पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मस्तकमज्जेति क्षीरस्वामी । तेन मस्तिष्केणाशनिं देवं प्रीणामि । विद्युतं कनीनकाभ्यां प्रीणामीति पूर्ववत् । कर्णाभ्यां श्रोत्रम् । अत्राश्वाङ्गात्मिका एव देवता । कर्णाभ्यां कर्णशष्कुलीभ्यां श्रोत्रं देवं प्रीणामि । श्रोत्रेन्द्रियाभ्यां कर्णौ देवौ प्रीणामि । कण्ठाधोभागेन तेदनीं देवतां प्रीणामि । शुष्कश्चासौ कण्ठश्च शुष्ककण्ठम् कण्ठस्य यः शुष्को निर्मांसो देशः तेनापोदेवताः प्रीणामि । 'पश्चाद्ग्रीवा शिरा मन्या' इत्यमरः । ग्रीवापश्चाद्भागे कृकाटिकायां शिरा मन्या मन्यत इति मन्या 'संज्ञायां समजनि' इति क्यप् । ग्रीवापश्चान्नाडीभिश्चित्तं प्रीणामि । शीर्ष्णा शिरसा दितिं देवतां प्रीणामि । शीर्षस्य शीर्षन्नादेशः शसादौ । नितरां जर्जरीभूतेन शिरोभागेन निर्ऋतिं देवं प्रीणामि । सम्यक् क्रोशन्ति शब्दायन्ते तानि संक्रोशानि गच्छतोऽश्वस्य यान्यङ्गानि शब्दं कुर्वन्ति तैरङ्गैः प्राणान् देवान् प्रीणामि । 'स्तुप उच्छ्राये' । स्तुपेन उच्छ्रितेन शिखाभूतेनाङ्गेन रेष्माणं देवं प्रीणामि ॥ २ ॥
म० अश्वस्य प्राणवायुना वातं प्रीणामि । अपानवायुना नासिकासंज्ञे द्वे देवते प्रीणामि । अधस्तनेन ओष्ठेन उपयामं देवं प्रीणामि । उपरितनेन ओष्ठेन सत्संज्ञं देवं प्रीणामि । प्रकाशेनोपरितनदेहकान्या अन्तरं देवं प्रीणामि । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा० ६ । ३ । १२२ ) इत्यनोर्दीर्घः । अनूकाशेनाधस्तनदेहकान्त्या बाह्यं देवं प्रीणामि । मूर्ध्ना मस्तकेन निवेष्यं देवं प्रीणामि । निश्चितं बध्यते निर्बाधः शिरोऽस्थिमध्यसंलग्नो मज्जाभागः तेन स्तनयित्नुं देवं प्रीणामि । मस्तके भवं मस्तिष्कं शिरोमध्यस्थो जर्जरो मांसभागः । 'मस्तिष्कं गोर्दम्' इत्यमरः । मस्तकमिष्यति गच्छति मस्तिष्कम् । 'इष गतौ' मस्तकमज्जेति क्षीरस्वामी । तेन मस्तिष्केणाशनिं देवं प्रीणामि । विद्युतं कनीनकाभ्यां प्रीणामीति पूर्ववत् । कर्णाभ्यां श्रोत्रम् । अत्राश्वाङ्गात्मिका एव देवता । कर्णाभ्यां कर्णशष्कुलीभ्यां श्रोत्रं देवं प्रीणामि । श्रोत्रेन्द्रियाभ्यां कर्णौ देवौ प्रीणामि । कण्ठाधोभागेन तेदनीं देवतां प्रीणामि । शुष्कश्चासौ कण्ठश्च शुष्ककण्ठम् । कण्ठस्य यः शुष्को निर्मांसो देशः तेनापो देवताः प्रीणामि । ‘पश्चाद्ग्रीवा शिरा मन्या' इत्यमरः । ग्रीवापश्चाद्भागे कृकाटिकायां शिरा मन्या मन्यत इति मन्या 'संज्ञायां समजनि-' (पा० ३ । ३ । ९९) इति क्यप् । ग्रीवापश्चान्नाडीभिश्चित्तं प्रीणामि । शीर्ष्णा शिरसा दितिं देवतां प्रीणामि । शीर्षस्य शीर्षन्नादेशः शसादौ । नितरां जर्जरीभूतेन शिरोभागेन निर्ऋतिं देवं प्रीणामि । सम्यक् क्रोशन्ति शब्दायन्ते तानि संक्रोशानि गच्छतोऽश्वस्य यान्यङ्गानि शब्दं कुर्वन्ति तैरङ्गैः प्राणान्देवान्प्रीणामि । 'स्तुप उच्छ्राये' स्तुपेन उच्छ्रितेन शिखाभूतेनाङ्गेन रेष्माणं देवं प्रीणामि ॥ २ ॥

