पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

poem>उ० रक्षोहा विश्वचर्षणिः । अयमेव सोमः रक्षोहा रक्षसामपहन्ता । विश्वचर्षणिः सर्वस्य जगतो द्रष्टा । यथार्हं प्रति । अभि आसदत आभिमुख्येन सन्तः सीदेति वा । किमभ्यासदत् । योनिं स्थानम् । कथंभूताम् । अयोहते अयसा कृष्णलोहेन हतमुत्कीर्णं सोमभाजनीकृतम् । हतमिति विभक्तिव्यत्ययः योनिसामानाधिकरण्यात् । किंनामानं योनिम् । द्रोणे । अत्रापि विभक्तिव्यत्ययः । द्रोणं द्रोणकलशलक्षणम् । सधस्थं सहस्थानलक्षणं सोमानाम् ॥ २६ ॥ इति उवटकृतौ मन्त्रभाष्ये षड्विंशतितमोऽध्यायः ॥ २६ ॥ म० सोमः द्रोणे । विभक्तिव्यत्ययः । द्रोणं द्रोणकलशलक्षणं योनिं स्थानमभि आसदत् आभिमुख्येन सीदति तिष्ठति । कीदृशः सोमः । रक्षोहा रक्षांसि हन्तीति रक्षोहा दुष्टनाशकः । विश्वचर्षणिः विश्वं सर्व जगत् चष्टे पश्यति विश्वचर्षणिः । सर्वस्य शुभाशुभद्रष्टा । यद्वा चर्षणिरिति मनुष्यनामसु पठितम् । विश्वे सर्वे चर्षणयो मनुष्या ऋत्विग्यजमानलक्षणा यस्य कण्डनाहरणादिषु सः । तथा कीदृशं द्रोणम् । अयः 'सुपां सुलुक्' इति तृतीयैकवचनलोपः । अयसा लोहेन हतमुत्कीर्णम् । वास्या कृत्वा तक्ष्णा सोमभाजनीकृतम् हतमिति विभक्तिव्यत्ययः । तथा सधस्थं सह सार्धं तिष्ठन्ति सोमाः यत्र स सहस्थः 'सुपि स्थः' ( पा० ३ । २ । ४ ) इति कप्रत्ययः । 'आतो लोपः' (पा० ६ । ४ । ६४ ) इति आलोपः 'सधमादस्थयोश्छन्दसि' (पा. ६ । ३ । ९६ ) इति सहस्य सधादेशः । असदत् 'पुषादि-' (पा० ६ । १ । ५५) इति लुङि च्लेरङ् 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति लडर्थे लुङ् ॥ २६ ॥ श्रीमन्महीधरकृते वेददीपे मनोहरे । अनुक्तमन्त्रकथनः षड्विंशोऽध्याय ईरितः ॥ २६ ॥


सप्तविंशोऽध्यायः । तत्र प्रथमा। समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या । सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः ।। १ ।। उ० समास्त्वा । आग्निकोऽध्यायः । सामिधेन्यो नव त्रिष्टुभः आग्नेय्योऽग्निना दृष्टाः । प्राक्पीवोन्नाया ऋषिरग्निः कर्माङ्गभूतमग्निं स्तौति । समाशब्दो मासवचनः संवत्सर इति शब्दोपादानसामर्थ्यात् । समाः मासाश्च त्वां हे अग्ने, ऋतवश्व वर्धयन्तु । संवत्सराश्च ऋषयश्च सप्त ऋषयो मन्त्रद्रष्टारो वा प्राणा वा । यानि च सत्या सत्यानि आर्षा मन्त्राः । त्वां वर्धयन्त्वित्यनुवर्तते । त्वमप्येतैर्वर्धमानः संदिव्येन .दीदिहि रोचनेन । संदीदिहि संदीप्यस्व दिव्येन दिविभवेन रोचनेन दीप्त्या । किंच विश्वाः सर्वा आभाहि दीपय दिशः प्रदिशश्च चतस्रः आभाहि ॥ १॥ म० अयमध्यायः पञ्चचितिकस्याग्नेः संबन्धी प्रजापतिदृष्टः । नव ऋचोऽग्निदेवत्यास्त्रिष्टुभोऽग्निना दृष्टाः इष्टकापशौ समिध्यमानसमिद्वत्योरन्तराले आसां विनियोगः । अग्निर्ऋषिः कर्माङ्गभूतमग्निं स्तौति । हे अग्ने, एते त्वा त्वां वर्धयन्तु । के समा मासाः । संवत्सरस्य पृथगुक्तः समाशब्दो मासवाचकः । ऋतवो वसन्ताद्याः संवत्सराः तदधिष्ठातारः ऋषयो मन्त्रद्रष्टारः । यानि सत्या सत्यानि । सत्यरूपा मन्त्रा इत्यर्थः । त्वमप्येतैर्वर्धमानो दिव्येन दिवि भवेन रोचनेन दीप्त्या संदीदिहि संदीप्यस्व । दिवैः श्लौ लुकि रूपम् । 'तुजादीनां दीर्घाऽभ्यासस्य' (पा० ६ । १ । ७) इत्यभ्यासदीर्घः । किंच विश्वाः सर्वाः प्रदिशो विदिशः चतस्रो दिशश्च आभाहि दीपय । अन्तर्भूतो ण्यर्थः 'भा दीप्तौ' ॥ १॥

द्वितीया। सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौ॑भगाय । मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शस॑: सन्तु॒ मान्ये ।। २ ।। उ० संच समिद्ध्यस्व च हे अग्ने, प्रबोधय च अवगतार्थं च एनं यजमानं कुरु यथाग्निश्चेतव्य इति । उत्तिष्ठ च महते सौभगाय ऐश्वर्याय । किंच मा च रिषत् मा च विनश्यतु । उपसत्ता उपसदनस्य कर्ता यजमानः । सह्यग्निमुपसीदति । । ते तव । हे अग्ने । किंच । ब्रह्माणस्ते ब्राह्मणाश्च ऋत्विग्यजमानाः तवसंबन्धिनः । यशसः सन्तु । मत्वर्थीयलोपः । यशस्विनः सन्तु । मा अन्ये यशस्विनः सन्तु अयजमाना अलंकरिष्णवः ॥ २॥ म० 'व्यवहिताश्च' (१ । ४ । ८२ ) इति पाणिन्युक्तेः । उपसर्गक्रिययोव्यवधानम् । हे अग्ने, समिध्यख दीप्यख च । व्यत्ययेन इयन् । एनं यजमानं प्रबोधय च ज्ञातार्थ कुरु अग्निश्वेतव्य इति । महते सौभगाय ऐश्वर्याय उत्तिष्ट च । ऐश्वर्य दातुमुद्यम कुर्वित्यर्थः । किंच हे अग्ने, ते तव उपसीदनीत्युपसता तृच सेवकः । मा रिपत् च मा नश्यतु च । यजमानो ह्यग्निमुपसीदति । ते तव ब्रह्माणः वामणा ऋलिग्यजमानाः । यशराः यशस्विनः सन्तु । मत्वर्थीय प्रत्ययलोपः । मा अन्य अयज्वानो मा यशसः सन्तु ॥ २ ॥

तृतीया। त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः । स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ गागृ॒ह्यप्र॑युच्छन् ।। ३ ।।


</poem>