पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० त्वामग्ने । हे अग्ने, त्वाम् इमे ब्राह्मणाः ऋत्विजः वृणते वृण्वन्ति यागाय । यतएवमतः प्रार्थयामः । शिवः शान्तः हे अग्ने, संवरणे ब्राह्मणैः सह एकस्मिन्वरणे भव । ना अस्माकम् । त्वं देवो वयं च मर्त्या इत्यभिप्रायः । सपत्नहा अभिमातिजिच्च । सपत्नानां हन्ता च भवास्माकम् । अभिमातिशब्दोपि शत्रुवचनः । अत एवं व्याख्यायते । सपत्नानां हन्ता भव हतावशिष्टानां जेता च भवेति । किंच । स्वे गये स्वकीये गृहे । जागृहि अप्रयुच्छन् । 'युच्छी प्रमादे'। अप्रमाद्यन् उद्तमना इत्यर्थः ॥ ३ ॥
म० हे अग्ने, इमे ब्राह्मणाः ऋत्विजः त्वा त्वां वृणते 'वृङ् संभक्तौ' यागाय भजन्ति । अतो हे अग्ने, संवरणे ब्राह्मणैः सहैकस्मिन्वरणे सति नोऽस्माकं शिवः शान्तो भव । अस्माकं सपत्नहा अभिमातिजिच्च भव । अभिमातिरपि शत्रुः तत एवं व्याख्या । सपत्नानां हन्ता भव हतावशिष्टानां जेता च भव । किंच स्वे गये निजे गृहे जागृहि सावधानो भव । किं कुर्वन् । अप्रयुच्छन् अप्रमाद्यन् ॥ ३ ॥

चतुर्थी।
इ॒है॒वाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिण॑: ।
क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ।। ४ ।।
उ० इहैव । इह एव कर्मणि वर्तमानानामस्माकम् हे अग्ने, अधिधारय रयिं उपरि निक्षिप धनम् । किंच । मा त्वा त्वां निक्रन्नीचैः कुर्वन्तु अवज्ञया पश्यन्तु । पूर्वचितः पूर्वं ये अग्निं चितवन्तः । निकारिणः ज्ञानकर्मसमुच्चयातिशयेन येऽन्योन्यजन्मानि नीचैः कुर्वन्ति । किंच । क्षत्रम् हे अग्ने, सुयमं साधुयन्तृ अस्तु तुभ्यं तव । किंच उपसत्ता यजमानः। सह्युपसदनं करोत्यग्नेः । वर्धतां ते तव । अनिष्टृतः । 'स्तृ हिंसायाम्' । अनुपहिंसितः सन् ॥ ४ ॥
म० हे अग्ने, इहैवास्मास्वेव यजमानेषु रयिं धनं त्वमधिधारय अधिकं देहि । किंच पूर्वं चिन्वन्ति पूर्वचितः पूर्वमग्निं चितवन्तोऽतएव निकारिणः नितरां यज्ञकरणशीलाः त्वा त्वां मा निक्रन् मा नीचैः कुर्वन्तु । मावजानन्त्वित्यर्थः । करोतेः शपि लुप्ते लङि प्रथमबहुवचने रूपम् । किंच हे अग्ने, क्षत्रं क्षत्रजातिः तुभ्यं तव सुयममस्तु । सुखेन यन्तुं शक्यं सुयमं सुखेन वशीकर्तुं शक्यमस्तु । 'ईषद्दुःसुषु-' (पा० ३ । ३ । १२६) इति सुपूर्वाद्यमेः खल् । किंच ते तव उपसत्ता उपसदनकर्ता यष्टा अनिष्टृतः अनुपहिंसितः सन् वर्धताम् धनपुत्रादिभिरेधताम् । 'स्तृञ् हिंसायां' निष्टान्तः ॥ ४ ॥

