पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यास्कः । कीदृशं रायस्पोषम् । नोऽस्माकं तुरीपम् तुरा वेगेन आप्नोति तुरीपं शीघ्रप्रापकम् । अद्भुतं महान्तम् । पुरुक्षु पुरुषु बहुषु क्षियति निवसति पुरुक्षु 'सुपां सुलुक्' (पा० ७ । १।३९) इत्यमो लुक् । क्षियतेरौणादिको डुप्रत्ययः । सुवीर्यं साधु वीर्यं सामर्थ्यं येन तम् । ईदृशं धनं देहीत्यर्थः ॥ २० ॥

एकविंशी।
वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ ।
अ॒ग्निर्ह॒व्यᳪ श॑मि॒ता सू॑दयाति ।। २१ ।।
उ० वनस्पतेऽव । हे वनस्पते, अवसृज । स्रङ्मुखयोरवाचीनं निक्षिप । हवींषि रराणः । यद्वा 'रा दाने' ददानः । त्मना 'मन्त्रेष्वाड्यादेरात्मनः' इत्याकारलोपः । देवेषु विषयभूतेषु । कस्मात्त्वमेवमुच्यसेऽस्माभिरित्यत आह । यतः अग्निः शमिता शामित्रमिति तद्धितलोपः। हव्यं हविर्जातम् सूदयाति । 'षूद क्षरणे' संस्करोति । अतो हे वनस्पते, अवसृजेति संबन्धः ॥ २१ ॥
म० अग्निः शमिता हव्यं सूदयाति सूदयति संस्करोति यतः अतो हे वनस्पते, तत्संस्कृतं हव्यमवसृज स्रुङ्मुखतोऽवाचीनां क्षिप । कीदृशस्त्वम् । त्मना आत्मना देवेषु रराणः हविर्ददानः ‘रा दाने' कानच् । मन्त्रेष्वाङ्यादेरात्मनः' (पा० ६ । ४ । १४१) इत्यालोपः ॥ २१ ॥

द्वाविंशी।
अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् ।
विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम् ।। २२ ।।
उ० अग्ने स्वाहा । हे जातवेदः, स्वाहा कृणुहि स्वाहाकृतिं यज । इन्द्राय हव्यं हविः । प्रयच्छेति शेषः । विश्वेदेवाश्च इदं हविः जुषन्तां सेवन्ताम् ॥ २२ ॥
म० हे अग्ने, हे जातवेदः जातप्रज्ञान, हव्यमिन्द्राय स्वाहा कृणुहि स्वाहाकारेण प्रयच्छ । किंच विश्वेदेवा इदं हविर्जुषन्तां सेवन्ताम् ॥ २२ ॥

