पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शुभंयावानः । 'आतो मनिन्क्वनिप्वनिपश्च' इति वनिप् । विदथेषु यज्ञेषु जग्मयः गमनशीलाः । 'आदृगमहन-' इति किः । य इत्थंभूता मरुतस्ते अवसा अन्नेन हविर्लक्षणेन आहूताः सन्तः आगमन् आगच्छन्तु इहेत्यनुषङ्गः । ये च अग्निजिह्वा अग्निमुखाहुतादा इत्यर्थः । मनवः चतुर्दश ते च अवसा गमन्निह । ये च सूरचक्षसः आदित्यदर्शनाः विश्वदेवाः ते च नः अस्माकम् अवसागमन्निह यज्ञे ॥ २० ॥
म० जगती । मरुतो देवाः अवसान्नेन हविर्लक्षणेन हेतुना इह यज्ञे आगमन्नागच्छन्तु । कीदृशा मरुतः । पृषदश्वा पृषत्यः पृषतीसंज्ञा अश्वा वडवा वाहनं येषां ते पृषदश्वाः । पुंवद्भावः 'पृषत्यो मरुताम्' इति निघण्टुवचनात् । यद्वा पृषन्तः शबलाः अश्वाः येषां ते पृश्निर्द्यौर्गौर्दितिर्वा माता जननी येषां ते पृश्निमातरः । शुभं कल्याणं यान्ति प्राप्नुवन्ति प्रापयन्ति वा शुभंयावानः 'आतो मनिन्' ( पा० ३ । २ । ७४ ) इति वनिप्प्रत्ययः । विदथेषु यज्ञगृहेषु जग्मयः गमनशीलाः 'आदृगमहन-' (पा० ३ । २ । १७१) इति किः । अग्निजिह्वाः अग्निर्जिह्वा भोजनसाधनं येषां ते 'अग्निमुखा वै देवाः' इति श्रुतेः । हुताद इत्यर्थः । मन्यन्ते जानन्ति मनवः सर्वज्ञाः । सूरः सूर्यश्चक्षः चक्षुः येषां ते सूर्यं चक्षते पश्यन्ति वा सूरचक्षसः । किंच न केवलं मरुतः विश्वे सर्वे देवाः च नोऽस्माकं यज्ञे आगमन्नागच्छन्तु ॥ २० ॥

एकविंशी ।
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वाᳪस॑स्त॒नूभि॒र्व्य॒शेमहि दे॒वहि॑तं॒ यदायु॑: ।। २१ ।।
उ० भद्रं कर्णेभिः । भद्रमनुकूलं कर्णेभिः कर्णाभ्यां शृणुयाम हे देवाः । भद्रं पश्येम अक्षभिः अक्षिभ्यां । हे यजत्राः यजनीयाः । किंच । स्थिरैरङ्गैः अशिथिलैः अङ्गैः । तुष्टुवांसः देवान्स्तुतवन्तः । तनूभिः भार्यापुत्रपौत्रादिकाभिस्तनूभिः सहिताः व्यशेमहि व्यश्नुवीमहि । देवहितं देवैर्यत्स्थापितं मनुष्याणामायुः तद्व्यश्नुवीमहि ॥ २१ ॥
म० तिस्रस्त्रिष्टुभः । हे देवाः, कर्णेभिः कर्णैः भद्रं कल्याणमनुकूलं वयं शृणुयाम । हे यजत्राः, यजन्तं त्रायन्ते रक्षन्ति यजत्राः यजमानपालकाः अक्षभिः नेत्रैः भद्रं वयं पश्येम 'बहुलं छन्दसि' (पा० ७ । १ । ७६ ) इति हलादौ अक्षिशब्दस्यानङादेशः । किंच देवहितं देवैः स्थापितं देवानां हितं देवोपासनयोग्यं वा यदायुः जीवनं तद्वयं व्यशेमहि व्यश्नुवीमहि प्राप्नुयाम । कीदृशा वयम् । स्थिरैः दृढैरङ्गैः अवयवैः करचरणादिभिः तनूभिः शरीरैश्च पुत्रादिभिर्वा युताः तुष्टुवांसः भवतः स्तुवन्तः सन्तः ॥२१॥

द्वाविंशी।
श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तो॑: ।। २२ ।।
उ० शतमित् । शतमपि शरदः अन्ति अन्तिके समीपे भवथ हे देवाः । आकल्पकालमित्यभिप्रायः । ऋषिभिरुदितमेतत् । यत्र यस्मिन् शरदांशते नः अस्माकं यूयं चक्र कृतवन्तः । जरसं जरां तनूनां जरानिमित्तां शक्तिमित्यभिप्रायः। किंच । पुत्रासो यत्र पितरो भवन्ति पुत्रा अग्नयः यत्र शरदां शते । यजमानस्य पितरो जनितारो भवन्ति । तदुक्तम् 'तत्र वै प्रजापतिः प्रजाः ससृज' इत्युपक्रम्य 'तस्माज्जनयित्वा बिभृही'ति । यत्र पितरो भवन्ति । एतदप्युक्तमेव । ‘स यत्र म्रियते यत्रैनमग्नावभ्यादधाति तदेषोऽग्नेरधिजायते स एष पुत्रः सन्पिता भवति अथवा पुत्रा एव पितॄणामौर्ध्वदेहिकं कुर्वाणाः पितरो यत्र संपद्यन्ते तदपि शरदांशतमन्तिक एव इति । यत एवमतो ब्रूमः । मा नो मध्या रीरिषतायुर्गन्तोः मारीरिषत् माहिंसीष्ट नोऽस्माकं मध्या मध्ये अकाल एव आयुः गन्तोः गन्तृ गमनशीलम् । उक्तंच 'संचिन्त्य संचिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षासु सिक्ता इव | चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति' इति ॥ २२ ॥
म० हे देवाः, शतमित् शतमपि शरदो वर्षाणि शतवर्षपर्यन्तं यूयमन्ति अन्तिके समीपे भवतेति शेषः । यत्र शरच्छते नोऽस्माकं तनूनां शरीराणां यूयं जरसं जरां चक्र कुरुथ। करोतेर्लिटि मध्यमबहुवचनम् । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति चक्रेत्यत्र संहितायां दीर्घः 'निपातस्य च' (पा० ६ । ३ । १३६ ) इति यत्रेत्यत्र दीर्घः । वार्धकावधि यूयं समीपे भवतेत्यर्थः । यत्रास्माकं जरायां पुत्रासोऽस्मत्पुत्राः पितरो भवन्ति पुत्रवन्तो भवन्ति । यावदस्माकं पौत्रा भवन्तीत्यर्थः । तावत् मध्या मध्ये नोऽस्माकमायुर्मा रीरिषत मा हिंसिष्ट । रिषतेर्हिंसार्थस्य णिजन्तस्य चङि रूपम् । कीदृशमायुः । गन्तोः गन्तृ गमनशीलम् । तदुक्तम् 'संचिन्त्य संचिन्त्य तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षासु सिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति' इति ॥ २२ ॥

त्रयोविंशी।
अदि॑तिर्द्यौ॒रदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑ति॒: पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ।। २३ ।।
उ० सर्वात्मकत्वेनादितिं मन्त्रदृक्स्तौति । अदितिश्च द्यौः | अदितिश्च अन्तरिक्षम् अदितिश्च माता स च पिता स च पुत्रः स इति छान्दसो लिङ्गव्यत्ययः। विश्वे च देवाः पञ्चजनाः मनुष्याश्च अदितिः। किं बहुनोक्तेन अदितिरेव जातं भूतम् ।