तृतीया।
म॒शका॒न् केशै॒रिन्द्र॒ᳪ स्वप॑सा॒ वहे॑न॒ बृह॒स्पति॑ᳪ शकुनिसा॒देन॑ कू॒र्माञ्छ॒फैरा॒क्रम॑णᳪ स्थू॒राभ्या॑मृ॒क्षला॑भिः क॒पिञ्ज॑लाञ्च ज॒वं जङ्घा॑भ्या॒मध्वा॑नं बा॒हुभ्यां॒ जाम्बी॑ले॒नार॑ण्यम॒ग्निम॑ति॒रुग्भ्यां॑ पू॒षणं॑ दो॒र्भ्याम॒श्विना॒वᳪसा॑भ्याᳪ रु॒द्रᳪ रोरा॑भ्याम् ।। ३ ।।
उ० केशैः स्कन्धस्थरोमभिः मशकान् देवान् प्रीणामि । वहः स्कन्धस्तेनेन्द्रं प्रीणामि । कीदृशेन वहेन । स्वपसा अप इति कर्मनाम । शोभनमपः कर्म पर्याणधारणनरवहनादिकं यस्य स स्वपाः तेन । शकुनिः पक्षी तद्वत् सादो गमनम् षद्लृ विशरणगत्यादौ' घञ् । वेगवत् कूर्दनं तेन बृहस्पतिं देवं प्रीणामि । 'शफं क्लीबे खुरः पुमान्' इति कोशः । | खुरैः कूर्मान् देवान् प्रीणामि । रलयोरैक्यम् । स्थूलाभ्यां गुल्फाभ्यामाक्रमणं देवं प्रीणामि । गुल्फाधःस्था नाड्य ऋक्षलास्ताभिः कपिञ्जलान् देवान् प्रीणामि । गुल्फजानुनोर्मध्यभागो जङ्घा ताभ्यां जवं देवं प्रीणामि । अग्रपादयोर्जानूर्ध्वभागौ बाहू ताभ्यां अध्वानं देवं प्रीणामि । | जाम्बीरं जम्बीरतरोः फलं । रलयोरभेदः । तदाकारो जानुमध्यभागो जाम्बीरस्तेनारण्यं देवं प्रीणामि । अत्यन्तं रोचेते तौ अतिरुचौ जानुदेशौ ताभ्यामग्निं देवं प्रीणामि । अग्रपादयोर्जान्वधो दोषौ करौ ताभ्यां पूषणं देवं प्रीणामि । | अंसौ स्कन्धौ ताभ्यामश्विनौ देवौ प्रीणामि । रोरावंसग्रन्थी ताभ्यां रुद्रं प्रीणामि ॥ ३ ॥
म० केशैः स्कन्धस्थरोमभिः मशकान्देवान्प्रीणामि । वहः स्कन्धस्तेनेन्द्रं प्रीणामि । कीदृशेन वहेन । स्वपसा अप इति कर्मनाम । शोभनमपः कर्म पर्याणधारणनरवहनादिकं यस्य स
स्वपाः तेन । शकुनिः पक्षी तद्वत् सादो गमनम् 'षद्लृ विशरणगत्यादौ' घञ् । वेगवत् कूर्दनं तेन बृहस्पतिं देवं प्रीणामि । 'शफं क्लीबे खुरः पुमान्' खुरैः कूर्मान्देवान्प्रीणामि । रलयोरैक्यम् । स्थूलाभ्यां गुल्फाभ्यामाक्रमणं देवं प्रीणामि । गुल्फाधःस्था नाड्यः ऋक्षलास्ताभिः कपिञ्जलान्देवान्प्रीणामि । - गुल्फजानुनोर्मध्यभागो जङ्घा ताभ्यां जवं देवं प्रीणामि । अग्रपादयोर्जानूर्ध्वभागौ बाहू ताभ्यां अध्वानं देवं प्रीणामि । जाम्बीरं जम्बीरतरोः फलं रलयोरभेदः तदाकारो जानुमध्यभागो जाम्बीरस्तेनारण्यं देवं प्रीणामि । अत्यन्तं रोचते तौ अतिरुचौ जानुदेशौ ताभ्यामग्निं देवं प्रीणामि । अग्रपादयोर्जान्वधो दोषौ करौ ताभ्यां पूषणं देवं प्रीणामि । अंसौ स्कन्धौ ताभ्यामश्विनौ देवौ प्रीणामि । रोरावंसग्रन्थी ताभ्यां रुद्रं प्रीणामि ॥ ३ ॥

चतुर्थी ।
अ॒ग्नेः प॑क्ष॒तिर्वा॒योर्निप॑क्षति॒रिन्द्र॑स्य तृ॒तीया॒ सोम॑स्य चतु॒र्थ्यदि॑त्यै पञ्च॒मीन्द्रा॒ण्यै ष॒ष्ठी म॒रुता॑ᳪ सप्त॒मी बृह॒स्पते॑रष्ट॒म्य॒र्य॒म्णो न॑व॒मी धा॒तुर्द॑श॒मीन्द्र॑स्यैकाद॒शी वरु॑णस्य द्वाद॒शी य॒मस्य॑ त्रयोद॒शी ।। ४ ।।