एको मुख्यो देव आसीत् । तस्मै देवाय हविर्दद्मः ॥ २६ ॥

सप्तविंशी।
प्र याभि॒र्यासि॑ दा॒श्वाᳪस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे ।
नि नो॑ र॒यिᳪ सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राध॑: ।। २७ ।।
उ० प्रयाहि प्रयासि याभिर्नियुद्भिः । नियुच्छब्द उभयलिङ्गः स्त्रियां पुंसि च । दाश्वांसं यजमानं 'अच्छाभेराप्तुमिति शाकपूणिः' । हवींषि दत्तवन्तं यजमानमभि । हे वायो, इष्टये यागाय एषणाय वा । दुरोणे यज्ञगृहे वर्तमानं यजमानम् । ताभिर्नियुद्भिरागत्य । नो रयिं सुभोजसं युवस्व । निपूर्वो यौतिर्दानार्थः । नियुवस्व देहि नोऽस्मभ्यं रयिं धनम् । किंभूतम् । सुभोजसम् साधु भुज्यत इति सुभोजाः तं सुभोजसम् । किंच । वीरं पुत्रम् गव्यं च राधः अश्व्यं च राधो धनम् नियुवस्व इति ॥ २७ ॥
म०. द्वे वायुदेवत्ये त्रिष्टुभौ वसिष्ठदृष्टे। हे वायो, त्वं याभिर्नियुद्भिरश्वाभिः कृत्वा इष्टये यागाय दुरोणे यज्ञगृहे वर्तमानं दाश्वांसं हविर्दत्तवन्तं यजमानमच्छ अभिमुखं प्रयासि गच्छसि । 'निपातस्य च' (पा० ६ । ३ । १३६) इति संहितायामच्छा इति दीर्घः । 'व्यवहिताश्च' (पा० १।४ । ८२) इति प्रणयासीत्यस्य व्यवधानम् । ताभिर्नियुद्भिरागत्य नोऽस्मभ्यं रयिं धनं नियुवस्व देहि । नियौतिर्दानार्थः व्यत्ययेन शप्रत्ययः । कीदृशं रयिम् । सुभोजसं सुष्ठु भुज्यत इति सुभोजास्तम् । भुजेरसुन्प्रत्ययः । किंच वीरं पुत्रं गव्यं गोसंबन्धि अश्वमश्वसंबन्धि गोऽश्वरूपं राधः धनं च नियुवस्व ॥ २७ ॥

अष्टाविंशी।
आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रᳪ स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ।। २८ ।।
उ० आ नः । आ उपयाहि नः अस्माकम् अध्वरं यज्ञम् । नियुद्भिः अश्वैः । शतिनीभिः शतानि विद्यन्ते यासु ताः शतिन्यः ताभिः शतिनीभिः सहस्रिणीभिश्च । एतदुक्तं भवति । बहूनामपि वाहनानां वयं तर्पयितुं क्षमाः । एत्य च हे वायो, अस्मिन्सवने तृतीयसवने मादयस्व तृप्यस्व । इदानीमृत्विजः पादेनाह । यूयं पात पालयत स्वस्तिभिः अविनाशैः सदा नः अस्मान् ॥ २८ ॥ -
म० हे वायो, नियुद्भिरश्वाभिः नोऽस्माकमध्वरं यज्ञमुपयाहि । कीदृशीभिः । शतिनीभिः सहस्रिणीभिः शतं सहस्रं च संख्या यासां ताभिः वयं बहुवाहनतर्पणे शक्ता इति भावः ।