पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शेषः । 'पीङ् पाने' अस्माद्दैवादिकात्सन्प्रत्ययः । अतो हे ऋत्विजः, यूयं जुहोत जुहुत प्रतितिष्ठत च । 'तप्तनप्-' (पा० ७ । १ । ४५ ) इति तबादेशः । कर्मसूद्युक्ता भवतेत्यर्थः । किंच नेष्टुरिदं नेष्ट्रम् । वृद्ध्यभाव आर्षः। नेष्टुर्धिष्ण्यात् ऋतुभिः देवैः सह इष्यत सोमं प्रतिगच्छत । 'इष गतौ' दिवादित्वाच्छयन् लोट् ॥ २२ ॥

त्रयोविंशी।
तवा॒यᳪ सोम॒स्त्वमेह्य॒र्वाड् श॑श्वत्त॒मᳪ सु॒मना॑ अ॒स्य पा॑हि ।
अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षद्या॑ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ।। २३ ।।
उ० तवायम् । ऐन्द्री त्रिष्टुप् माध्यन्दिनीया । हे इन्द्र यतः तवायं माध्यम्दिनीयः सोमः अतः अस्माभिः प्रार्थ्यमानः त्वम् आ इहि आगच्छ । कथंभूतः । अर्वाङ् अर्वागञ्चनः अवरेणाञ्चितः । एत्य च शश्वत्तमं शाश्वतिकतमम् सोमं सोमभागं गृहाण । संगृह्य च सुमना भूत्वा अस्य सोमस्य पाहि पिब । पीत्वा च अस्मिन्यज्ञे बर्हिषि निषद्य अवस्थानं कृत्वा दधिष्व धारयस्व । इमं जठरे इन्दुं सोमम् हे इन्द्र ॥ २३ ॥
म० इन्द्रदेवत्या त्रिष्टुप् विश्वामित्रदृष्टा । माध्यन्दिने सवने नेष्टृचमसयागे याज्या । हे इन्द्र, तव अयं सोमोऽस्ति । अतः अर्वाङ् अस्मदभिमुखः त्वमेहि आगच्छ । शश्वत्तमं सर्वकालमस्य पाहि । कर्मणि षष्ठी । इमं सोमं रक्ष 'पा रक्षणे' लोट् । कीदृशः त्वम् । सुमनाः शोभनं मनो यस्य सः प्रसन्नचित्तः । किंच अस्मिन् यज्ञे बर्हिषि आस्तृतदर्भेषु निषध उपविश्य इममिन्दुं सोमं जठरे उदरे दधिष्व धारय । 'धि धारणे' नुदादिः व्यत्ययेन शपः श्लुस्तङ् च । अभ्यासेकारस्याकार आर्षः ॥ २३ ॥

चतुर्विंशी।
अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।
अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ।। २४ ।।
उ० अमेव नः । देवपत्न्यः त्वष्टा चात्र दृश्यन्ते । जगती तार्तीयसवनीया याज्या । अमाशब्दो गृहवचनः । यथा गृहाणि स्वानि एवं नः अस्माकं यज्ञगृहाणि । सुहवाः साध्वाह्वानाः आहिगन्तन आगच्छत । हिः पादपूरणः । आगत्य च निबर्हिषि सदतन निषीदत उपविशत बर्हिषि । निषद्य च रणिष्टन रतिं कुरुत । अथ उपविष्टासु देवपत्नीषु । मन्दस्व तृप्यस्व । जुजुपाणः सेवमानः । अन्धसः सोमस्य । स्वमंशम् । हे त्वष्टः, देवेभिर्देवैः जनिभिः जननहेतुभूताभिः देवपत्नीभिः सुमद्गणः सन् । शोभनमदा देवास्तेषां स्त्रीणां च गणः यत्य स सुमद्गणः ॥ २४ ॥
म० त्वटृदेवत्या जगती गृत्समददृष्टा । तृतीयसवने नेष्टृचमसयागे याज्या । देवपत्न्यः प्रार्थ्यन्ते । अमाशब्दो गृहवाचकः । अमेव स्वगृहमिव नोऽस्माकं यज्ञगृहाणि हे देवपत्न्यः, यूयमागन्तन आगच्छत । गमेः शपो लुक् लोटि मध्यमबहुवचने । हिः पादपूरणः । बर्हिषि दर्भ् निसदतन निषीदत उपविशत । 'सदिलृ गतौ' रणिष्टन 'रण शब्दे' अस्य लुङि रूपम् अडागमाभावः। परस्परं वार्तां कुरुतेत्यर्थः । 'तप्तनप्-' (पा. ७ । १ । ४५) इति सर्वत्र तनबादेशः । कीदृश्यो यूयम् । सुवहाः शोभनः सुकरो हव आह्वानं यासां ताः । एवं देवपत्नीरुक्त्वाथ त्वष्टारमाह । हे त्वष्टः, त्वमथानन्तरं देवपत्नीष्वागतासु मदस्व मोदस्व तृप्यस्वेत्यर्थः । कीदृशस्त्वम् । अन्धसः अन्धः हविर्लक्षणमन्नं । जुजुषाणः सेवमानः । 'जुषी प्रीतिसेवनयोः' व्यत्ययेन शानचि शपः श्लुः । अन्धसः इति कर्मणि षष्ठी । देवेभिः देवैः जनिभिः देवपत्नीभिश्च सुमद्गणः सुष्ठु माद्यन्ति हृष्यन्ति मुमदः । मदेः क्विप् । सुमदः सन्तुष्टा गणा देवाः स्त्रीगणाश्च यस्य स सुमद्गणः । जनयन्तीति जनयो नार्यः ॥२४॥

पञ्चविंशी।
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सु॒तः ।। २५ ।।
उ० स्वादिष्ठया । सौम्यौ पावमान्यौ गायत्र्यौ । जपादिषु विनियोगः । उक्तं च । 'रसीभूतो यदा सोमः पवित्राक्षरति ग्रहम् । ऋग्भिः स्वादिष्ठयाद्याभिः पवमानः स उच्यते। स्वादिष्ठया स्वादुतमया मदिष्ठया मदयितृतमया पवस्व दशापवित्रात् द्रोणकलशं प्रति गच्छ । हे सोम धारया । यस्वम् इन्द्राय पातवे इन्द्रः पिबतु इत्यनेनाभिप्रायेण सुतः अभिषुतोऽस्माभिः ॥ २५ ॥
म० सोमदेवत्ये द्वे गायत्र्यौ मधुच्छन्दोदृष्टे जपादिषु विनियुक्ते । हे सोम, धारया कृत्वा पवस्व गच्छ दशापवित्राद्रोणकलशं प्रति गच्छ । कीदृश्या धारया । स्वादिष्ठया वादो विद्यते यस्यां सा खादवती अत्यन्तं खादवती स्वादिष्ठा तया। 'विन्मतोलक' (पा० ५। ३ । ६५) इतीष्टनि मतुपो लुक । स्वादुतमया । मदिष्ठया मदयतीति मदयित्री अत्यन्तं मदयित्री मदिष्ठा तया । इष्टनि 'तुरिष्ठेमेयःसु' (पा० ६ । ४ । १५४) इति तृचो लोपः । यत इन्द्राय पातवे इन्द्रस्य पातुं वं सुतोऽभिषुतोऽसि अस्माभिरतो धारया पवख ॥ २५ ॥

पड़िशी।
र॒क्षो॒हा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हते । द्रोणे॑ स॒धस्थ॒मास॑दत् ।। २६ ।।
इति माध्यन्दिनीयायां वाजसनेविसंहितायां षड्विंशोऽध्यायः ॥ २६ ॥