पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ऽतिशयेन चेतयिता । कृताकृतगुणविशेषः । वसूनां धनानां धातमो दातृतमश्च अतः अग्निः स्तूयते ॥ १५॥
म० सोऽध्वर्युरस्याग्नेः महिमानं यक्षत् यजतु 'सिब्बहुलं लेटि' (पा० ३।१।३४) 'लेटोऽडाटौ' 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ९४-९७) इति सूत्रैर्यक्षदिति रूपम् । सः ईम् स च मन्द्रा मन्द्राणि मदजनकानि हवींषि च यजतु ददातु । कीदृशस्याग्नेः । सुप्रयसः प्रयस् इत्यन्ननाम । शोभनानि प्रयांसि यस्य सुप्रयास्तस्य । कीदृशस्याग्नेर्महिमानं यजतु । यो वसुः वासयिता । चेतिष्ठः अतिचेतयिता । वसुधातमः वसूनां धनानां दातृतमः । क्विबन्तात्तमप् ॥ १५ ॥

षोडशी।
द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒ता द॑दन्ते अ॒ग्नेः ।
उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः ।। १६ ।।
उ० द्वारो देवीः । अस्याग्नेः प्रथमम् द्वारः देव्यः व्रता व्रतानि कर्माणि ददन्ते धारयन्ति । ताभ्यः अनु पश्चात् । विश्वे विश्वेदेवाः । देवशब्दलोपः । व्यवहितपदप्रायोऽर्धर्चः। कथंभूता द्वारः । उरुव्यचसः बहुव्यञ्जनाः । धाम्ना स्थानेन । ऋत्विक्संबन्धिना। पत्यमानाः। 'पत ऐश्वर्ये' ऐश्वर्यं कुर्वाणाः। या इत्थंभूता यज्ञगृहद्वारस्ता वयं स्तुम इति शेषः ॥ १६ ॥
म० द्वारो देव्योऽस्याग्नेर्व्रता व्रतानि कर्माणि ददन्ते धारयन्ति 'दद दाने धृतौ च' । अनु पश्चात् विश्वे सर्वे देवाः अग्निव्रतानि ददन्ते । कीदृश्यो द्वारः । उरुव्यचसः उरु विशालं व्यचोऽवकाशो यासां ताः विशालान्तराः । तथा धाम्ना स्थानेन पत्यमानाः ‘पत ऐश्वर्ये' दिवादिरात्मनेपदी । पत्यन्ते ईशते ताः पत्यमानाः स्थानैरैश्वर्यं कुर्वाणाः । ऋत्विजां स्थानानि ददाना इत्यर्थः । ताः स्तुमः ॥ १६ ॥

सप्तदशी।
ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑ उ॒षासा॒नक्ता॑ ।
इ॒मं य॒ज्ञमव॑तामध्व॒रं न॑: ।। १७ ।।
उ० ते अस्य । ते उषासानक्ता उषाश्चाहो नक्ता च रात्रिः । अस्याग्नेः । योना योनौ आहवनीयाख्ये स्थितस्य । योषणे भार्ये । दिव्ये दिवि भवे । नकारोऽनर्थकः । ते इमं यज्ञम् अवतां सुगुप्तं कुरुताम् । अध्वरं सोमं च नोऽस्माकं संपादयतामिति शेषः॥ १७ ॥
म० उषाश्च नक्ता रात्रिश्च उषासानक्ता । उषस उषासादेशो द्वन्द्वे । ते प्रसिद्धे उषासानक्ता अहोरात्रिदेव्यौ नोऽस्माकमिमं यज्ञमवतां रक्षताम् । कीदृश्यौ ते । अस्याग्नेः योषणे भार्ये । तथा दिव्ये दिवि भवे स्वर्गस्थे । कीदृशस्य । अग्नेः योनौ गार्हपत्यस्थाने स्थितस्येति शेषः । नकारः पादपूरणः । कीदृशं यज्ञम् । अध्वरम् 'ध्वृ कोटिल्ये' न ध्वरतीत्यध्वरस्तम् । अकुटिलं शास्त्रोक्तमित्यर्थः ॥ १७ ॥

