पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्यादि द्यावापृथिवीभ्यां स्वाहेत्यन्ता अपि आहुतीर्जुहुयात् आश्वमेधिकत्वात् । अवभृथे अप्सु मग्नस्य पिङ्गलखलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकायस्वाहा इति । वारुणी द्विपदा शुण्डिभ औदन्यदृष्टा । 'वरुणो वै जुम्बकः' इति श्रुतिः । एषा चान्तर्जले जप्ता पापनाशिनी । तदुक्तं हारीतेन 'जुम्बुका नाम गायत्री वेदे वाजसनेयके । अन्तर्जले सकृज्जप्ता ब्रह्महत्यां व्यपोहति' इति ॥ ९॥
म० नाभ्या उदराधःस्थग्रन्थिना विधृतिं देवतां प्रीणामि । 'रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः । शृङ्गारादिरसे वीर्ये देहधात्वम्बुपारदे' इति विश्वः । रसेन वीर्येण धातुविशेषेण वा घृतं देवं प्रीणामि । यूषः क्वथितो रसः ‘पद्दन्' ( पा०६। १।६३) इत्यादिना यूषन्नादेशः । यूष्णा पक्वान्नरसेनापो देवताः प्रीणामि । 'पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियः' इत्यमरः । विप्रुड्भिर्वसाबिन्दुभिर्मरीचीर्देवताः प्रीणामि । 'ऊष्माणस्तु निदाघोष्णग्रीष्माः शष्पसहा अपि' इति विश्वः । ऊष्मणा शरीरगतेनौष्ण्येन नीहारं देवं प्रीणामि । 'मेदस्तु वपा वसा' इत्यमरः । वस्ते मांसमिति वसा । 'शुद्धमांसस्य यः स्नेहः सा वसेति वैद्याः' इति स्वामी । वसया मांसस्नेहेन शीनं देवं प्रीणामि । 'अश्रु नेत्राम्बु रोदनम्' इत्यमरः । अश्रुभिर्नेत्राम्बुभिः प्रुष्वाः देवताः प्रीणामि । 'दूषिका नेत्रयोर्मलम्' इत्यमरः । दूषीकाभिर्नेत्रमलैर्राेतदुनीर्देवताः प्रीणामि । 'रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्' इत्यमरः । अस्यते सृज्यते इति वा असृक् रुधिरम् ‘पद्दन्-' (पा० ६ । १ । ६३ ) इत्यसन्नादेशः । अस्ना रक्षांसि प्रीणामि । अङ्गैः पूर्वानुक्तावयवैः चित्राणि देवतानि प्रीणामि । 'रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः' इति विश्वः । रूपेण सौन्दर्येण नक्षत्राणि दैवतानि प्रीणामि । त्वचा चर्मणा पृथिवीं देवीं प्रीणामि । स्वाहेति मन्त्रैराज्यं जुहोतीत्यर्थः । अत्र अग्निं हृदयेनाशनिं हृदयाग्रेणेत्यादि द्यावापृथिवीभ्यां स्वाहेत्यन्ता अपि (३९ । ८-१३) आहुतीर्जुहुयात् आश्वमेधिकत्वात् । 'अवभृथेष्ट्यन्तेऽप्सु मग्नस्याक्षिपिङ्गलस्य खलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकाय स्वाहेति' (का० २० । ८ । १८)। अवभृथयागान्ते एवंविधस्य पुंसो मूर्धनि जुम्बकायेति मन्त्रेणाज्यं सकृद्गृहीतं जुहुयात् । कीदृशस्य पुंसः । जले मग्नस्य पिङ्गलाक्षस्य खलतेः खल्वाटस्य । विक्लिधस्य दन्तुरस्य शुक्लस्यातिगौरस्येति सूत्रार्थः । वरुणदेवत्या द्विपदा यजुर्गायत्री उदन्यपुत्रमुण्डिभदृष्टा । जुम्बकाय वरुणाय स्वाहा सुहुतमस्तु । 'वरुणो वै जुम्बः' ( १३ । ३ । ७। ५) इति श्रुतेः । एषा चान्तर्जले जप्ता पापनाशिनी। तदुक्तं हारीतेन 'जुम्बका नाम गायत्री वेदे वाजसनेयके । अन्तर्जले सकृज्जप्ता ब्रह्महत्यां व्यपोहति ॥' इति ॥ ९॥

दशमी।
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १० ।।

एकादशी।
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। ११ ।।
उ० चतस्रः कदेवत्याः त्रिष्टुभः प्रजापतिसुतहिरण्यगर्भदृष्टाः प्राजापत्यपशूनामश्वादीनां याज्यानुवाक्याः । द्वे व्याख्याते ॥ १० ॥ ११ ॥
म० चतस्रः कदेवत्याः त्रिष्टुभः प्रजापतिसुतहिरण्यगर्भदृष्टाः प्राजापत्यपशूनामश्वादीनां याज्यानुवाक्याः । द्वे व्याख्याते । (२३ । १ । ३) ॥ १० ॥ ११ ॥

द्वादशी।
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रᳪ र॒सया॑ स॒हाहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १२ ।।
उ० वयं कस्मै प्रजापतये देवाय हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः । कशब्दस्य सर्वनामत्वमार्षम् । इमे हिमवन्तः बहुवचनादन्येऽपि हिमाचलप्रभृतयः पर्वताः । प्रथमा द्वितीयार्थे । 'सुपां सुपो भवन्ति' इति वचनात् । इमान्हिमवत्प्रभृत्यद्रीन्यस्य प्रजापतेर्महित्वं महिमानमाहुर्बुधाः । महित्वेति विभक्तेराकारः । रसा नदी 'रसतेः शब्दकर्मण' इति निरुक्ते यास्कः । रसया नद्या सह समुद्रं यस्य महित्वमाहुः । इमाः प्रदिशः पूर्वाद्याः प्रकृष्टा आशा यस्य महित्वमाहुः । यस्य बाहू भुजौ जगद्रक्षणाविति शेषः । सर्वं जगद्यस्य प्रजापतेर्विभूतिरित्यर्थः । कसै देवाय हविषा विधेमेति व्याख्यातम् ॥ १२ ॥
म० वयं कस्मै प्रजापतये देवाय हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः । कशब्दस्य सर्वनामत्वमार्षम् । इमे हिमवन्तः बहुवचनादन्येऽपि हिमाचलप्रभृतयः पर्वताः । प्रथमा द्वितीयार्थे । सुपां सुपो भवन्तीति वचनात् । इमान् हिमवत्प्रभृत्यद्रीन् यस्य प्रजापतेर्महित्वं महिमानमाहुर्बुधाः । महित्वेति विभक्तेराकारः । 'रसा नदी रसतेः शब्दकर्मणः' (निरु. ११ । २५) इति यास्कः । रसया नद्या सह समुद्रं यस्य महित्वमाहुः । इमाः प्रदिशः पूर्वाद्याः प्रकृष्टा आशा यस्य महित्वमाहुः । यस्य बाहू भुजौ जगद्रक्षणाविति शेषः । सर्वं जगद्यस्य प्रजापतेर्विभूतिरित्यर्थः ॥ १२ ॥

त्रयोदशी । ।
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।। १३ ।।