पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० महाँ इन्द्रः । माहेन्द्री पुरोरुक् गायत्री । उक्तमार्षम् । महान् इन्द्रः वज्रहस्तः । षोडशी पञ्चप्राणाः पञ्चबुद्धीन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनः षोडशं एतलिङ्गं यस्य स षोडशीन्द्रः । पञ्चदशो वा वज्रश्चेन्द्रश्च षोडशी वज्रस्य । शर्म शरणं यच्छतु ददातु । हन्तु च पाप्मानं ब्रह्महत्यादिकम् । यश्चास्मान् द्वेष्टि तं च हन्तु । यं च वयं द्विष्मः तं च हन्तु । उपयामेति समानम् ॥ १० ॥
म० महेन्द्रदेवत्या गायत्री वसिष्ठकृता पुरोरुक् । इन्द्रः शर्म सुखं यच्छतु ददातु । योऽस्मान् द्वेष्टि तं च पाप्मानं पापिष्ठं हन्तु नाशयतु । यद्वास्मद्द्वेष्टारं पाप्मानं च पापं ब्रह्महत्यादिकं हन्तु । 'अस्त्री पङ्कं पुमान्पाप्मा' इत्यमरः। कीदृश इन्द्रः । महान् श्रेष्ठः वज्रहस्तः वज्रं हस्ते यस्य सः । षोडशी पञ्च प्राणा दशेन्द्रियाणि मनश्चेति षोडशपदार्था लिङ्गशरीररूपा यस्य स षोडशी । आत्मरूप इत्यर्थः । उप० एष० उक्ते ॥ १० ॥

एकादशी।
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ।। ११ ।।
उ० तं वः ऐन्द्री बृहती । जपस्वाध्यायादिषु विनियोगः। आदित्यस्यार्षं याज्ञवल्क्यस्य वा आ अध्यायपरिसमाप्तेः । हे ऋत्विग्यजमानाः, तमिन्द्रं गीर्भिर्वाग्भिः स्तुतिलक्षणाभिः । नवामहे 'णु स्तुतौ' अभिष्टुमः । किमर्थम् । वः युष्मभ्यं दास्यतीति । कथंभूतमिन्द्रम् । दस्मं दर्शनीयम् । प्रियवादिनं कार्यसाधकं च । ऋतीषहम् ऋती गतिः गतिमात्रेण शत्रुं सहत इत्यृतीषाट् तमृतीषहम् । वसोर्मन्दानमन्धसः । वसोर्वासयितुः सोमस्य स्वकीयेनैकदेशेन मन्दानं माद्यन्तम् अन्धसः अध्यापनीयस्य चान्नस्य स्वकीयेनैवांशेन माद्यन्तम् । कथमिव नवामहे । वत्सं न स्वसरेषु धेनवः । नकार उपमार्थीयः । वत्समिव । स्वसरेषु स्वयमेव सरन्ति येषु तानि स्वसराण्यहानि तेषु स्वसरेषु अहस्सु । धेनवः यथा नवप्रसूता धेनवः दिनेषु अतिहार्दात् वत्सं शब्दैराश्वासयेयुः एवं वयमप्यतिसौहार्देनेन्द्रं गीर्भिर्नवामह इति समस्तार्थः ॥ ११ ॥
म० इन्द्रदेवत्या पथ्या बृहती नोधागोतमदृष्टा स्वाध्यायादिषु नियुक्ता । आदित्ययाज्ञवल्क्ययोरार्षमाध्यायात् । हे यजमानाः, तमिन्द्रं वयं गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः अभिनवामहे सम्यक् स्तुमहे 'नु स्तुतौ' व्यत्ययेन शप् । किंभूतमग्निम् । वो युष्माकं दस्मं दर्शनीयम् 'दस दर्शने' मप्रत्ययः । ऋतीषहम् 'ऋ गतौ' क्तिन्प्रत्ययः । ऋत्या गत्या सतेऽभिभवति शत्रूनिति ऋतिपषट् तम् 'पूर्वपदाच्च' (पा. ८।३।१०६) इति षत्वम् । संहितायां दीर्घः । वसोः वासयितुः स्थितिहेतुभूतस्यान्धसोऽन्नस्य । षष्ठी तृतीयार्थे । अन्नेन मन्दानं मोदमानम् 'मदिङ् स्वप्ने जाड्ये मदे मोदे स्तुतौ गतौ' इति धातोः शानच्प्रत्ययेन शपो लुक् । दृष्टान्तमाह । वत्सं न । नकार इवार्थः। स्वसरेषु स्वेनैवात्मनैव सरन्ति प्रसरन्ति किरणा येषु ते स्वसरा दिवसाः तेषु । यथा धेनवो नवप्रसूता गावो वत्सं नुवन्ति स्तुवन्ति । शब्दैराह्वयन्तीयर्थः । तद्वद्वयमिन्द्रं स्तुमः ॥११॥

