पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उष्णिहः । अष्टम्याद्ये द्वे गायत्र्यौ । 'ता विषमा विषमाक्षरपादा' इत्यादि श्रुतेः । ता आग्नेय्यः प्राजापत्याः । 'यदग्निरपश्यत्तेनाग्नेय्यः यत्प्रजापतिमाप्रीणात्तेन प्राजापत्याः' इति च श्रुतिः । अग्निर्ऋषिः । प्रजापतिश्चाग्निरूपेण संस्तूयते । अस्याग्नेः प्रजापतिरूपेण संस्तूयमानस्य ऊर्ध्वाः प्रगुणाः देवमार्गेण यायिन्यः समिधो भवन्ति । ऊर्ध्वा शुक्रा ऊर्ध्वानि च शुक्राणि शोचींष्यर्चींषि भवन्ति । द्युमत्तमा दीप्तिमत्तमा च वीर्यवत्तमानि चेत्यर्थः । सुप्रतीकस्य सुमुखस्य यजमानस्य सूनोः । स ह्येनं जनयति । य इत्थंभूतोऽग्निस्तं वयं स्तुम इति वाक्यशेषः ॥ ११ ॥
म० द्वादशाप्रीदेवत्या उष्णिहो विषमपादा आग्नेय्योऽग्निना दृष्टाः । अग्निः प्रजापतित्वेन स्तूयते तेन प्राजापत्या अपि । ता आग्नेय्यः प्राजापत्याः 'यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापतिमाप्रीणात्तेन प्राजापत्याः' इति श्रुतेः । अस्याग्नेः समिधः ऊर्ध्वाः देवगामिन्यो भवन्ति । शोचींषि तेजांस्यपि ऊर्ध्वा ऊर्ध्वानि भवन्ति । कीदृशानि शोचींषि । शुक्रा शुक्राणि शुद्धानि । द्युमत्तमा द्यौः दीप्तिः प्रकाशो येषां तानि द्युमन्ति अत्यन्तं द्युमन्ति द्युमत्तमानि विश्वप्रकाशकानि । कीदृशस्याग्नेः । सुप्रतीकस्य सुष्ठु प्रतीकं मुखं यस्य । तथा सूनोः यजमानपुत्रस्य 'स यदेनं जनयति तेनास्यैष सूनुः' इति श्रुतेः । य ईदृशस्तं स्तुम इति शेषः ॥ ११ ॥

द्वादशी।
तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः ।
प॒थो अ॑नक्तु॒ मध्वा॑ घृ॒तेन॑ ।। १२ ।।
उ० तनूनपात् । आज्यस्य अग्नेर्वा । यः तनूनां गवां नपात् आज्याभिप्रायमेतदुच्यते । अथवा योऽग्निः तनूनामपां नपात् पौत्रः । असुरः असुमान् प्राणवान् । रो मत्वर्थीयः । यद्वा असुरः वसुरः धनवान् । अस्मिन्पक्षे आदिलोपः । विश्ववेदाः सर्वधनः सर्वज्ञो वा । देवो दानादिगुणयुक्तः ।। देवेष्वपि देवः दीप्तिमान् । य ईदृशः सः पथः यज्ञमार्गान् अनक्तु । मध्वा मधुस्वादुना घृतेन । इत्थं नाम प्रभूतं यज्ञे घृतमस्तु येन मार्गा अभ्यक्ताः स्युरित्यभिप्रायः ॥ १२॥
म. देवोऽग्निः मध्वा मधुना मधुरेण घृतेन पथो यज्ञमार्गाननक्तु । मध्वेति नुमभावः अनित्यमागमशासनमित्युक्तेः । पथो अनक्तु इत्यत्र 'प्रकृत्यान्तःपादमव्यपरे' (पा० ६।१। ११५) इति सन्ध्यभावः । यज्ञे बहु घृतमस्तु । येन मार्गा घृताभ्यक्ताः स्युरिति भावः । कीदृशो देवः । तनूनपात् तनूनामपां नपात् पौत्रः । अद्भ्यो वृक्षा जायन्ते तेभ्योऽग्निरित्यपां पौत्रः । असुरः असवोऽस्य सन्ति प्राणवान् । रो मत्वर्थः । विश्ववेदाः सर्वधनः । देवेषु अपि देवः दीप्तिमान् श्रेष्ठः ॥ १२॥