पञ्चमी।
क्ष॒त्रेणा॑ग्ने॒ स्वायु॒: सᳪ र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व ।
स॒जा॒तानां॑ मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॒ दीदिही॒ह ।। ५ ।।
उ० क्षत्रेणाग्ने । क्षत्रेण संपाद्यात्मानम् हे अग्ने, स्वायुः साध्वायुः सन् । संभरस्व यज्ञं वोढुम् । मित्रेण च संपाद्यात्मानं मित्रधेये यतस्व । यथा मित्राणि धार्यन्ते तथा यत्नं कुरु । किंच सजातानां समानजन्मनाम् । मध्यमस्था एधि मध्यमस्थानो भव । यथा सजाता अपि यज्वानो भवन्ति तथा स्यादित्यभिप्रायः । किंच राज्ञां हे अग्ने, विहव्यः । विविधमाह्वातव्यः । दीदिहि दीप्यस्व । इह यज्ञगृहे । यथा राजानोऽपि यज्वानो भवेयुः तथास्त्वित्यभिप्रायः ॥५॥ ,
म० हे अग्ने, त्वं क्षत्रेण संरभस्व समारभस्व । ण्यन्तो बोध्यः । क्षत्रेण समारम्भय यज्ञमिति शेषः । क्षत्रियान्यज्ञं कारयेत्यर्थः । कीदृशस्त्वम् । स्वायुः शोभनमायुः जीवनं यस्य सः । यद्वा आयुः उकारान्तो मनुष्यवाची । शोभन आयुर्मनुष्यो यजमानो यस्य स स्वायुः । किंच हे अग्ने, मित्रेण सूर्येण सह वर्तमानः सन् मित्रधेये यतस्व । धातुं धारयितुं योग्यं धेयम् मित्रस्य यजमानस्य धेयं कार्यं यागलक्षणं तत्र यत्नं कुरु यजमानेन यज्ञं कारय । किंच सजातानां समानजन्मनां मध्यमस्थाः मध्यमे तिष्ठतीति क्विप् । मध्यमस्थ एधि भव । सजाता अपि यज्वानो भवन्त्वित्यर्थः । किंच हे अग्ने, इह यज्ञगृहे दीदिहि दीप्यस्व । दीव्यतेर्व्यत्ययेन शपः श्लुः 'श्लौ' । ( पा० ६ । १ । १०) इति द्वित्वम् 'तुजादीनां दीर्घः' (पा० ६।१।७) इत्यभ्यासदीर्घः । कीदृशस्त्वम् । राज्ञां विहव्यः । कर्तरि षष्ठी राजभिर्विविधं हूयते आहूयते विहव्यः । राजभिर्यज्ञे आह्वातव्यः ॥ ५ ॥

षष्ठी। ।
अति॒ निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने ।
विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ᳪ स॒हवी॑राᳪ र॒यिं दा॑: ।। ६ ।।
उ० अति निहः अतिक्रम्य निहन्तॄन् । निपूर्वस्य हन्तेः उः प्रत्ययः। प्रथमैकवचनस्य स्थाने द्वितीयाबहुवचनं वाक्यसंबन्धात् । अतिस्रिधः । स्रेधतिः कुत्सितकर्मा । अतिक्रम्य च कुत्सिताचरणान् । अत्यचित्तिम् । अचित्तिरन्यमनस्कता। अतिक्रम्य चान्यमनस्कताम् । अत्यरातिम् अरातिरनुपजीव्यो जनः तं चातिक्रम्य हे अग्ने, विश्वा ह्यग्ने दुरिता सहस्व विश्वानि दुरितानि सहस्व अभिभव । हिरनर्थकः । अथानन्तरम् । अस्मभ्यं सहवीरां सपुत्रां रयिं धनं दाः दद्याः ॥६॥
म० हे अग्ने, हि निश्चितं विश्वा विश्वानि सर्वाणि दुरिता दुरितानि पापानि त्वं सहस्व अभिभव । निवर्तयेत्यर्थः । किं कृत्वा । निहः निहन्ति निहः । निपूर्वाद्धन्तेर्डप्रत्ययः । सुपां सुलुगिति शसः सु आदेशः । निहान् हन्तॄन् अतिक्रम्य ।