द्वादशी।
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ।। १२ ।।
उ० यद्वाहिष्ठम् । आग्नेय्यनुष्टुप् । हे उद्गातः, यत् वाहिष्ठं वोढृतमं बृहत्साम तत् अग्नये अर्थाय अर्च गाय । ततो दृष्ट्वाग्निं ब्रूहि । हे विभावसो विभूतधन अग्ने, महिषीव त्वद्रयिः महिषी प्रथमवित्ता । यथा प्रथमपत्नी धर्मार्थकामात्मिका उदीरते उत्तिष्ठति सुखात्मिका भवति एवं त्वद्रयिः सुखात्मिका उदीरते उत्तिष्ठति । अथवा महिषी यथा सर्वान्भोगान् उदीरते उत्क्षिपति परोपकाराय । एवं त्वत्तो रयिः उदीरते त्वत्तश्च वाजा अन्नानि उदीरते उद्गच्छन्ति परोपकाराय ॥ १२ ॥
म० अग्निदेवत्यानुष्टुब् वसूयुदृष्टा । हे उद्गातः, अग्नये अग्न्यर्थं तत् बृहत्साम अर्च गाय बृहत्साम्नो गानं कुरु । तत्किम् । यत् वाहिष्ठम् वाहयति प्रापयति इष्टमिति वाहयितृ । वहेर्ण्यन्तात् तृच् । अत्यन्तं वाहयितृ वाहिष्ठम् 'अतिशायने तमविष्ठनौ' (पा० ५। ३ । ५५) इत्यनुवृत्तौ 'तुश्छन्दसि' (पा० ५। ३ । ५९) इति इष्ठनि परे 'तुरिष्ठेमेयःसु' (पा. ५। ४ । १५४ ) इति च तृचो लोपे वाहिष्ठमिति रूपम् । किंच सामगानेन प्रत्यक्षमग्निं ब्रूहि । किम् । हे विभावसो, विभा कान्तिरेव वसु धनं यस्य स विभावसुः हे अग्ने, रयिः धनं वाजा अन्नानि च त्वत् त्वत्तः सकाशात् उदीरते उद्गच्छन्ति । 'ईर गतौ कम्पे च' लट् शपो लुक् 'अदभ्यस्तात्' (पा० ७।१।४) इत्यदादेशः । तत्र दृष्टान्तः । महिषीव यथा महिषी प्रथमपरिणीता स्त्री गृहात् भोगार्थं पतिं प्रति उदीर्ते उद्गच्छति । एकं त्वत्पदं पादपूरणम् । रयिः त्वदुदीर्ते इति वा ॥ १२ ॥

त्रयोदशी।
एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिर॑: । ए॒भिर्व॑र्धास॒ इन्दु॑भिः ।। १३ ।।
उ० एहि । आग्नेयी गायत्री अधस्तनमन्त्रस्तुतोऽग्निरिह संबोध्यते । एहि आगच्छ हे अग्ने । ऊकारोऽनर्थकः । को हेतुरिति चेत् । सुब्रवाणि साधुब्रवाणि ते तव हे भगवन्नग्ने, इत्थेतरा इत्थं त्वदीयैर्नामबन्धकर्मरूपैर्ग्रथिता इतराः स्तुतिलक्षणाः गिरो वाचः । यद्वा इत्थमुद्गातृस्तोत्रजनिताः इतरा