पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्रेधतिः कुत्सितकर्मा । स्रेधन्ति स्रिधः क्विप् । कुत्सिताचारान् अतिक्रम्य । अचित्तिमन्यमनस्कतामतिक्रम्य । न रातिर्दानं यस्य सोऽरातिस्तमदातारमतिक्रम्य । दुष्टान्सर्वानतिक्रम्य पापं नाशयेत्यर्थः । किंच अथानन्तरं हे अग्ने, अस्मभ्यं सहवीरां वीरैः पुत्रैः सहितां रयिं दाः देहि लुङ् ॥ ६ ॥

सप्तमी।
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राडग्ने॑ क्षत्र॒भृद्दी॑दिही॒ह ।
विश्वा॒ आशा॑: प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वेभि॑र॒द्य परि॑ पाहि नो वृ॒धे ।। ७ ।।
उ० अनाधृष्यः । यस्त्वमनाधृष्यः अशक्यः खलीकर्तुम् । जातवेदाः जातप्रज्ञानश्च । अनिष्टृतः अनुपहिं सितश्च । स्तृणातेरेतद्रूपम् । विराट् च ‘राजृ दीप्तौ' । विराजनशीलः विराट् क्षेत्रभृच्च । तं त्वां ब्रवीमि हे अग्ने, दीदिहि दीप्यस्व । इह कर्मणि वर्तमानः । विश्वाः सर्वाः आशा दिशः । किंच प्रमुञ्चन्मानुषीर्भियः विक्षिपन्मानुषाणि भयानि जन्मजरामृत्युशोकदैन्यादीनि । शिवेभिः शिवैः शान्तैः (अर्चिभिः) अद्यास्मिन्द्यवि । परिपाहि नः सर्वतो गोपायास्मान् । किमर्थम् । वृधे वर्धनाय ॥ ७ ॥
म. हे अग्ने, इह कर्मणि वर्तमानस्त्वं विश्वा आशाः दीदिहि सर्वाः दिशः प्रकाशय । कीदृशस्त्वम् । अनाधृष्यः पराभवितुमशक्यः । जातवेदाः जातं वेदो धनं ज्ञानं वा यस्मात् । अनिष्टृतः न हिंसितः केनापि 'स्तृ हिंसायां' क्तान्तः । विराट् विविधं राजमानः क्षत्रभृत् क्षत्रं बिभर्ति पुष्णाति । किंच मानुषीः मनुष्यसंबन्धिनीर्भियः जन्मजरामृतिदैन्यशोकादिकाः प्रमुञ्चन्निवर्तयन्सन् शिवेभिः शिवैः शान्तैस्तेभिरद्य वृधे वृद्ध्यै नोऽस्मान्परिपाहि । वर्धनं वृत् तस्मै वृधे संपदादित्वाद्भावे क्विप् ॥ ७ ॥

अष्टमी।
बृह॑स्पते सवितर्बो॒धयै॑न॒ᳪ सᳪशि॑तं चित्सन्त॒राᳪ सᳪ शि॑शाधि ।
व॒र्धयै॑नं मह॒ते सौ॑भगाय॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।। ८ ।।
उ० बृहस्पते सवितः । हे बृहस्पते, हे सवितः, बोधय कामेष्ववगतार्थं कुरु । एनं यजमानं । किंच । संशितं चित् । चिच्छब्दोऽप्यर्थे । संशितव्रतमपि यजमानम् संतरामतितराम् संशिशाधि शिक्षय । वर्धय च एनं यजमानम् । महते सौभगाय ऐश्वर्याय । विश्वे च देवा एनं यजमानम् अनुमदन्तु उत्साहयन्तु । बृहस्पतिशब्देन सवितृशब्देन चात्राग्निरेवोच्यते । अथवा वाक्यद्वयम् । एकेन बृहस्पतिरुक्तः अपरेण सविता ॥ ८॥
म० हे बृहस्पते हे सवितः, एनं यजमानं बोधय कर्माभिज्ञं कुरु । किंच चिदप्यर्थे । संशितं चित् संशितं शिक्षितमपि संतरामतितरां संशिशाधि शिक्षय । शासेः शपः श्लौ द्वित्वम् छान्दसमभ्यासस्येत्वम् । किंच महते सौभगाय ऐश्वर्याय एनं वर्धय । विश्वे देवाः एनं यजमानमनुमदन्तु तृप्ता हृष्टा वा भवन्तु । बृहस्पतिसवितृशब्दाभ्यां सामिधेन्यङ्गभूतोऽग्निरेवोच्यते वाक्यद्वयं वा । एकेन बृहस्पतिरुक्तोऽन्येन सविता ॥ ८॥

नवमी।
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ।। ९ ।।
उ० अमुत्र भूयात् । अमुत्रामुष्मिँल्लोके यत् शरीरं भूयात् । अध अथ यत् यमस्य सदने च शरीरं भूयात् । तस्मात् च हे बृहस्पते, अभिशस्तेः अभिशंसनाच्च अमुञ्चः । किंच प्रत्यौहतां प्रतिप्रेरयताम् अन्यत्र नयताम् । अश्विनौ मृत्युम् अस्माद्यजमानात् । कथंभूतावश्विनौ । देवानां भिषजौ हे अग्ने, शचीभिः । अत्रापि बृहस्पतिशब्द आमन्त्रितोऽग्निशब्दस्य द्रष्टव्यः । सामिधेनीप्रकरणस्याग्नेयत्वात् । ननु बृहस्पतिशब्दो नैघण्टुको न चाग्निशब्द इति 'ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत् तेनाग्नेय्यो यत्प्रजापतिᳪ समैधत तेन प्राजापत्या' इति श्रुतेः प्रजापतेः सर्वदेवात्मकत्वात् । 'तस्मादेनं प्रजापतिᳪ सन्तमग्निरित्याचक्षते' इति श्रुतेरदोषः ॥ ९॥
म० हे बृहस्पते, त्वममुत्रभूयादध अमुत्र परलोके भवनममुत्रभूयम् । 'भुवो भावे' (पा० ३। १ । १०७) इति क्यप् । परलोकगमनान्मरणान्मुञ्च । मरणाद्रक्षेत्यर्थः । लकारव्यत्ययः । अध अथ यत् यमस्य भयं परलोकभयं नरकपातादि तस्मादपि मुञ्च । किंच अभिशस्तेः अभिशापादपि । लोकापवादादपि मुञ्च । देवानां भिषजौ अश्विना अश्विनौ अस्माद्यजमानात् मृत्युं प्रत्यौहतां निवर्तयतां । कैः । शचीभिः कर्मभिः कृत्वा । अत्र बृहस्पतिरग्निरेव सामिधेनीप्रकरणस्याग्नेयत्वात् ॥ ९॥

दशमी।
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। १० ।।
उ० उद्वयमिति व्याख्यातम् ॥ १० ॥
म० व्याख्याता ( अ० २० । क० २१) ॥ १० ॥

एकादशी । .
ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीᳪष्य॒ग्नेः ।
द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः ।। ११ ।।
उ० ऊर्ध्वा अस्य । द्वादश आप्रियः प्रयाजदेवत्य