पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० ऋतावानम् । तिस्रो वैश्वानरीयाः पुरोरुचः गायत्रीत्रिष्टुप्गायत्र्यः । अधस्तन एव ऋषिः । ऋतावानं सत्यव्रतं यज्ञवन्तमुदकवन्तं वा वैश्वानरम् । ऋतस्य वा उदकस्य यज्ञस्य सत्यस्य वा ज्योतिषश्च पतिम् । अथवा ऋतस्य सर्वगतस्य ज्योतिषः पतिमधिपतिम् । अजस्रं अनुपक्षीणं घर्मम् अक्षरणं दीप्तं वा ईमहे याचामहे । आयज्ञसमाप्तिमिति शेषः । सामर्थ्यात् । उपयामेति व्याख्यातम् ॥ ६ ॥
म० तिस्रो वैश्वानरीयाः पुरोनुवाक्याः । आद्या गायत्री प्रदुराक्षिदृष्टा । वयं वैश्वानरमीमहे याचामः । यज्ञसमाप्तिमिति शेषः । ईमहे याञ्चाकर्मसु पठितः। कीदृशं वैश्वानरम् । ऋतवानम् ऋतं सत्यं यज्ञो जलं वास्यास्ति ऋतवा तम् 'छन्दसीवनिपौ वाच्यौ' (पा० ५। २ । १०९ । वा० २) इत्यस्त्यर्थे वन्प्रत्ययः संहितायामृतस्य दीर्घः । ऋतस्य सत्यस्याविनाशिनो ज्योतिषः तेजसः पतिं पालकम् । तेजोऽधिष्ठानमित्यर्थः । अजस्रं न जस्यति नश्यतीति अजस्रस्तमनुपक्षीणम् 'जसु हिंसायाम्' 'नमिकम्पि-' (पा० ३ । २ । १६७) इति रप्रत्ययः । घर्मं 'घृ क्षरणदीप्त्योः' जिघर्ति क्षरति जलं घर्मस्तम् दीप्तं वा । उपया० वैश्वानराय त्वां गृह्णामि । एष ते० सादयामि ॥ ६॥

सप्तमी।
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।
इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ।
उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ।। ७ ।।
उ० वैश्वानरस्य सुमतौ । द्वितीयः पादः पूर्वं व्याख्यायते । यः वैश्वानरः राजा दीप्तः । हिकमिति निपातसमाहारोऽनर्थः । यश्च वैश्वानरः भुवनानां भूतजातानामभिश्रीः अभ्याश्रयणीयः सर्वोपकारसामर्थ्यात् । यश्च इतो जातः इतोऽरणितः कुतश्चिद्वा उत्पन्नः सन् विश्वमिदं सर्वमिदं विचष्टे अभिविपश्यति । यथा द्रष्टव्यं कर्मानुरूपेण यश्च वैश्वानरः यतते स्पर्धते । सूर्येण सह स्वकीयदीप्त्या तस्य वैश्वानरस्य सुमतौ कल्याणमतौ वयं स्यामेति प्रार्थना । उपयामेति समञ्जसम् ॥ ७ ॥
म० त्रिष्टुप् कुत्सदृष्टा । वैश्वानरस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम । कं निपातः पादपूरणः । हि यस्माद्धेतोर्वैश्वानरः इतोऽरणितो जातः उत्पन्नः सन् इदं विश्वं सर्वं विचष्टे कर्मानुरूपं पश्यति । सूर्येण सह यतते स्पर्धते च । सूर्यसमतेजा इत्यर्थः । कीदृशोऽग्निः । राजा राजते दीप्यते राजा । भुवनानां भूतजातानामभिश्रीः आश्रयणीयः । अभि समन्तात् श्रीयते सेव्यतेऽभिश्रीः । कर्मणि क्विप् । उप० एष ते उक्ते ॥ ७॥

अष्टमी।
वै॒श्वा॒न॒रो न ऊ॒तय॒ आ प्र या॑तु परा॒वत॑: । अ॒ग्निरु॒क्थेन॒ वाह॑सा ।
उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ।। ८ ।।
उ० वैश्वानरो नः वैश्वानरोऽग्निः नोऽस्मान् ऊतये अवनाय पालनाय आप्रयातु आगच्छतु । परावतः दूरात् । यो हि दूरादागच्छेत् आगच्छेदप्यसौ समीपादित्यभिप्रायः। केन आ प्रयातु । उक्थेन स्तोमेन । वाहसा वाहनभूतेन । अन्यत्रापि स्तोमो वाहन इत्युच्यते । वाहिष्ठो वाहनः स्तोम इति । उपयामेति समानम् ॥ ८॥
म० गायत्री। नोऽस्माकमूतयेऽवनाय परावतः दूरदेशाद्वैश्वानरः आ प्रयातु आगच्छतु । केन । वाहसा वाहनभूतेन । उक्थेन स्तोमेन 'वाहिष्ठो वाहनानां स्तोमो दूतो हुतं नरा' इति श्रुत्यन्तरे स्तोमस्य वाहनत्वमुक्तम् । उप० एष० उक्ते ॥ ८॥

नवमी।
अ॒ग्निर्रृषि॒: पव॑मान॒: पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ।। ९ ।।
उ० अग्निर्ऋषिः । आग्नेयी गायत्री पुरोरुक् । ऋषिरुक्तः । यः अग्निः ऋषिः द्रष्टा मन्त्राणाम् । पवमानः इतश्चेतश्च गच्छन्। पाञ्चजन्यः पञ्चजनेभ्यो हितः। चत्वारो वर्णा निषादपञ्चमाः पञ्चजनाः। तेषां हि यज्ञेऽधिकारोऽस्ति । पुरोहितः पुर एनं दधाति यज्ञं कुर्वाणाः । तम् ईमहे याचामहे । महागयं महान्तं गृहम् । महत्त्वं च गृहस्य द्रव्यनिबन्धनम् । उपयामगृहीतोस्यग्नये त्वा वर्चस इति व्याख्यातम् ॥ ९॥
म० अग्निदेवत्या गायत्री वसिष्ठभरद्वाजदृष्टा पुरोरुक् । महान् गयः स्तुतिर्यस्य स महागयो महागृहरूपो वा तमग्निं वयमीमहे याचामहे । तं कम् । योऽग्निर्ऋषिः मन्त्रद्रष्टा । पवमानः 'पव गतौ' पवत इतस्ततो गच्छति पवमानः । यद्वा 'पूङ् शोधने' पवते शोधयति पवमानः । पाञ्चजन्यः पञ्चजनेभ्यो हितः । विप्रादयश्चत्वारो वर्णा निषादश्चेति पञ्चजनास्तेषां यज्ञाधिकारात् । पुरोहितः पुरोऽग्रे हितः स्थापितः दधातेर्निष्ठा । उप० वर्चसे तेजोरूपायाग्नये त्वां गृह्णामि । एष० ॥ ९॥

दशमी।
म॒हाँ२ इन्द्रो॒ वज्र॑हस्तः षोड॒शी शर्म॑ यच्छतु । हन्तु॑ पा॒प्मानं॒ योऽस्मान्द्वेष्टि॑ ।।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ।। १० ।।