पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भासदौ नितम्बौ तावग्नीषोमयोः भासद्भ्यामग्नीषोमौ प्रीणामि । क्रुञ्चौ श्रोणिभ्यां पुनः पूर्ववदङ्गात्तृतीया । 'कटिः श्रोणिः ककुद्मती' इत्यमरः । श्रोणिभ्यां दक्षवामाभ्यां कटिप्रदेशाभ्यां क्रुञ्चौ देवौ प्रीणामि । इन्द्राबृहस्पती ऊरुभ्याम् । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । ऊरुभ्यामिन्द्राबृहस्पती देवौ प्रीणामि । मित्रावरुणौ अल्गाभ्याम् अलमत्यर्थं गच्छतः ऊरुभ्यां संयोगं प्राप्नुतस्तौ अल्गौ वङ्क्षणौ ऊरुसन्धी ताभ्यां मित्रावरुणौ प्रीणामि । स्थूरौ स्थूलौ स्फिचौ नितम्बाधोभागौ ताभ्यामाक्रमणं देवं प्रीणामि । 'कुष निष्कर्षे' कुष्येते तौ कुष्टौ नितम्बस्थौ कूपको आवर्तौ ककुन्दरशब्दवाच्यौ ताभ्यां बलं देवं प्रीणामि ॥ ६ ॥
म० अथाङ्गान्तराणां देवता आह । विभक्तिव्यत्ययः । स्कन्धप्रदेशैर्मरुतो देवान् प्रीणामि । अश्वपुच्छोपरि तिस्रोऽस्थिपङ्क्तयः सन्ति तासां देवता आह । 'कीकसं कुल्यमस्थि च' इत्यमरः । कीकसति शब्दं करोति कीकसमस्थि प्रथमा कीकसा प्रथमानि कीकसानि पुच्छोपरिस्थाद्यास्थिपङ्क्तिर्विश्वेषां देवानां प्रथमकीकसैर्विश्वान्देवान्प्रीणामि । द्वितीयास्थिपङ्क्तिः रुद्राणां द्वितीयै रुद्रान्प्रीणामि । तृतीयानि कीकसानि आदित्यानां तृतीयैः कीकसैरादित्यान्प्रीणामि । वायोः पुच्छं पुच्छेन वायुं प्रीणामि । भासदौ भासेते तौ भासदौ नितम्बौ तावग्नीषोमयोः भासद्भ्यामग्नीषोमौ प्रीणामि । क्रुञ्चौ श्रोणिभ्यां पुनः पूर्ववदङ्गात् तृतीया । 'कटिः श्रोणीः ककुद्मती' इत्यमरः । श्रोणीभ्यां दक्षवामाभ्यां कटिप्रदेशाभ्यां क्रुञ्चौ देवौ प्रीणामि । इन्द्राबृहस्पती ऊरुभ्याम् 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । ऊरुभ्यामिन्द्राबृहस्पति देवौ प्रीणामि । मित्रावरुणौ अल्गाभ्याम् अलमत्यर्थं गच्छत ऊरुभ्यां संयोगं प्राप्नुतस्तौ अल्गौ वङ्क्षणौ ऊरुसन्धी ताभ्यां मित्रावरुणौ प्रीणामि । स्थूरौ स्थूलौ स्फिचौ नितम्बाधोभागौ नाभ्यामाक्रमणं देवं प्रीणामि । 'कुष निष्कर्ष' कुष्येते तौ कुष्ठौ नितम्बस्थौ कूपकौ आवर्तौ ककुन्दरशब्दवाच्यौ ताभ्यां बलं देवं प्रीणामि ॥६॥

सप्तमी।
पू॒षणं॑ वनि॒ष्ठुना॑ऽन्धा॒हीन्त्स्थू॑लगु॒दया॑ स॒र्पान्गुदा॑भिर्वि॒ह्रुत॑ आ॒न्त्रैर॒पो व॒स्तिना॒ वृष॑णमा॒ण्डाभ्यां॒ वाजि॑न॒ᳪ शेपे॑न प्र॒जाᳪ रेत॑सा॒ चाषा॑न् पि॒त्तेन॑ प्रद॒रान् पा॒युना॑ कू॒श्माञ्छ॑कपिण्डैः ।। ७ ।।
उ० वनति संभजति वनिष्ठुः स्थूलान्त्रं तेन पूषणं देवं प्रीणामि । 'गुदं त्वपानं पायुर्ना' इत्यमरः । स्त्रीत्वं छान्दसम् । स्थूला चासौ गुदा च स्थूलगुदा तया गुदस्य स्थूलभागेन अन्धाहीन्प्रीणामि । अन्धाश्च ते अहयश्च सर्पास्तान सर्पान् गुदाभिः स्थूलगुदातिरिक्तैर्गुदभागैः सर्पान् प्रीणामि । विह्रुत आन्त्रैः 'अन्त्रं पुरीतत्' इत्यमरः । 'अम् गतौ भजने शब्दे' अमति भजत्यनेनान्नमित्यन्त्रम् अन्त्रे भवा