त्रयोदशी।
मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शᳪसो॑ अग्ने ।
सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः ।। १३ ।।
उ० मध्वा यज्ञम् । हे अग्ने, यस्त्वं मध्वा मधुस्वादुना घृतेन यज्ञं नक्षसे व्याप्नोषि । नक्षतिर्व्याप्तिकर्मा । कथंभूतः । प्रीणानः देवान् । नराशंसश्च नरैर्ऋत्विग्भिर्यः शंस्यते स्तूयते स तथोक्तः । सुकृच्च साधुकृच्च । देवः सविता । विश्ववारः सर्वस्य वरणीयश्च भवसि । तं त्वां स्तुम इति शेषः ॥ १३ ॥
म० हे अग्ने, त्वं मध्वा स्वादुना घृतेन यज्ञं नक्षसे व्याप्नोषि । नक्षतिर्व्याप्तिकर्मा । कीदृशस्त्वम् । प्रीणानः प्रीणीतेसौ प्रीणानः देवान् तर्पयन् । नराशंसः नरैर्ऋत्विग्भिराशंस्यते स्तूयते नराशंसः । सुकृत् शोभनकारी । देवः दीप्तिमान् । सविता विश्वस्योत्पादकः । विश्वेन व्रियते सेव्यते विश्ववारः विश्वं वृणोति अङ्गीकरोतीति वा कर्मण्यण् । सर्वस्य वरणीयः सर्वाङ्गीकर्ता वा ॥ १३॥

चतुर्दशी ।
अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा ।
अ॒ग्निᳪ स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑ ।। १४ ।।
उ० अच्छायम् । 'अच्छाभेराप्तुमिति शाकपूणिः' । अच्छ एति अभ्येति । अग्निम् अयमध्वर्युः । शवसा स्वकीयेन प्रज्ञानबलेन युक्तः । घृतेन च गृहीतेन ईडानः स्तुवन् । वह्निर्वोढा । नमसा चानेन हविर्लक्षणेनाभ्युद्यतेन सुचः बाहुभ्यां गृहीत्वा । अध्वरेषु प्रयत्सु यज्ञेषु वर्तमानेषु ॥१४॥ -
म० अयमध्वर्युः अध्वरेषु प्रयत्सु वर्तमानेषु सत्सु अग्निमच्छ एति अभ्येति । 'अच्छाभेराप्तुमिति शाकपूणिः' (निरु. | ५। २८) । कीदृशः । शवसा ज्ञानबलेन ईडानः 'ईड स्तुतौ' शानच् । तथा वह्निः वहति यज्ञभारमिति वह्निः यज्ञनिर्वाहकः । किं कृत्वा । घृतेन नमसा अन्नेन हविर्लक्षणेनोपलक्षिताः स्रुचो जुह्वाद्या गृहीत्वेति शेषः ॥ १४ ॥

पञ्चदशी ।
स य॑क्षदस्य महि॒मान॑म॒ग्नेः स ईं॑ म॒न्द्रा सु॑प्र॒यस॑: ।
वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च ।। १५ ।।
उ० स यक्षत् । स एवाध्वर्युः यक्षत् यजतु । अस्याग्नेः संबन्धि महिमानं महाभाग्यम् । स ईम् स एव च मन्द्रा मन्दनीयान्यन्नानि यजतु । कथंभूतस्याग्नेः । सुप्रयसः । प्रय इत्यन्ननाम । शोभनानि प्रयांस्यन्नानि हविर्लक्षणानि यस्य स सुप्रयाः तस्य सुप्रयसः । अथ कस्मादन्यदेवताः परित्यज्याग्नेर्महिमानं यक्षदित्युच्यत इतिचेदत आह । वसुश्चेतिष्ठो वसुधातमश्च । यतोऽसौ वसुः वासयिता चेतिष्ठो