पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० अत्र षष्ठ्या देवतोद्देशः प्रथमयाङ्गोद्देशः ततोऽस्त्वित्यध्याहारः । अग्नेः देवस्य पक्षतिरस्तु । 'पक्षः साध्यविरोधयोः । बले काले पतत्रे च रुचौ पार्श्वे प्रकल्पितः' इत्यभिधानोक्तेरत्र पक्षः पार्श्ववाची। पक्षस्य मूलं पक्षतिः ‘पक्षात्तिः' इति मूलार्थे तिप्रत्ययः । ततः पक्षस्य पार्श्वस्य मूलभूतान्यस्थीनि वंक्रिशब्दवाच्यानि पक्षतिशब्देनोच्यन्ते । तानि च प्रतिपार्श्वं त्रयोदश भवन्ति । 'षड्विंशतिरश्वस्य वंक्रयः' इति श्रुतेः । तेषां क्रमेण देवतासंबन्धं वक्ति । तत्रादौ दक्षिणपार्श्वास्थ्नां देवता आह । अग्नेः पक्षतिः प्रथमं दक्षिणपार्श्वास्थि अग्नेरस्तु । विभक्तिव्यत्ययो वा । पक्षत्या अग्निं देवं प्रीणामि । वायोर्निपक्षतिः नीचा पक्षतिर्निपक्षतिः द्वितीयं दक्षिणपार्श्वास्थि वायोर्देवस्यास्तु । एवमग्रेऽपि व्याख्येयम् । तृतीया पक्षतिरिन्द्रस्यास्तु । चतुर्थी पक्षतिः सोमस्य । अदित्यै । चतुर्थी षष्ठ्यर्था । पञ्चमी पक्षतिः अदित्याः । षष्ठी पक्षतिः इन्द्राण्याः । सप्तमी पक्षतिः मरुताम् । अष्टमी पक्षतिः बृहस्पतेः । नवमी पक्षतिरर्यम्णो देवस्य । दशमी धातुर्देवस्य । एकादशी पक्षतिः इन्द्रस्य । द्वादशी पक्षतिः वरुणस्य । त्रयोदशी पक्षतिः दक्षिणपार्श्वास्थि यमस्य देवस्यास्तु ॥ ४ ॥
म०. अत्र षष्ठ्या देवतोद्देशः प्रथमयाङ्गोद्देशः ततोऽस्त्वित्यध्याहारः । अग्नेः देवस्य पक्षतिरस्तु । 'पक्षः साध्यविरोधयोः बले काले पतत्रे च रुचौ पार्श्वे प्रकल्पितः' इत्यभिधानोक्तेरत्र पक्षः पार्श्ववाची । पक्षस्य मूलं पक्षतिः ‘पक्षात्तिः' (पा० ५। २। २५) इति मूलार्थे तिप्रत्ययः । ततः पक्षस्य पार्श्वस्य मूलभूतान्यस्थीनि वंक्रिशब्दवाच्यानि पक्षतिशब्देनोच्यन्ते । तानि च प्रतिपार्श्वं त्रयोदश भवन्ति 'षड्विᳪशतिरश्वस्य वंक्रयः' ( कौषी० ब्रा० १० । ४ ) इति श्रुतेः । तेषां क्रमेण देवतासंबन्धं वक्ति । तत्रादौ दक्षिणपार्श्वास्थ्नां देवता आह । अग्नेः पक्षतिः प्रथमं दक्षिणपार्श्वास्थि अग्नेरस्तु । विभक्तिव्यत्ययो वा । पक्षत्याग्निं देवं प्रीणामि । वायोर्निपक्षतिः नीचा पक्षतिर्निपक्षतिः । द्वितीयं दक्षिणपार्श्वास्थि वायोर्देवस्यास्तु । एवमग्रेऽपि व्याख्येयम् । तृतीया पक्षतिरिन्द्रस्यास्तु । चतुर्थी पक्षतिः सोमस्य । अदित्यै । चतुर्थी षष्ठ्यर्था । पञ्चमी पक्षतिः अदित्याः । षष्ठी पक्षतिः इन्द्राण्याः । सप्तमी पक्षतिः मरुताम् । अष्टमी पक्षतिः बृहस्पतेः । नवमी पक्षतिरर्यम्णो देवस्य । दशमी धातुर्देवस्य । एकादशी पक्षतिः इन्द्रस्य । द्वादशी पक्षतिः वरुणस्य । त्रयोदशी पक्षतिः दक्षिणपार्श्वास्थि यमस्य देवस्यास्तु ॥ ४ ॥

पञ्चमी।