त्रयोविंशी ।
पीवो॑ अन्ना रयि॒वृध॑: सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑: स्वप॒त्यानि॑ चक्रुः ।। २३ ।।
उ० अथैनं वायवे नियुत्वते शुक्लं तूपरमालभत इत्यस्य पशोः पीवो अन्ना रयिवृधः' इत्याद्याः षट् याज्यानुवाक्यास्त्रिष्टुभो वायव्याः । तत्र च प्राजापत्यः पशुपुरोडाश इति पठ्यते । तस्य आपो ह यत् द्वे प्राजापत्ये । यान् नियुतः अश्वान् । पीवोअन्नान् पीवः पुष्टमन्नं येषामिति पीवोअन्नान् रयिं धनं ये वर्धयन्ति ते रयिवृधः । सुमेधाः कल्याणप्रज्ञानो वायुः। श्वेतः वायोर्वर्णवचनम् ‘शुक्लो हि वायुः' इति श्रुतिः सिषक्ति सेचति । नियुतामभिश्रीः नियुतामभ्याश्रयणीयः । अथ यान्वायुः सिषक्ति ते नियुतोऽश्वा वायवेऽर्थाय । समनसः समनस्काः सन्तः वितस्थुः तान् विश्वा विश्वानि । इत् पादपूरणे । नरः मनुष्या ऋत्विग्यजमानाः स्वपत्यानि शोभनानामपत्यानां यानि कर्माणि तानि चक्रुः कुर्वन्ति । एतदुक्तं भवति । वाय्वश्वसंयोगे सति सर्वमिदं यज्ञादि प्रवर्तते इति ॥ २३ ॥
म० अथैतं वायवे नियुत्वते शुक्लं तूपरमालभते इति हुतस्य पशोः पीवोअन्ना रयिवृध इत्याद्याः षट् याज्यानुवाक्याः । द्वे वायुदेवत्ये त्रिष्टुभौ वसिष्ठदृष्टे । 'शुक्लो हि वायुः' | इति श्रुतेः । श्वेतो वायुः यान्नियुतोश्वान् सिषक्ति सेवते ते नियुतः समनसः सममनस्काः सन्तो वायवेऽर्थाय वितस्थुर्वि
शेषेण तिष्ठन्ति । कीदृशान्नियुतः । पीवोअन्ना पीवः पुष्टमन्नं येषां तान् । नकारलोपः 'प्रकृत्यान्तःपादम्' (पा० ६ । १ ।११५) इति पीवोअन्नानित्यत्र सन्ध्यभावः । तथा रयिवृधः रयिं धनं वर्धयन्ति तान् । कीदृशः श्वेतः । सुमेधा शोभना मेधा बुद्धिर्यस्य । नियुतामभिश्रीः अश्वानामाश्रयणीयः । एवमश्वयोगे वायुना कृते नरो मनुष्या ऋत्विजः विश्वा इत् विश्वानि सर्वाण्येव स्वपत्यानि शोभनापत्यप्रापकाणि चक्रुः कर्माणीति शेषः ॥ २३ ॥

चतुर्विंशी।
रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।
अध॑ वा॒युं नि॒युत॑: सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ।। २४ ।।
उ० राये नु । राये धनाय उदकलक्षणाय नु क्षिप्रम् यं वायुं जज्ञतुः जनयामासतुः रोदसी द्यावापृथिव्यौ इमे । अनयोर्द्यावापृथिव्योः संयोगेऽपि सति वायुमन्तरेण जगद्धारणं नोपपद्यत इति जनितवत्यौ द्यावापृथिव्यौ । यं वायु च राये धनायोदकलक्षणाय । देवी धिषणा धियं बुद्धिं कर्म वा सनोति संभजते इति धिषणा वाक् मध्यस्थाना धाति धारयति । देवं दानादिगुणयुक्तम् । अध अथेत्यर्थः । समनन्तरमेव । तं वायुं नियुतः अश्वाः सश्चतः सरन्तः सेवन्तः स्वाः स्वकीयाः। उत अपिच श्वेतं वायुं वसुधितिं वसुनो धनस्योदकलक्षणस्य धारयितारम् । निरेके जनैराकीर्णप्रदेशेऽवस्थितं वायुम् । नियुतः सश्चतः स्वा इत्यनुवर्तते ॥ २४ ॥
म० इमे रोदसी द्यावापृथिव्यौ यं वायुं जज्ञतुः उत्पादयामासतुः नु क्षिप्रम् । किमर्थम् । राये धनायोदकरूपाय । धियं सनोति ददाति धिषणा वाक् देवी देवं वायुं धाति धारयति ।
शपो लुक् । राये धनाय । रोदस्योः सद्भावेऽपि वायुं विना जगद्धारणाशक्तेर्वायुरुत्पादितः । धिषणेति ह्रस्वमार्षम् । अध | अथ उत्पत्त्यनन्तरमेव उत निश्चितं स्वा नियुतो निजाश्वा । वायुं सश्चतः सचन्ते सेवन्ते 'षच् सेवने पुरुषव्यत्ययः । क्व ।