पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कुर्वन्त्वित्यर्थः । किंच मे ममायं कामः समृद्ध्यतां सफलो भवतु । अयमिति नामनिर्देशः । धनपुत्रादिलाभकामो मे संपद्यतामित्यर्थः । किंच अदो मा मामुपनमतु । अद इति इष्टनामग्रहणम् । देवदत्तादिर्मा प्रीणयतु ॥ २ ॥

तृतीया।
बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा ।। ३ ।।
उ० बृहस्पते अति । बृहस्पतिसवेऽनया त्रिष्टुभा बृहस्पतिदेवतया ग्रहो गृह्यते । गृत्समदस्यार्षम् बृहस्पतेर्वा । हे बृहस्पते, अतिशयेन यत् द्रविणं धनम् । अर्य ईश्वरः । अर्यशब्दः स्वामिन्यन्तोदात्तः वैश्ये आद्युदात्तः । अर्हात् पूजयेत् । यच्च द्युमद्विभाति द्युमत् द्युतिमत् विभाति भासते । क्रतुमज्जनेषु यच्च क्रतुमत् यज्ञवत् जनेषु विभातीत्यनुवर्तते। यत् दीदयत् शवसा यच्च दीप्यते शवसा बलेन । रक्षितारोऽपि यस्य सन्तीत्यभिप्रायः । हे ऋतप्रजात ऋतात्सत्यादविनाशिनः प्रजायत इति ऋतप्रजातः तत्संबुद्धौ हे ऋतप्रजात, तत् द्रविणम् अस्मासु धेहि स्थापय । चित्रं नानारूपम् । उपयाम गृहीतोसि बृहस्पतये त्वा । एष ते योनिऽर्बृहस्पतये त्वा । स्थापनमन्त्रः ॥ ३ ॥
म० ब्रह्मदेवत्या त्रिष्टुप् गृत्समददृष्टा । बृहस्पतिसवे बार्हस्पत्यग्रहणेऽस्याः सोपयामाया विनियोगः । ऋतात् सत्यात् हे ऋतप्रजात, ब्रह्मणः सकाशात् प्रजातं प्रकृष्टं जातं जन्म यस्य ऋतप्रजातः । हे बृहस्पते बृहतां वेदानां पते पालक, चित्रं नानाविधं तत् द्रविणमस्मासु यजमानेषु धेहि धारय स्थापय देहीत्यर्थः । तत्किम् । अर्यः स्वामी यद्धनमर्हति पूजयति । 'लेटोडाटौ' (पा० ३ । ४ । ९४ ) इत्याडागमः। 'अर्यः स्वामिवैश्ययोः' (पा० ३ । १ । १०३ ) इत्यर्यशब्दः स्वामिन्यन्तोदात्तः वैश्ये आद्युदात्तः । ईश्वरयोग्यं धनं देहीत्यर्थः । यद्धनं जनेषु लोकेषु विभाति विविधं शोभते । कीदृशं धनम् । द्युमत् द्यौः कान्तिरस्यास्तीति द्युमत् 'दिव उच्च' (पा० ६ । १ । १३१) इत्युकारः । क्रतुमत् क्रतवो यज्ञा विद्यन्ते येन तत् । येन यज्ञाः क्रियन्ते तादृशं धनं देहीत्यर्थः । यत् धनं शवसा बलेन दीदयत् दापयति प्रापयति वा धनान्तरम् तद्धनं देहीत्यर्थः । 'दय दानगतिहिंसादानेषु' अस्माण्णिजन्ताल्लुङि रूपम् । अडभाव आर्षः । उपयामेन पात्रेण गृहीतोऽसि बृहस्पतयेऽर्थाय त्वा गृह्णामि । स्थापयति एष ते योनिः स्थानम् । बृहस्पतये त्वां सादयामि ॥ ३ ॥

चतुर्थी।
इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोम॑ᳪ शतक्रतो । वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते ।। ४ ।।
उ० इन्द्र गोमन् । द्वाभ्यां गायत्रीभ्यामिन्द्राय गोमते | ग्रहो गृह्यते गोसवे । आदित्यस्यार्षं याज्ञवल्क्यस्य वा । हे इन्द्र, गोमन् गोभिः स्तुतिभिर्वा संयुक्त, इह यज्ञे आयाहि आगच्छ । एत्य च पिब सोमम् । हे शतक्रतो बहुकर्मन् । कथंभूतं सोमम् । विद्यद्भिर्ग्रावभिः सुतम् 'दो अवखण्डने' अस्य शतरि । विद्यन्तः तै विद्यद्भिः विशेषेणावखण्डयद्भिः ग्रावभिः सुतमभिषुतं सोमम् । उपयामगृहीतोऽसीन्द्राय त्वा गोमते गृह्णामि । एष ते योनिरिन्द्राय त्वा गोमते सादयामि ॥ ४ ॥
म०. द्वे इन्द्रदेवत्ये गायत्र्यौ, रम्याक्षिदृष्टे गोसवे यज्ञे ग्रहग्रहणे नियुक्ते सोपयामे । शतं क्रतवः कर्माणि यस्य स शतक्रतुः हे शतक्रतो हे इन्द्र, हे गोमन् गावो धेनवः स्तुतयः किरणा वा विद्यन्ते यस्य स गोमान् । त्वमिह यज्ञे आयाहि आगच्छ । सोमं च पिब । 'द्व्यचोऽतस्तिङः' (पा० ६।३।१३५ ) इति दीर्घः । कीदृशं सोमम् । ग्रावभिः सुतमश्मभिरभिषुतम् । कीदृशैर्ग्रावभिः । विद्यद्भिः विशेषेण द्यन्ति खण्डयन्ति ते विद्यन्तः तैः । 'दो अवखण्डने' दिवादित्वाच्छ्यन् शतरि 'ओतः श्यनि' (पा० ७ । ३ । ७१) इत्योकार-लोपः । उपयाम० गोमते इन्द्राय त्वां गृह्णामि । सादयति एष ते० ॥ ४ ॥

पञ्चमी।
इन्द्राया॑हि वृत्रह॒न्पिबा॒ सोम॑ᳪ शतक्रतो । गोम॑द्भि॒र्ग्राव॑भिः सु॒तम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते ।। ५ ।।
उ० इन्द्रायाहि । हे इन्द्र, आगच्छ । हे वृत्रहन् वृत्रस्य हन्तः, एत्य च सोमं पिब । हे शतक्रतो बहुकर्मन् । कथंभूतं सोमम् । गोमद्भिः स्तुतिमद्भिः । ग्राह्यसंयुतैर्वा अंशुवचनो वा गोशब्दः । ग्रावभिः सुतमभिषुतम् । उपयामेति व्याख्यातम् ॥ ५॥
म० वृत्रं दैत्यं हन्ति वृत्रहा । शतं क्रतवो मखा यस्य स शतक्रतुः । हे वृत्रहन् हे शतक्रतो, हे इन्द्र, त्वमायाहि आगच्छ सोमं च पिब । कीदृशं सोमम् । ग्रावभिः सुतम् । कीदृशैर्ग्रावभिः । गोमद्भिः गौः स्तुतिर्विद्यते येषां ते गोमन्तस्तैः । उप० एष ते व्याख्याते ॥ ५ ॥

षष्ठी।
ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्रं घ॒र्ममी॑महे ।
उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ।। ६ ।।