इ॒न्द्रा॒ग्न्योः प॑क्ष॒ति: सर॑स्वत्यै॒ निप॑क्षतिर्मि॒त्रस्य॑ तृ॒तीया॒पां च॑तु॒र्थी निरृ॑त्यै पञ्च॒म्यग्नीषोम॑योः ष॒ष्ठी स॒र्पाणा॑ᳪ सप्त॒मी विष्णो॑रष्ट॒मी पू॒ष्णो न॑व॒मी त्वष्टु॑र्दश॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒म्यै त्र॑योद॒शी द्यावा॑पृथि॒व्योर्दक्षि॑णं पा॒र्श्वं विश्वे॑षां दे॒वाना॒मुत्त॑रम् ।। ५ ।।
उ० अथ वामपार्श्वस्थान् देवानाह । प्रथममुपरिस्थं - वामपार्थास्थि इन्द्राग्न्योर्देवयोरस्तु । सरस्वत्यै निपक्षतिः द्वितीया पक्षतिः सरस्वत्याः। तृतीया पक्षतिर्मित्रस्य देवस्य । चतुर्थी अपां देवतानाम् । पञ्चमी निर्ऋत्यै निर्ऋतेः । षष्ठी - अग्नीषोमयोः । सप्तमी सर्पाणां देवानाम् । अष्टमी विष्णोर्देवस्य । नवमी पूष्णो देवस्य । दशमी त्वष्टुः । एकादशी इन्द्रस्य । द्वादशी वरुणस्य । यमस्येयं यमी । त्रयोदशी पक्षतिः यमसंबन्धिनी । चतुर्थी प्रथमार्था । अथ समस्तयोः पार्श्वयोर्देवानाह । दक्षिणं पार्श्वं द्यावापृथिव्योरस्तु । उत्तरं वामं पार्श्वं विश्वेषां देवानामस्तु ॥ ५॥
म० अथ वामपार्श्वस्थ्नां देवानाह । प्रथममुपरिस्थं वामपार्श्वास्थि इन्द्राग्न्योर्दैवयोरस्तु । सरस्वत्यै निपक्षतिः । द्वितीया पक्षतिः सरस्वत्याः । तृतीया पक्षतिर्मित्रस्य देवस्य । चतुर्थी अपां देवतानाम् । पञ्चमी निर्ऋत्यै निर्ऋतेः । षष्ठी अग्नीषोमयोः । सप्तमी सर्पाणां देवानाम् । अष्टमी विष्णोर्देवस्य । नवमी पूष्णो देवस्य । दशमी त्वष्टुः । एकादशी इन्द्रस्य । । द्वादशी वरुणस्य । यमस्येयं यमी त्रयोदशी पक्षतिः यमसंबन्धिनी । चतुर्थी प्रथमार्था । अथ समस्तयोः पार्श्वयोर्देवानाह । दक्षिणं पार्श्वं द्यावापृथिव्योरस्तु । उत्तरं वामं पार्श्वं विश्वेषां देवानामस्तु ॥ ५॥

षष्ठी।
म॒रुता॑ᳪ स्कन्धा॒ विश्वे॑षां दे॒वानां॑ प्रथ॒मा कीक॑सा रु॒द्राणां॑ द्वि॒तीया॑ऽऽदि॒त्यानां॑ तृ॒तीया॑ वा॒योः पुच्छ॑म॒ग्नीषोम॑यो॒र्भास॑दौ॒ क्रुञ्चौ॒ श्रोणि॑भ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्यां॑ मि॒त्रावरु॑णाव॒ल्गाभ्या॑मा॒क्रम॑णᳪ स्थू॒राभ्यां॒ बलं॒ कुष्ठा॑भ्याम् ।। ६ ।।
उ० अथाङ्गान्तराणां देवता आह । विभक्तिव्यत्ययः । स्कन्धप्रदेशार्मरुतो देवान् प्रीणामि । अश्वपुच्छोपरि तिस्रो ऽस्थिपङ्त्तयः सन्ति तासां देवता आह । 'कीकसं कुल्यमस्थि च' इत्यमरः । कीकसति शब्दं करोतीति कीकसमस्थि । प्रथमा कीकसा प्रथमानि कीकसानि पुच्छोपरिस्थाद्यस्थिपङक्तिर्विश्वेषां देवानां । प्रथमकीकसैर्विश्वान्देवान्प्रीणामि । द्वितीयास्थिपङ्क्तिः रुद्राणां द्वितीयै रुद्रान् प्रीणामि । तृतीयानि कीकसानि आदित्यानां तृतीयैः कीकसैरादित्यान् प्रीणामि । वायोः पुच्छं पुच्छेन वायुं प्रीणामि । भासदौ भासेते तौ