पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पुनर्देवे षष्ठी अङ्गे प्रथमा । 'क्रुड घनत्वे' क्रुडतीति क्रोडः घनो वक्षोमध्यभागः स इन्द्रस्यास्तु । क्रोडेन वा इन्द्रं प्रीणामि । एवमग्रेऽपि । पाजसे बलाय हितं पाजस्यं बलकरमङ्गं तददित्याः देवतायाः । अंसकक्षयोः सन्धिर्जत्रु। जायत इति पुंस्त्वमार्षम् । तानि दिशां देवतानाम् । 'भस भर्त्सनदीप्त्योः' बभस्ति दीप्यते भसत् लिङ्गाग्रं तददित्याः अस्तु । पुनर्देवे द्वितीया अङ्गे तृतीया । हृदये उपशेते हृदयौपशं हृदयस्थं मांसं तेन जीमूतान्प्रीणामि । पूर्यते पुरीतत् हृदयाच्छादकमन्त्रं तेनान्तरिक्षं देवं प्रीणामि । उदरे भवमुदर्यमुदरस्थं मांसं तेन नभोदेवं प्रीणामि । शरीरावयवाद्यत् । ग्रीवाधस्ताद्भागस्थितहृदयोभयपार्श्वस्थे अस्थिनी मतस्ने ताभ्यां चक्रवाकौ देवौ प्रीणामि । 'वृक आदाने' वृक्यते स्वादुतया गृह्यते वृक्का । नान्तः पुंस्ययम् । स्त्रीत्येके इति क्षीरस्वामी । वृक्का मुख्यं मांसं तेन दिवं देवतां प्रीणामि । वृक्कौ कुक्षिस्थौ मांसगोलकावाम्रफलाकृती इति याज्ञिकाः । प्रकर्षेणाश्नन्ति भुञ्जतेऽन्नानीति प्लाशयः शिश्नमूलनाड्यः तन्नाडीद्वारैवान्नस्य देहे संचारात् रलयोरभेदः ताभिर्गिरीन्देवान्प्रीणामि । हृदयवामभागे शिथिलो मांसभागः पुप्पुससंज्ञः 'प्लिह गतौ' प्लेहते प्लीहा नान्तः तेन उपलान्देवान् प्रीणामि । क्लोमति क्लोमा उदर्यो जलाधारः। 'हृदयस्य दक्षिणे यकृत् क्लोमा वामे प्लीहा पुप्पुसश्चेति वैद्य' इति क्षीरस्वामी। क्लोमा गलनाडीति कर्कः । तैर्वल्मीकान् देवान्प्रीणामि । ग्लायन्ति श्राम्यन्ति ग्लावो हृदयनाड्यः ताभिर्गुल्मान्देवान्प्रीणामि । हरन्त्यन्नरसमिति हिरा अन्यवाहिन्यो नाड्यः ताभिः स्रवन्तीः देवताः प्रीणामि । जठरस्य दक्षवामभागौ कुक्षी ताभ्यां हृदान्देवान्प्रीणामि । उदरेण जठरेण समुद्रं प्रीणामि । भस्मनाङ्गोत्थेन वैश्वानरं देवं प्रीणामि ॥८॥
म० पुनर्देवे षष्ठी अङ्गे प्रथमा । 'नना क्रोडं भुजान्तरम्' इत्यमरः । 'क्रुड घनत्वे' क्रुडतीति क्रोड: घनो वक्षोमध्यभागः स इन्द्रस्यास्तु क्रोडेन वा इन्द्रं प्रीणामि एवमग्रेऽपि । पाजसे बलाय हितं पाजस्यं बलकरमङ्गं तददित्याः देवतायाः । 'सन्धी तस्यैव जत्रुणी' इत्यमरः । अंसकक्षयोः सन्धिर्जत्रु । जायत इति पुंस्त्वमार्षम् । तानि दिशां देवतानाम् । 'भस भर्त्सनदीप्त्योः' वभस्ति दीप्यते भसत् लिङ्गाग्रं तददित्याः अस्तु । पुनर्देवे द्वितीया अङ्गे तृतीया । हृदये उपशेते हृदयौपशं हृदयस्थं मांसं तेन जीमूतान्प्रीणामि । पूर्यते पुरीतत् हृदयाच्छादकमन्त्रं तेनान्तरिक्षं देवं प्रीणामि । उदरे भवमुदर्यमुदरस्थं मांसं तेन नभो देवं प्रीणामि । 