आन्त्राः अन्त्रसंबन्धिनो मांसभागाः तैर्विह्रुतो देवान्प्रीणामि । अपो बस्तिना 'बस्तिर्नाभेरधो द्वयोः' इत्यमरः । वसति मूत्रं यस्मिन् स वस्तिः नाभेरधो वर्तमानं मूत्रपुटं तेनापो देवताः प्रीणामि । 'मुष्कोऽण्डो वृषणः कोशः' अण्ड एवाण्डः ताभ्यां लिङ्गोभयपार्श्वस्थाभ्यां मांसपिण्डाभ्यां वृषणं देवं प्रीणामि । शेपो लिङ्गं तेन वाजिनं देवं प्रीणामि । 'शिश्नो मेढ्रो मेहनशेफसी' इत्यमरः । 'शि निशाने' शिनोति भगमिति शेपः सान्तोऽदन्तश्च । प्रजां रेतसा 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । 'रीङ् स्रवणे' रियते स्रवति रेतो वीर्यं तेन प्रजादेवतां प्रीणामि । मायुः पित्तं । पतति स्रंसते पित्तं धातुविशेषस्तेन चाषान् देवान् प्रीणामि। पाति मलोत्सर्गमिति पायुर्गुदमुक्तातिरिक्तं तेन गुदतृतीयभागेन प्रदरान्देवान्प्रीणामि । कूश्मान् शकपिण्डैः । 'शको देशे नृपे विशि' । विशि विष्ठायां शकस्य विष्ठायाः पिण्डैः कूष्मान् देवान् प्रीणामि ॥ ७ ॥
म०. वनति संभजति वनिष्ठुः स्थूलान्त्रं तेन पूषणं देवं प्रीणामि । 'गुदं त्वपानं पायुर्ना' इत्यमरः । स्त्रीत्वं छान्दसम् । ' स्थूला चासौ गुदा च स्थूलगुदा तया गुदस्य स्थूलभागेन अन्धाहीन् प्रीणामि । अन्धाश्च ते अहयश्च सर्पास्तान् सर्पान् | गुदाभिः स्थूलगुदातिरिक्तैर्गुदभागैः सर्पान्प्रीणामि । विह्रुत आन्त्रैः ‘अन्त्रं पुरीतत्' इत्यमरः । 'अम् गतौ भजने शब्दे'। , अमति भजत्यनेनान्नमित्यन्त्रम् । अन्त्रे भवा आन्त्राः अन्त्रसंबन्धिनो मांसभागाः तैर्विह्रुतो देवान्प्रीणामि । अपो बस्तिना 'बस्तिर्नाभेरधो द्वयोः' इत्यमरः । वसति मूत्रं यस्मिन्स वस्तिः नाभेरधो वर्तमानं मूत्रपुटं तेनापो देवताः प्रीणामि । | 'मुष्कोऽण्डो वृषणः कोशः' इत्यमरः । अण्ड एवाण्डः ताभ्यां लिङ्गोभयपार्श्वस्थाभ्यां मांसपिण्डाभ्यां वृषणं देवं प्रीणामि । शेपो लिङ्गं तेन वाजिनं देवं प्रीणामि 'शिश्नो मेढ्रो मेहनशेपसी' इत्यमरः । 'शि निशाने' शिनोति भगमिति शेपः सान्तोऽदन्तश्च । प्रजां रेतसा 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । 'रीङ् स्रवणे' रियते स्रवति रेतो वीर्यं तेन प्रजां देवतां प्रीणामि । मायुः पित्तं पतति स्रंसते पित्तं धातुविशेषस्तेन चाषान्देवान्प्रीणामि । पाति मलोत्सर्गमिति पायुर्गुदमुक्तातिरिक्तं तेन गुदतृतीयभागेन प्रदरान्देवान्प्रीणामि । कूश्मान् शकपिण्डैः । 'शको देशे नृपे विशि' । विशि विष्ठायां शकस्य विष्ठायाः पिण्डैः कूश्मान् देवान् प्रीणामि ॥ ७ ॥

अष्टमी।
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्यं॒ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जी॒मूता॑न् हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॒ नभ॑ उद॒र्ये॒ण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन् प्ला॒शिभि॒रुप॑लान् प्ली॒ह्ना व॒ल्मीका॑न् क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न् हि॒राभि॒: स्रव॑न्तीर्ह्र॒दान् कु॒क्षिभ्या॑ᳪ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ।। ८ ।।