पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० बलाका बकस्त्री सूर्य देवत्या । शार्गः पक्षिविशेषः । अथ पञ्चदशेऽवकाशे सृजयः पक्षिविशेषः शयाण्डकोऽपि ते मैत्राः मित्रदेवत्याः । पुरुषवाक् मनुष्यवद्वादिनी शारिः शुकी सरस्वत्यै । श्वावित् सेधा भौमी भूदेवत्या शार्दूलो व्याघ्रः वृकः चित्रकः पृदाकुः सर्पः ते त्रयो मन्यवे । पुरुषवाक् शुकः सरस्वते समुद्राय ॥ ३३ ॥
म० बलाका बकस्त्री सूर्य देवत्या । शार्गः पक्षिविशेषः । अथ पञ्चदशेऽवकाशे सृजयः पक्षिविशेषः शयाण्डकोऽपि ते मैत्राः मित्रदेवत्याः । पुरुषवाक् मनुष्यवद्वादिनी शारिः शुकी सरस्वत्यै । श्वावित् सेधा भौमी भूदेवत्या शार्दूलो व्याघ्रः वृकः चित्रकः पृदाकुः सर्पः ते त्रयो मन्यवे । पुरुषवाक् शुकः सरस्वते समुद्राय ॥ ३३ ॥

चतुस्त्रिंशी।
सु॒प॒र्णः पा॑र्ज॒न्य आ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जो॒ऽल॒ज आ॑न्तरि॒क्षः प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दीप॒त॑ये द्यावापृथि॒वीय॑: कू॒र्मः ।। ३४ ।।
उ० सुपर्णः गरुत्मान् पार्जन्यः पर्जन्याय । आतिः आडी वाहसः दार्विदा काष्ठकुट्टः ते त्रयः पक्षिविशेषाः वायवे । बृहस्पतये वाचस्पतये वाचो वाण्याः पतये इति बृहस्पतिविशेषणम् । ईदृशाय बृहस्पतये पैङ्गराजः पक्षिविशेषः । अथ पोडशेऽवकाशे अलजः पक्षिविशेषः आन्तरिक्षः अन्तरिक्षदेवतः । प्लवः जलपक्षी मद्गुः कारण्डवः मत्स्यः ते नदीपतये। कूर्मः कच्छपः द्यावापृथिवीयः द्यावापृथिवीदेवतः ॥ ३४ ॥
म० सुपर्णः गरुत्मान् पार्जन्यः पर्जन्याय । आतिः आडी वाहसः दार्विदा काष्ठकुट्टः ते त्रयः पक्षिविशेषाः वायवे । बृहस्पतये वाचस्पतये वाचो वाण्याः पतये इति बृहस्पतिविशेषणम् । ईदृशाय बृहस्पतये पैङ्गराजः पक्षिविशेषः । अथ षोडशेऽवकाशे अलजः पक्षिविशेषः आन्तरिक्षः अन्तरिक्षदेवतः । प्लवः जलपक्षी मद्गुः कारण्डवः मत्स्यः ते नदीपतये । कूर्मः कच्छपः द्यावापृथिवीयः द्यावापृथिवीदेवतः ॥ ३४ ॥

पञ्चत्रिंशी।
पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नां कृक॒वाकु॑: सावि॒त्रो ह॒ᳪसो वात॑स्य ना॒क्रो मक॑रः कुली॒पय॒स्तेऽकू॑पारस्य ह्रि॒यै शल्य॑कः ।। ३५ ।।
उ० पुरुषमृगः पुंमृगः चन्द्रमसः । गोधा कालका पक्षिविशेषः दार्वाघाटः सारसः ते वनस्पतीनाम् । कृकवाकु: ताम्रचूडः सावित्रः सवितृदेवतः हंसः वातस्य । नाक्रः मकरः कुलीपयः ते त्रयो जलचरविशेषाः अकूपारस्य समुद्रस्य । त्रयाणां मध्ये द्वौ षोडशे । अथ सप्तदशेऽवकाशे एकः कुलीपयः अकूपारस्य । शल्यकः श्वावित् ह्रियै देव्यै ॥ ३५॥
म० पुरुषमृगः पुंमृगः चन्द्रमसः । गोधा कालका पक्षिविशेषः दार्वाघाटः सारसः ते वनस्पतीनाम् । कृकवाकुः ताम् चूडः सावित्रः सवितृदेवतः हंसः वातस्य । नाक्रः मकरः कुलीपयः ते त्रयो जलचरविशेषाः अकूपारस्य समुद्रस्य । त्रयाणां मध्ये द्वौ षोडशे । अथ सप्तदशेऽवकाशे एकः कुलीपयः अकूपारस्य । शल्यकः श्वावित् ह्रियै देव्यै ॥ ३५ ॥

षट्त्रिंशी।
ए॒ण्यह्नो॑ म॒ण्डूको॒ मूषि॑का ति॒त्तिरि॒स्ते स॒र्पाणां॑ लोपा॒श आ॑श्वि॒नः कृष्णो॒ रात्र्या॒ ऋक्षो॑ ज॒तूः सु॑षि॒लीका॒ त इ॑तरज॒नानां॒ जह॑का वैष्ण॒वी ।। ३६ ।।
उ० एणी मृगी अह्नः आलभ्या । मण्डूको मूषिका तित्तिरिः ते त्रयः सर्पाणाम् । लोपाशो वनचरविशेषः आश्विनः अश्विदेवतः । कृष्णो मृगः रात्र्यै । ऋक्षः भल्लूकः जतूः सुपिलीका एतौ पक्षिविशेषो ते त्रयः इतरजनानां देवानाम् । जहका गात्रसङ्कोचनी वैष्णवी विष्णुदेवत्या ॥ ३६॥
म० एणी मृगी अह्नः आलभ्या। मण्डूको मूषिका तित्तिरिः ते त्रयः सर्पाणाम् । लोपाशो वनचरविशेषः आश्विनः अश्विदेवतः । कृष्णो मृगः रात्र्यै । ऋक्षः भल्लूकः जतूः सुषिलीका एतौ पक्षिविशेषौ ते त्रयः इतरजनानां देवानाम् । जहका गात्रसङ्कोचनी वैष्णवी विष्णुदेवत्या ॥ ३६ ॥

सप्तत्रिंशी।
अ॒न्य॒वा॒पो॒ऽर्धमा॒साना॒मृश्यो॑ म॒यूर॑: सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सां क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते॑ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः ।। ३७ ।। (पुण्डृणाची – पाठभेदः)
उ०. अन्यवापः कोकिलाख्यः पक्षिविशेषोऽर्धमासानां पशुः । अथाष्टादशेऽवकाशे । ऋष्यो मृगविशेषः मयूरः बर्ही सुपर्णो गरुत्मान् ते गन्धर्वाणां पशवः । उद्रः जलचरः कर्कटसंज्ञः अपां पशुः । कश्यपः कच्छपः मासां मासानाम् । रोहित् ऋष्यः कुण्डृणाची वनचरीविशेषः गोलत्तिकापि ते त्रयोऽप्सरसाम् । असितः कृष्णः पशुर्मृत्यवे ॥ ३७ ॥
म० अन्यवापः कोकिलाख्यः पक्षिविशेषोऽर्धमासानां पशुः । अथाष्टादशऽवकाशे । ऋष्यो मृगविशेषः मयूरः बर्ही सुपर्णो गरुत्मान् ते गन्धर्वाणां पशवः। रुद्रः जलचरः कर्कटसंज्ञः अपां पशुः । कश्यपः कच्छपः मासां मासानाम् । रोहित् ऋष्यः