'शरीरावयवाद्यत्' । ग्रीवाधस्ताद्भागस्थितहृदयोभयपार्श्वस्थे अस्थिनी मतस्ने ताभ्यां चक्रवाकौ देवौ प्रीणामि । 'वृक्काग्रमांसम्' इत्यमरः । 'वृक आदाने' | वृक्यते स्वादुतया गृह्यते वृक्का । नान्तः पुंस्ययं स्त्रीत्येके इति क्षीरस्वामी । वृक्का मुख्यं मांसं तेन दिवं देवतां प्रीणामि । वृक्कौ कुक्षिस्थौ मांसगोलकावाम्रफलाकृती इति याज्ञिकाः । | प्रकर्षेणाश्नन्ति भुञ्जतेऽन्नानीति प्लाशयः शिश्नमूलनाड्यः तन्नाडीद्वारैवान्नस्य देहे संचारात् रलयोरभेदः । ताभिर्गिरीन्देवान्प्रीणामि । 'गुल्मस्तु प्लीहा पुंसि' इत्यमरः । हृदयवामभागे शिथिलो मांसभागः पुप्पुससंज्ञः 'प्लिह गतौ' प्लेहते प्लीहा नान्तः तेन उपलान्देवान्प्रीणामि । 'तिलकं क्लोम' इत्यमरः । क्लोमति क्लोमा उदर्यो जलाधारः । हृदयस्य दक्षिणे यकृत् क्लोमा वामे प्लीहा पुप्पुसश्चेति वैद्या इति क्षीरस्वामी । क्लोमा गलनाडीति कर्कः । तैर्वल्मीकान्देवान्प्रीणामि । ग्लायन्ति श्राम्यन्ति ग्लावो हृदयनाड्यः ताभिर्गुल्मान्देवान्प्रीणामि । हरन्त्यन्नरसमिति हिरा अन्नवाहिन्यो नाड्यः ताभिः स्रवन्तीः देवताः प्रीणामि । 'पिचण्डकुक्षी जठरोदरं तुन्दम्' इत्यमरः । | जठरस्य दक्षवामभागौ कुक्षी ताभ्यां ह्रदान्देवान्प्रीणामि । | उदरेण जठरेण समुद्रं प्रीणामि । भस्मनाङ्गोत्थेन वैश्वानरं देवं प्रीणामि ॥ ८ ॥

नवमी।
विधृ॑तिं॒ नाभ्या॑ घृ॒तᳪ रसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षा॑ᳪसि चि॒त्राण्यङ्गै॒र्नक्ष॑त्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ।। ९ ।।
उ० नाभ्या उदराधःस्थग्रन्थिना विधृतिं देवतां प्रीणामि । 'रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः । शृङ्गारादिरसे वीर्ये देहधात्वम्बुपारदे' इति विश्वः । रसेन वीर्येण धातुविशेषेण वा घृतं देवं प्रीणामि । यूपः क्वथितो रसः 'पद्दन्-'इत्यादिना यूषन्नादेशः । यूष्णा पक्वान्नरसेनापो देवताः प्रीणामि । विप्रुड्भिर्वसाबिन्दुभिर्मरीचीर्देवताः प्रीणामि । 'ऊष्मणस्तु निदाघोष्णग्रीष्मा बाप्पसहा अपि' इति विश्वः । ऊष्मणा शरीरगतेनौष्ण्येन नीहारं देवं प्रीणामि । वस्ते मांसमिति वसा 'शुद्धमांसस्य यः स्नेहः सा वसा' इति वैद्या इति स्वामी । वसया मांसस्नेहेन शीनं देवं प्रीणामि । दूषीकाभिर्नेत्रमलैर्रा' दुनीर्देवताः प्रीणामि । अस्यते सृज्यते इति वा असृक् रुधिरं 'पद्दन्-'इत्यसन्नादेशः। अस्रा रक्षांसि प्रीणामि । अङ्गैः पूर्वानुक्तावयवैः चित्राणि देवतानि प्रीणामि । 'रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः' इति विश्वः । रूपेण सौन्दर्येण नक्षत्राणि देवतानि प्रीणामि । त्वचा चर्मणा पृथिवीं प्रीणामि । स्वाहेति मन्त्रैराज्यं जुहोतीत्यर्थः । अत्र अग्निं हृदयेनाशनिं हृदयाग्रेणे