पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भुवा । निविदा । निविच्छब्दो वाग्वचनः । हूमहे आह्वयामो वयम् । तान् कानित्यत आह । भगं मित्रम् अदितिम् दक्षम् अस्रिधम् अच्युतसद्भावम् । दक्षस्यैतद्विशेषणम् । अर्यमणम् वरुणम् सोमम् अश्विनौ च । यैः सहिता सरस्वती सुभगा नः अस्माकम् मयः सुखं करत् करोत्विति ॥ १६ ॥
म० पूर्वया प्राचीनया अकृत्रिमया स्वयंभुवा निविदा वाचा वेदरूपया वयं तान्प्रसिद्धान्देवान् हूमहे आह्वयामः । निविच्छब्दो वाग्वाचकः । तान् कान् तत्राह । भगं मित्रमदितिं देवमातरम् दक्षं प्रजापतिम् अर्यमणं वरुणं सोममश्विना अश्विनौ । अस्रिधमिति भगादीनां विशेषणम् । न स्रेधते च्योतते सोऽस्रित् तमच्युतसद्भावम् । किंच शोभनं भगं भाग्यं यस्याः सा सुभगा भजनीया सरस्वती भगादिसहिता नोऽस्माकं मयः करत् सुखं करोतु ॥ १६ ॥

सप्तदशी।
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौ॑: ।
तद् ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ।। १७ ।।
उ० तन्नः । तत् भेषजं मयोभु सुखस्य भावयितृ नः अस्माकम् वातः वातु अनुगृह्णातु । तच्च भेषजं माता पृथिवी अनुगृह्णातु । तच्च पिता द्यौः अनुगृह्णातु । तच्च ग्रावाणः सोमसुतः सोमाभिषवकारिणः मयोभुवः सुखस्य भावयितारः अनुगृह्णन्तु । तच्च हे अश्विनौ, धिष्ण्या धारयितारौ युवं युवामपि शृणुतम् । श्रुत्वा च अनुगृह्णीतम् ॥ १७ ॥
म० वातः पवनः नोऽस्माकं भेषजमौषधं हितं यथा तथा वातु 'वा गतिगन्धनयोः' लोट् प्रवातु । अनुगृह्णात्वित्यर्थः । ददात्विति यावत् । कीदृशं हितम् । मयोभु मयः सुखं भवति यस्मात् तन्मयोभु सुखोत्पादकं हितं ददातु । माता जगन्निर्मात्री पृथिवी तत् हितं वातु । पिता पालको द्यौः स्वर्गः तत् हितं वातु । सोमं सुन्वन्ति सोमसुतः सोमाभिषवकारिणो ग्रावाणः दृषदः तत् भेषजं वान्तु ददतु । कीदृशा ग्रावाणः । मयोभुवः मयः सुखं भावयन्ति ते मयोभुवः सुखस्य दातारः । हे अश्विना अश्विनौ, युवं युवां तत् वातादिभ्यो भेषजप्रार्थनं शृणुतं युवामपि हितं दत्तमित्यर्थः । कीदृशौ युवाम् । धिष्ण्या धिष्ण्यौ गृहवद्धारयितारौ ॥ १७ ॥

अष्टादशी।
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियञ्जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ।। १८ ।।
उ० तमीशानम् । तम् ईशानं रुद्रम् । कथं भूतम् । जगतः जंगमस्य तस्थुषः स्थावरस्य पतिमिव पतिम् । धियंजिन्वम् धिया बुद्ध्या संकल्पमात्रेण जिन्वति प्रीणाति इति धियंजिन्वम् । यद्वा धिया कर्मणा जिन्वति प्रीणातीति धियंजिन्वम् अवसे अवनाय तर्पणाय । हूमहे आह्वयामः वयम् । किंच पूषा नः अस्माकम् वेदसां धनानाम् असत् भूयात् वृधे वर्धनाय । रक्षिता च वायुः पाता च अदब्धः अनुपहिंसितश्चान्ये केनचित् स्वस्तये अविनाशाय । तथा हूमहे वयमित्यनुषङ्गः ॥ १८॥
म० वयं तं प्रसिद्धमीशानं रुद्रं हूमहे आह्वयामः । कीदृशं तम् । जगतः जंगमस्य तस्थुषः स्थावरस्य च भूतजातस्य पतिं पालकम् । धियंजिन्वं धियं बुद्धिं जिन्वति प्रीणातीति धियंजिन्वस्तम् अलुक् बुद्धिसन्तोषकारकम् । जिन्वतिः प्रीणनार्थः । किमर्थं हूमहे । अवसे अवितुं तर्पयितुम् । तुमर्थे असेप्रत्ययः । यथा येन प्रकारेण पूषा नोऽस्माकं वृधे वृद्ध्यै स्वस्तये कल्याणाय च असत् भवतु तथा हूमहे इत्यर्थः । कीदृशः पूषा । वेदसां धनानां ज्ञानानां वा रक्षिता रक्षकः । पायुः पालकः पुत्रादीनाम् । अदब्धः अनुपहिंसितः ॥ १८ ॥

एकोनविंशी।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ।। १९ ।।
उ० स्वस्ति नः स्वस्ति स्वस्त्ययनम् नः अस्माकम् इन्द्रः दधातु स्थापयतु । कथंभूतः । वृद्धश्रवाः प्रभूतधनः । महाशब्दो महाकीर्तिर्वा स्वस्ति नोऽस्माकं पूषा ददातु । कथंभूतः । विश्ववेदाः सर्वज्ञो वा । स्वस्ति नः तार्क्ष्यो दधातु । कथंभूतः । अरिष्टनेमिः अनुपहिंसितासुः । स्वस्ति नः अस्माकं बृहस्पतिश्च दधातु ॥ १९ ॥
म०. विराट्स्थाना । आद्यौ पादौ नववर्णौ तृतीयो दशकः तुर्यो व्यूहेनैकादशकः 'नवकौ वैराजस्त्रैष्टुभश्च' इति वचनात् । इन्द्रः नोऽस्मभ्यं स्वस्ति अविनाशं शुभं दधातु ददातु । कीदृशः । वृद्धश्रवाः वृद्धं महत् श्रवः कीर्तिर्यस्य सः । पूषा नः स्वस्ति ददातु । कीदृशः । विश्ववेदाः विश्वं सर्व वेदो धनं यस्य विश्वं वेत्तीति वा विश्ववेदाः । तार्क्ष्यो रथो गरुडो वा नः स्वस्ति दधातु । कीदृशः । अरिष्टनेमिः अरिष्टा अनुपहिंसिता नेमिश्चक्रधारा पक्षो वा यस्य सः । बृहस्पतिः देवगुरुर्नोऽस्मभ्यं स्वस्ति ददातु ॥ १९ ॥

विंशी।
पृष॑दश्वा म॒रुत॒: पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ।। २० ।।
उ० पृषदश्वा मरुतः । पृषन्तः शबला अश्वा येषां ते पृषदश्वाः । पृश्निमातरः । पृश्निः द्यौर्माता येषां त एवमुच्यन्ते । शुभंयावानः शुभं कर्तुं जनान्प्रति ये यान्ति ते