अष्टादशी।
दै॑व्या॒ होतारा ऊ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् ।
कृ॒णु॒तं न॒: स्वि॒ष्ट्म् ।। १८ ।।
उ० दैव्या होतारा । अयं चाग्निरसौ च मध्यमः हे दैव्यौ होतारौ, ऊर्ध्वमध्वरं नः कुरुतम् देवयानयायिनं कुरुतमित्यभिप्रायः । अग्नेर्जिह्वामभिगृणीतम् । अग्निमुखं साधु वर्णयतमित्यर्थः । कृणुतं कुरुतं च नः अस्माकं स्विष्टिं साधुयजनम् ॥ १८॥
म० अयं चाग्निरसौ च मध्यमो वायुः हे दैव्याहोतारौ
अग्निवायू, युवां नोऽस्माकं स्विष्टिं शोभनं यजनं कृणुतं कुरुतम् । किंच नोऽस्माकमध्वरं यज्ञमूर्ध्वं कृणुतं देवमार्गगामिनं कुरुतम् । अग्नेर्जिह्वां ज्वालामभिगृणीतं वर्णयतम् समीची वह्निज्वालेति स्तुतमित्यर्थः ॥ १८ ॥

एकोनविंशी।
ति॒स्रो दे॒वीर्ब॒र्हिरेदᳪ स॑द॒न्त्विडा॒ सर॑स्वती॒ भार॑ती ।
म॒ही गृ॑णा॒ना ।। १९ ।।
उ०. तिस्रो देवीः तिस्रः देव्यः । बर्हिः आ इदं सदन्तु आसदन्तु आसीदन्तु इदं बर्हिः । कतमास्ताः । इडाः पृथिवीस्थाना । सरस्वती च मध्यस्थाना । मही स्तुवन्तीति प्रत्येकं तिसृभिरपि योज्यम् । यद्वा एकमेव वाक्यम् । तिस्रो देव्यो बर्हिरिदमासदन्तु इडासरस्वतीभारत्यो महत्यो गृणाना इति ॥ १९॥ ।
म० तिस्रो देव्यः इदं बर्हिरासदन्तु आसीदन्तु । छान्दसः । सीदादेशाभावः 'व्यवहिताश्च' (पा० १।४ । ८२) इत्याङा सह क्रियापदव्यवधानम् । कास्ता अत आह । इडा पृथिवीस्थाना सरस्वती मध्यस्थाना भारती द्युस्थाना । मही महती गृणाना स्तुवन्तीति विशेषणद्वयं तिसृणाम् ॥ १९ ॥

विंशी। ।
तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर्य॑म् ।
रा॒यस्पोषं॒ वि ष्य॑तु॒ नाभि॑म॒स्मे ।। २० ।।
उ० तन्नः तत् रायस्पोषम् नः अस्मभ्यमस्मदर्थम् । तुरीपं तूर्णमश्नुते तूर्णं चाप्नोति । अद्भुतं महत् अभूतपूर्वम् । पुरुक्षु पुरुषु बहुषु यत्क्षियति निवसति तत्पुरुक्षु । त्वष्टा देवः सुवीर्यं साधुवीर्यम् । रायस्पोषविषयान्येतानि चत्वारि पदानि । विष्यतु । स्यतिरुपसृष्टो विमोचने । विमुञ्चतु । नाभिमस्मे राष्ट्रमध्यं प्रत्यस्मासु ॥२०॥
म० त्वष्टा देवः तं प्रसिद्धं रायो धनस्य पोषं पुष्टिमस्मे अस्माकं नाभिं प्रति विष्यतु विमुञ्चतु । नाभौ मुक्तमुत्सङ्गे पततीति भावः । 'षोऽन्तकर्मणि' 'ओतः श्यनि' (पा. ७ । ३ । ७१) इत्योकारलोपः । 'स्यतिरुपसृष्टो विमोचने' इति